SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 0000000000000000000000000 अथेष पित्रनुज्ञातः सारसैन्य पमन्धितः । देववद् दीप्तिमान देवरथोऽपि प्रस्थितस्ततः ॥१०॥ व्रजन्नध्वनि सोद्राक्षीच्छिन्नसक्षमिव द्विजम् । अप्युत्पतिष्णुं तत्कृत्याक्षम कमपि खेचरम् ॥१२॥ अपृच्छत् तं कुमारोऽथ महाभाग ! भवानिह । कुत आगात् किमेकाकी तिष्ठत्यत्र महावने ? ॥ १२ ॥ सोऽप्याख्यत शृणु वैताढ्ये कुण्डलाख्यपुरे नृपः। श्रीध्वजस्तस्य पुत्रोऽहं चन्द्रगत्यभिधानतः ॥ १३ ॥ कुलक्रमागतां विद्यामभ्यस्यन्नन्यदा त्वहम् । अधित्यकायामश्रौषं करुणं तरुणीरवम् ॥ १४ ॥ यावत् ससंभ्रमं तत्राधा तावत् सखीजनैः। वीज्यमानां मीलिताक्षी मृगाक्षी वीक्ष्य विस्मितः ॥ १५ ॥ तत्सख्यस्तावदाख्यन्मां साधो ! एोहि सत्वरम् । इमां गन्धर्वरादपुत्री विषभृद्विषविह्वलाम् ॥ १६ ॥ त्वरितं प्राणदानेनोपकुरुष्व दयानिधे !। प्रगुणां तां व्यधां चाहं दाग मुद्रारत्नवारिणा ॥ १७ ॥ (युग्मम्). विषव्यथायां नष्टायां सा क्रमादाप्तचेतना । सखीजनमुखान्यश्रुजलााणि स्मितानि च ॥ १८॥ वीक्ष्य विरमयवत्यूचे विरुद्धाकृतयः कथम् ? । सख्यो यूयं ममाख्यान्तु परमार्थ कमप्यमुम् ॥ १९ ॥ ता अप्यूचुर्भगिन्यासीराशीविषविषार्दिता । जीविताऽस्यधुनाऽनेन निनिमित्तोपकारिणा ॥ २० ॥ एतनिमित्तमेवायं विरोधो नः किलाकृतेः । श्रुत्वेति सानुरागाऽभूत् साऽथ मय्युपकारिणि ॥ २१ ॥ अत्रान्तरे च तत्रागात् स गन्धक्षमापतिः । मां श्रीध्वजसुतं मत्वा प्राह स्मेति सगौरवम् ।। २२ ।। 000000000000000000000000 For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy