SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir ध्वीचन्द्र चरितम्। 0000000000000000000000000 साऽऽख्यत् स्याद् येन मालिन्यं कुलस्याप्ययशो भुवि । दुर्गतिः प्राप्यते चान्ते ततो हि मरणं वरम् ॥ १६७ ॥ यतः-शीले जीवति जीवन्ति कुलं लोकद्वयं यशः । शीलरक्षा कुलस्त्रीणां प्राणत्यागेऽप्यतो मता ॥ १६८ ॥ राजन् ! तवाप्यन्यकान्तासक्तस्यात्र परत्र च । न धर्मो न सुखं चास्ति मनसीत्यवधारयेः ॥ १६९ ॥ युक्तियुक्तमिति श्रुत्वा तदुक्तमवनीपतिः। प्राप्तप्रबोधः प्रमदात् प्रमदां तामदोऽवदत् ॥ १७० ।। बोधितः सुष्टु भद्रेऽहमंहसोऽस्मानिवर्तितः । अतः परं ममाप्यस्तु परस्त्रीविरतिव्रतम् ॥ १७१ ।। हा ! मया ते महासत्याः कृताऽनर्थपरम्परा । तत् सहस्वापराध मे कृपावति ! महासति ! ॥१७२ ।। कायोत्सर्गे स्थिता साऽथ स्मृत्वा शासनदेवताम्। पुनः प्रगुणनेत्राऽऽसीत् सुशीला रतिसुन्दरी ॥ १७३ ।। तद्दर्शनेन तुष्टात्मा नृपोऽप्याप्तनरैर्दुतम् । सत्कृत्य वस्त्रभूषाद्यैः प्रापयत् तां निजां पुरम् ॥ १७४ ।। महेन्द्राद् ज्ञातवृत्तेन चन्द्रेणाखण्डितव्रता। रतिसुन्दर्यथानिन्ये बहुमानेन सद्मनि ॥ १७५ ॥ इति प्रवर्तिनीदत्तं व्रतं सा रतिसुन्दरी। यावज्जीवं त्रिधा शुद्धया पालयामास निर्मलम् ॥ १७६ ।। इति रतिसुन्दरीचरितं समाप्तम् । बुद्धिमुन्दर्यथो पित्रा सुसीमनगरेशितुः। जितशत्रोः मुकीाख्यमन्त्रिणेऽदायि सद्वता ॥ १७७ ।। वीक्ष्यान्यदा गवाक्षस्थां भूपस्तद्रपमोहितः । छलमुत्पाद्य सचिवं बद्धा तां स्वगृहेऽनयत् ॥ १७८ ।। 10000000000000000000000€ PRIMARRA R ider For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy