SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अत्रान्तरेऽवदत् साधुः सुधामधुरया गिरा । अहमप्यस्मि तत्रैतद्वाक्याकर्णन कौतुकी ॥ ७४ ॥ वक्तव्यं सत्यमेवात्रोपयुक्तैर्युक्तिमद् वचः । सत्यवाक् प्रत्ययस्थानं भवेत् सर्वाङ्गिनां प्रियः ।। ७५ ।। सत्येनाग्निर्भवेच्छीतो मार्ग दत्तेऽम्बु सत्यतः । नासिश्छिनत्ति सत्येन सत्याद् रज्जूयते फणी ॥ ७६ ॥ यन्मूत्वादयो दोषाः स्युः परत्रेह चायशः । जन्तूनां जायते यस्मात् तदसत्यं त्यजेत् सुधीः ॥ ७७ ॥ वञ्च्यते नहि केनापि सत्यवाग् धनवद् भुवि । आत्मानमात्मनैवान्यो वञ्चयेद् धरणो यथा ॥ ७८ ॥ अत्रैव विजयेऽभूतां सुदर्शनपुरे वरे । सुदत्तवणिजः पुत्रौ धनश्व धरणाभिधः ॥ ७९ ॥ धन निसर्गतः सत्यवाक तथा सत्यसङ्गरः । धरणो विपरीतस्तु मिश्रः प्रीतिस्तयोरभूत् ॥ ८० ॥ धनो मनसि निर्दम्भोऽभवदन्यस्तु दम्भभाक् । वाङ्मनः काय संशुद्धिः स्यात् सतामेव नासताम् ||८१|| पित्रोगौरवमालोक्य धनस्य धरणोऽन्यदा । दध्यौ मम गृहे सत्यस्मिन् पित्रोर्नेषदादरः ॥ ८२ ॥ जगाद धनमन्येद्युर्धरणो भ्रातरस्ति मे । कौतुकं दूरदेशेभ्योऽधुना धनमुपार्जितम् ॥ ८३ ॥ धनवादीत् कथं भ्रातस्तत्र गत्वार्ण्यते धनम् ? । विषमा दूरमध्वानो मुग्धौ त्वावां स्तनन्धयौ ॥ ८४ ॥ उवाच धरणो भ्रातरावां देशान्तरं गतौ । छलच्छद्मादिकृत्येनार्जयावो विभवं बहु ॥ ८५ ॥ आकर्णेति धनः कर्णौ पिधाय धरणं जग । भ्रातमैवेदृशं ब्रूहि नरकादिगतिप्रदम् ।। ८६ ।। For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 1000 ॥३४॥
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy