SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पृथ्वीचन्द्र www.kobatirth.org सवयोभिर्वयस्याभिर्बहुधा बोधिताऽप्यसौ । अपि कामसमानानां सेहे नामाऽपि नो नृणाम् ॥ २४ ॥ तद् ज्ञात्वा नृपतिश्चिन्तातुरः पप्रच्छ मन्त्रिणम् । विभाव्य सोऽपि चित्ते स्वे धियाऽवोचद् नृपं प्रति ॥२५॥ प्राग्भवे नूनमेतस्याः कस्मिन्नपि नरेऽभवत् । प्रेमाधिक्यं ततस्त्यक्त्वा तं नान्यत्र मनोरतिः ॥ २६ ॥ ततस्तदवबोधाय सर्वभूभृत्तन्भुवाम् । प्रतिरूपाणि दर्श्यन्ते प्राग्भर्त्तास्यास्तदाप्यते ॥ २७ ॥ यतः - श्रुतं प्रियस्य नामापि प्रतिरूपमपीक्षितम् । ध्रुवं जन्मान्तरप्रेम प्रकाशयति देहिनाम् || २८ ॥ युक्तमेतदतः सर्वराज्येषु प्राहिणोद् नृपः । आत्तकन्याप्रतिरूपान् सर्वाश्चित्रकरान् नरान् ॥ २९ ॥ asपि भूपतनूजानामनेकान्यद्भुतान्यपि । रूपाणि नृपकन्यायै लिखित्वाऽदुर्नृपाज्ञया ॥ ३० ॥ किमेतद्दर्शनेनान्यकार्यविघ्नविधायिना । भणन्तीत्यत्यजत् साऽपि सासूयं तानि तत्क्षणात् ॥३१॥ अत्रान्तरे मथुराया आगताश्चित्रकृन्नराः । देवसिंहकुमारस्यादर्शयन् रूपमद्भुतम् ॥ ३२ ॥ भूपस्तद्रूपमालोक्यावदद् रूपेण चामुना । चेन्मनो रज्ज्यते नास्यास्तन्नीरागशिरोमणिः ॥ ३३ ॥ कन्येयमविशेषज्ञा यद्वा पशुरिवोदिता । ब्रुवन्निति नृपः प्रेषीत् पुत्र्यै तां चित्रपट्टिकाम् ॥ ३४ ॥ साऽपि पूर्व नृपादेशात् ततश्चापूर्वदर्शनात् । ततो हर्षात् स्मररसात् तद्रूपं वीक्ष्य विस्मिता ॥ ३५ ॥ धूनयन्ती शिरो राजसुताssलीनां पुरोऽवदत् । केनेदृग् लिखितं रूपमहो ! विज्ञानकौशलम् || ३६ || For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir चरितम्
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy