SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृथ्वीचन्द्र काचरितम् 000000000000000000000000 गौरव्योऽसि कुमार! त्वं किं ते दद्युपकारिणे ?। गृहाण पाणिमेतस्याः सुताया अविलम्बभाक ॥ २३ ॥ मत्वा तदाग्रहमहं विवाहं सुमहामहम् । विधाय तामथादाय स्वस्थानेऽस्मि सुखं स्थितः ॥ २४ ॥ अयोद्यानाद् निवृत्तस्य प्रदेशेऽत्र ममाधुना । पितृष्वसुः सुतस्तस्याः सुमेघः खेचरोऽमिलत् ॥ २५ ॥ रोषात सोऽजल्पदाक्रोशपरो मामिति खेचरः । रे रे ! जामि ममादाय तिष्ठस्यद्यापि दृक्पथि ॥ २६ ॥ तद् दर्शयेऽधुनैवाहं तव दुर्नयजं फलम् । जल्पन्नित्युपतस्थौ द्राक् स मया सममानये ॥ २७ ॥ प्रतिमह महमप्यस्मि तस्मिन् समुद्यतः । व्यस्मार्षमाकुलत्वेन चैकं विद्यापदं परम् ॥ २८ ।। तेनात्र सहसा भूमौ पतितोऽस्म्यत्र संपति । पङ्गोरिव ममादाय प्रियां नष्टः स च क्षणात् ॥ २९ ॥ इत्येष ते सखे ! सर्वो वृत्तान्तोऽस्ति निवेदितः । तदुःखदुःखितः माह कुमारोऽप्यथ तं प्रति ॥ ३०॥ पठ त्वं मत्पुरो विद्यां सोऽप्यपाठीच तां ततः । पदानुसारिलब्ध्या तत्पदं प्राह स्म भूपभूः ॥ ३१॥ निःस्वो निधिमिवासाद्य तन्मुदा खेचरोऽवदत् । मुट्वहं जीवितोऽस्म्यद्य कुमारेणोपकारिणा ॥ ३२ ॥ ध्रुवं सफल एव स्यान्महतामङ्ग ! सङ्गमः । कालक्षेपाक्षम कार्य परमस्ति ममाधुना ॥ ३३ ॥ गृहाण पाठसिद्धां तद्विद्या वैक्रियनामिकाम् । तन्मिषेणापि येनाहं कृतार्थः स्यां स्मृतस्त्वया ॥ ३४॥ आदात् कुमारस्तां विद्या सुमेधं सोऽनुधावितः । इतरोऽपि क्रमादापद् रतिरत्नाह्वयं पुरम् ॥ ३५ ॥ 90000000000000000000000 For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy