________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
5
प्रस्तावना।
.
..
अस्य पृथ्वीचन्द्रचरितस्य रचयिता पं० श्रीसत्यराजगणिः विक्रमीयां पोडशी शताब्दीमलंचकार । स्वयमेव हाम उल्लिखन्ति एत.चरित्रप्रान्ते
"सं० १५३५ वर्षे माघे सितदशम्यां गुरौ अयेह श्रीमहम्मदावादनगरे श्रीपूर्णिमापक्षविभूषण-श्रीगुणसागरमरिपटालंकारश्रीपूज्यश्रीगुणसमुद्रसूरयस्तत्पट्टोदयगिरिमिहिरकरणयः श्रीपुण्यरत्नसूरिवराः सम्प्रति विजयन्ते । तेषां विनेयवर्यण सत्यराजगणिना लिखितः । मिदम् "।
___एतेन चेदमपि विदितं भवति-एते चरित्रचित्रयितारः पूर्णिमागच्छीयाः; एषां च गुरवः पुण्यरत्नसूरयोऽभूवन् । तेषां च | गुरवो गुणसमुद्रसूरयः, तेषां च गुरवो गुणसागरसूरयः । यच्च आदर्शपुस्तकमवलम्ब्य इदं प्राकाश्यमुपनीतं तद् गूर्जरदेशललामभूत-'अहम्मदावाद' IP नगरे तस्थुषा ग्रन्थकृता स्वहस्ततो लिखितम् , इत्येतदपि प्रोक्तेनोल्लेखेन नितिं भवति । तच्च आदर्शपुस्तकं सौराष्ट्रराष्ट्रान्तर्गत ' अमरेली' ला ग्रामस्य जैनपुस्तकमाण्डागारतः प्राप्तम् ।
एभिर्गणिपादैश्च संदब्धं श्रीपालचरितं सुप्रसिद्धम् । तच वि० सं० १५१४ वत्सरे निर्मितम् , इति तत्र समस्ति प्रदर्शितम्। का अन्येऽपि ग्रन्था एतैर्विरचिताः स्युः ।
B000036DEDDREA00000000000
For Private and Personal Use Only