SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रतिपन्ने तेनेति श्रतपरितोषस्तिरोहितो यक्षः । प्रातः प्राप्ताश्च ततः समन्ततः सर्वसामन्ताः ॥ ७५ ॥ अभिषिक्तोऽसौ राज्ये ख्यातो देवप्रसाद इति नाम्ना । पालयति तत्प्रभुत्वं निजसुकृतभरार्जितं सततम् ॥७६॥ भणितोऽहं तेन सखे ! आवाभ्यामर्जितं प्रभुत्वमिदम्। तदनुभवाव उभावप्यथवा भुङ्क्ष्व त्वमेवेदम् ॥ ७७ ॥ भणितं मया वयस्यादिष्टो देवेन सङ्गमो भ्रातुः । मासान्ते तत् तिष्ठ त्वमहं पश्यामि ते बन्धुम् || ७८ || कथय परं निजबन्धोरभिधां किं हेतुना स वा निरगात् । सोऽवोचद् गिरिसुन्दर नामा मे बन्धुरो बन्धुः ॥७९॥ स च पाटचरनिग्रहकृताग्रहो निर्गतोऽन्यदा नगरात् । न प्रत्यागात् तमहं विलोकयन्नागतोऽत्र सखे ! ॥ ८० ॥ श्रुत्वेति तदुक्तमहं निरगामथ तद्गवेषणायेतः । पृच्छामि वोऽध्वनीनास्तदिहग्लक्षणः पुरुषः ॥ ८१ ॥ दृष्टः कापि भवद्भिजामि यत् तत्र तं विलोकयितुम् । गिरिसुन्दरोऽथ नृपसूः श्रुत्वेत्यन्तर्मनो दध्यौ ॥ ८२ ॥ ( युग्मम). नूनं स एष पथिकप्रोक्तो देवप्रसादपरनामा | देवप्रदत्तराज्यो विराजते रत्नसार इति ॥ ८३ ॥ निश्चित्येति तमध्वगमवक् स भोस्तप्यसे वयस्यकृते । देवप्रसादमीक्षितुमपि यदकुण्ठा ममोत्कण्ठा ॥ ८४ ॥ विनयादिना हरिष्यामि मानसं मानसंकुलं तस्य । नृपतेस्तथा यथाऽसौ नहि स्वबन्धोरपि स्मर्त्ता ॥ ८५ ॥ उक्त्वेति तावुभावपि चलितौ गन्धारपुरवरं प्राप्तौ । गिरिसुन्दरोऽथ मुमुदे निरीक्ष्य तं रत्नसारनृपम् ॥८६॥ कृतरूपपरावर्त्तं गिरिसुन्दरमनुपलक्ष्य भूपोऽपि । प्राह वयस्थं कोऽयं महानुभावः १ स चाचख्यौ ॥ ८७ ॥ For Private and Personal Use Only ॥५९॥
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy