________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ចចចចចច
तजहिहि राज्यचिन्तां ब्रह्मवतमाभजस्व निःशङ्कम् । सुरसुन्दराहसुगुरुावदिहायाति गुणसिन्धुः ॥३६४॥ साधृक्तमिति भणन् स्वाङ्गजाय राज्यं वितीर्य वर्यगुणः। त्यक्तसमस्तममत्वः सोऽस्थाद् गुरुसङ्गमाकाङ्क्षी ॥३६५॥
देव्यप्युदग्रतपसा किल भासुराङ्गी तस्थौ सुधर्मममलं परिपालयन्ती।
आकस्मिकी रुगथ जातवती नृपस्य दथ्यौ तदतिविधुरो तृपतिस्तदेति ॥ ३६६ ॥ धन्यास्ते ग्रामपुरारामास्तिष्ठन्ति येषु मे गुरवः । भावि किमहोऽपि तदहो! यत्र भजेऽहं गुरुपदान्जम् ॥३६७॥
विभावयन्नेष इति स्वचित्ते आयुःक्षयान्मुक्तकषायदम्भः । समाधिना मृत्युमवाप्य कल्पं संप्राप्तवानारणनामधेयम् ॥ ३६८ ॥ तत्रैव देव्यपि जगाम सुरत्वमेवमेकत्र तौ सुखमनुत्तरमन्वभूताम् ।
प्रेमानुबन्धरसिकौ विशदे विमाने पाक पुण्यसञ्चयाशाद् बहुसागराणि ॥ ३६९ ॥ इति पं० श्रीसत्यराजगणिविरचिते श्रीपृथ्वीचन्द्रचरिते पूर्णचन्द्रश्रमणोपासकचरितं
पञ्चमं भवग्रहणम् ।
000000000000000000000
||४९०
-
For Private and Personal Use Only