SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ാള്ള ततो राज्ञा नियुक्तोऽस्य बोधनाय विशारदः । सुमुखो नाम भट्टः स पाप्यावसरमालपत् ॥ २४ ॥ प्रत्यर्थिनोऽपि मुच्यन्ते तृणानि दधतो मुखे। तृणाशिनोऽप्यमी नित्य हन्यन्ते हा! पशुव्रजाः ॥२५॥ केयं नीतिश्च किं शौर्य क्षत्रधर्मोऽपि को ह्ययम् । नन्ति यत् पुरुषा जन्तूननस्वानकृतागसः ॥ २६ ॥ पगुकुष्टिकुणित्वादि फलमणिवधोद्भवम् । मत्वाऽऽत्मनः सुखाकाङ्क्षी परपीडां विवर्जयेत् ॥ २७ ॥ बोधिताऽपीति पापधि हियैवौज्झन्मनो विना । पित्राऽऽहूतः स चान्येाश्चचाल स्वपुरं प्रति ॥ २८ ॥ आपनसत्वां स्वां पत्नी सहादाय प्रतस्थिवान् । क्रमेण प्राप्तवानेषोऽस्माकमेतत्तपोवनम् ॥ २९ ॥ दृष्ट्वा वनचरात् जीवान् पापद्धिविवशो भृशम् । यावद्धावति तान् हन्तुं तावत् पापनियोगतः ॥ ३०॥ तृण्याऽच्छन्नेगाधगर्नेऽपतनिशितकीलके। भिन्नकुक्षिर्विधुराङ्गो नीतो भृत्यैर्बहिस्ततः ॥ ३१ ॥ (युग्मम् ). चरेभ्यो ज्ञातवृत्तान्तो वसन्तः पुष्पमालया। यावत् समागतस्तावत् स परासुरभूत् क्षणात् ॥ ३२॥ शोकात गुणमालाऽग्नि प्रविविक्षुः कथञ्चन । निषिद्धा विललापोच्चैः सोरस्ताडं सुदैन्यतः ॥ ३३ ॥ पितरावथ दुःखातौं सुतामादाय तौ ततः। गतौ कुलपतेः पार्थे सोऽप्यमन् प्रत्यबुबुधत् ॥ ३४ ॥ राजन्नयं भवो घोर: क्लिश्यन्ते यत्र जन्तवः । जरामरणदुःखौधैश्चतुर्गतिगमोद्भवैः ॥ ३५ ॥ चला लक्ष्मीश्चलाः प्राणाश्चलाः स्वजनसङ्गमाः । वृथा संसारवासेऽस्मिन् सुखाशां कुरुते जनः ॥ ३६॥ EGGCOO00000000000OOOGOO00€ ॥५२॥ For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy