SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उक्ता च भद्रे ! कस्मात् त्वमापन्नाऽसीदृशीं दशाम् । साऽवोचत् प्रतिपन्नं यन्मया घोरमिदं व्रतम् ॥ १५४ ॥ तेन क्षामाऽस्मि च तथाप्येतत् पाल्यं मया ध्रुवम् । व्रतभङ्गोऽतिदुःखाय यतो जन्मनि जन्मनि ॥ १५५ ॥ ( युग्मम् ) भूपोऽल्पत् कुतो भद्रे ! तव वैराग्यमद्भुतम् ? । साऽऽख्यन्मे व पुरेवैतद् राजन् ! वैराग्यकारणम् ॥ १५६ ।। सुधीः कोऽमेध्यपूर्णेऽस्मिन् कृमिजालशताकुले । रज्येत् कलेवरे विस्रदुर्गन्धरसभाजने ? ॥ १५७ ॥ निशम्यैवमपि क्ष्मापः पुनः पूर्णे व्रतावधौ । तथैवाभिलषन् भोगांस्तयेति प्रत्यबोधि सः ॥ १५८ ॥ यदि नामास्य कायस्य यदन्तस्तद् बहिर्भवेत् । गृध्रादिभ्यस्ततः कामी धृत्वा दण्डमवत्यमुम् ॥ १५९ ॥ तथा च - मलमूत्रादिपात्रेषु गात्रेषु मृगचक्षुषाम् । रतिं करोति को नाम सुधीर्वचगृहेष्विव ? ॥ १६० ॥ अन्यच्च — भूरिरन्ध्रस्रवद्विखरसेऽशुचिनिकेतने । राजन् ! रागकरं किं ते देहेऽस्मिन्नस्ति कथ्यताम् ? || १६१ ॥ नृपोऽवक् तव सौन्दर्य किं ब्रूमो येन तेऽक्षिणी । मनो मे हरतो मूल्ये ययोर्न स्याद् रसाऽप्यसौ ॥ १६२ ॥ रतिसुन्दर्यथो ज्ञात्वा नृपरागमगत्वरम् । परोपायमपश्यन्ती शीलरक्षाविधौ सुधीः ॥ १६३ ॥ केनाप्यस्त्रेण नेत्रे स्वे उत्खाय कृतसाहसा । सहसा सा रसाभर्तुः पाणौ प्रादान्महासती ॥ १६४ ॥ ऊचे साऽऽदत्स्व नेत्रे द्वे राजन् ! निजमनोहरे । कृतमन्याङ्गसङ्गेनातः परं श्वभ्रहेतुना ॥ १६५ ॥ भूपोऽपि तत्तथा दृष्ट्वा विषादादिदमभ्यधात् | हा ! धिक् किं दारुणं कर्म सहसा निर्मितं त्वया ? ॥ For Private and Personal Use Only (युग्मम् ). १६६ ॥ ॥१७॥
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy