SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 0000000000000000000000000 तासां तं निश्चयं ज्ञात्वा पितरस्ते कनीनिजाः । गुणसागरसंज्ञाय महेभ्याकभुवे ददुः ॥ २४ ॥ वातायनगतोऽन्येार्ददर्श गुणसागरः । मृर्त्त धर्ममिव प्राप्तशमं वाचयमं जवात् ॥ २५ ॥ काप्यपश्यमिदं रूपमित्यूहापोहसङ्गतः । प्राग् जन्म निजमस्मार्षीत् श्रामण्यं च पुराकृतम् ॥ २६ ॥ ततो विशिष्टसवेगरङ्गसङ्गतमानसः । पितरो स्माह न स्थातुं क्षमेऽहं भवचारके ॥ २७ ॥ तत् प्रसद्य व्रतादानानुमति मे प्रयच्छतम् । पाहतुस्तौ वत्स! किं ते सांप्रतं यौवने व्रतम् ॥ २८ ॥ अथ चेद् वत्स निर्बन्धो व्रते ते न निवर्तते । तदोद्वाह्य प्रियाः पश्चात् कुर्यास्तूर्ण स्वमीप्सितम् ॥ २९ ॥ प्रतिपद्य वचः पित्रोः कुमारो गुणसागरः । महामहेन ता अष्टावपि कन्या व्यवाहयत् ॥ ३०॥ पाणीन् गृहीत्वा कन्यानामसौ मातृगृहे स्थितः । प्रावर्त्तत पुरस्तत्र नाटकं चित्रकृत् तदा ॥ ३१ ॥ गुणसागरस्तु नासास्तिमिताक्षः संयतेन्द्रियग्रामः । दध्यावेकाग्रमना मुनिर्भविष्याम्यहं प्रातः ।। ३२ ॥ एवं तपः करिष्ये तथा विधास्यामि गुरुजने विनयम् । व्रतयोगेषु यतिष्ये स्थास्यामि ध्याननियमेषु ॥३३॥ एवं निभृतं ध्यायन् स्मरन् श्रुतं पूर्वजन्मनाभ्यस्तम् । प्रतिपद्य भावसंयममभङ्गसंवेगरससिक्तः ॥३४॥ उदितोदितविशदतराध्यवसायवशोऽनुसमयमेष मुनिः। निर्दग्धघातिकर्मा केवलममलं क्षणादापत् ॥३५॥ प्रणयिन्योऽपि नवास्ता अस्ताखिलकर्मधर्मसन्तापाः। प्रतिपन्नभावचरणा इह केवलसंविदमविन्दन् ॥३६॥ 0000000000000000000 ॥७२॥ For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy