SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृथ्वीचन्द्र mins अथ ग्रन्थकर्तुः प्रशस्तिः। चरितम् । anmnubaniwaranasi- पृचीचन्द्रमहीमहेन्द्रयतिनश्चैतच्चरित्रं सतां श्रोतृणामघनाशनं प्रशमितपत्यूहपूरं सदा । ये शृण्वन्ति समाहितात्ममनसः प्रक्षीणसाहसस्ते श्रेयः परमां श्रयेयुरचिरानिःश्रेयसस्य श्रियम् ।। १॥ कुन्दन्दूज्ज्वलकीर्तिमञ्जुलतरे राकागणे श्रीमति श्रीमन्तः शुचिशेमुषाविशदतावाचस्पतिप्रत्ययाः। नानाग्रन्थनिबन्धबन्धुरगिरो भास्वद्गुणालीभृतो राजन्ते स्म गुणात् समुद्रगुरवस्तेजःश्रिया भासुराः ॥२॥ तत्पट्टोदयभूमिभृद्वरशिरःशृङ्गारभास्वत्प्रभाः श्रीसूरीश्वरपुण्यरत्नगुरवः पुण्यश्रिया पेशलाः । तच्छिप्यो लिखति स्म विस्मयकरं श्रीसत्यादिराजाह्वयोंऽभोध्यग्नीषुविधृन्मिते शरदि तद्वाच्यं चरित्रं बुधैः ॥३॥ प्राकृतबन्धेनैतचरितं रचितं हि पूर्वकविवर्यैः । मुग्धावबोधकृतये व्यधामिहानुष्टुबादिविधिम् ॥ ४ ॥ विधाय गुम्फमेतस्य चरित्रस्य यदर्जितम् । सुकृतं तेन भूयाद् मे बोधिलाभो भवे भवे ॥५॥ यल्लक्षणालङ्कारादिहीनमेतद् भवेत् कचित् । परं प्रसादमाधाय सुधीभिः शोध्यमेव तत् ॥ ६ ॥ नादृष्यवैदुष्यविभासनाय कवित्ववेदग्थ्यनिरूपणाय । व्यधां कथामात्रनिवेदनाय चरित्रमेतत् परमल्पबुद्धिः॥७॥ 000000000000000-0000000000 For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy