SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir किं नागवधूरथवा देववधूरानयामि वशमधुना ? । किं वाऽवनिं सार्णवां नयामि द्राक् तवा‌ङ्घ्रितले ? ॥ १० ॥ गजवाजिवृन्दमथवा किं दूरादानयामि चान्यदपि ? । विषमं प्रयोजनं भण यत् संप्रति साधयाम्येषः ॥ ११ ॥ अवदद् नृपोऽपि योगिन्नानय नागाङ्गनां यदसि शक्तः । सोऽप्यानिनाय तामपि धृत्वा ध्यानं क्षणादेव || १२॥ सा योगिनः पुरस्तात् स्थिताऽऽख्यदादिश विभो ! प्रकुर्वे किम् ? । सोऽप्याचख्यौ कुरु नरवरस्य गिरमिति तदादिष्टा ॥१३॥ एत्य नृपमादिश विभो ! जल्पन्ती भाषितेति सा राज्ञा । का त्वं किमिहायाताऽसि ? वाऽत्र सावोचदिति तं च ॥ १४ ॥ नागेश्वरदयिताऽस्म्यहमादेशाद् योगिनोऽत्र चायाता । अथ विस्मितेन राज्ञाऽप्यसौ विसृष्टा तिरोधत ॥ १५ ॥ माहात्म्यमहो ! योगीन्द्र ! तेऽद्भुतं जल्पतेति भूपेन । ऊचे कार्य सोऽप्याख्यत् कृष्णचतुर्दशीरात्रौ ॥ १६ ॥ एकाक्येव सहायो भव येन ज्वालिनीं महाविद्याम् । आराध्य पुत्ररत्नं सर्वेष्टं दापये चान्यत् ॥ १७ ॥ मन्त्रिभिरूचे राजन् ! भव्य उपायस्तथापि नास्य मनाक् । विश्वस्तव्यं यदिह स्याच्चित्रचरित्रभृत् प्राणी || १८ || प्रतिपद्य मन्त्रिवचनं तदुपान्ते निश्चितेऽह्नि निशि भूपः । प्राप्तोऽसियुक् श्मशानं योग्यपि तत्रागतश्च तदा ॥ १९ ॥ संमाये भुवं योगी चिताऽग्निदीपेन मण्डलालेखम् । कुर्वन् जगाद नृपतिं वटद्रुमो दक्षिणेनेतः ॥ २० ॥ उद्बद्धः शाखायां तस्य नरो यस्तमानयास्तभयः । न च तस्मै दातव्यं प्रतिवचनं जल्पतेऽपि गम् ॥ २१ ॥ fif पाशं च यावदुत्तीर्णः । तावत् तथैव तं तरुशाखास्थं पश्यति नृनाथः ॥ २२ ॥ For Private and Personal Use Only 300556 ॥४७॥
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy