SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पृथ्वीचन्द्र www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथवा चेल्लभे स्वष्टं सेवे देवपदस्तदा । स्वीकृतं तन्नृपेणापि तद्दानाचिन्त्यपुण्यतः ॥ ११४ ॥ ततो नृपं सिषेत्रात द्वापि समाहितौ । कालेन कालधर्म तो प्रतिपद्य समाधिना ॥ ११५ ॥ सातौ युग्मिनों देवकुरुतावुभावपि । त्रिगव्यूततनू पल्यत्रितयममितायुषौ ॥ ११६ ॥ ( युग्मम् ). दानानुमोदनापुण्यान्नृपपुत्र्यावपीह ते । तयोरेव प्रियात्वेन तत्रैवोत्पत्तिमापतुः ॥ ११७ ॥ तद्युग्मियुगलं तत्रा भूय सुखमद्भुतम् । सौधर्मत्रिदिवं प्रापद् गतापत् पापवर्जितम् ॥ ११८ ॥ ततयुत्वा पाण्डुपुर महाबलनरेशितुः । विलासवत्यां प्रेयस्यामभूतां तनयावुभौ ॥ ११९ ॥ प्राक प्रेयस्योस्तयोरेका पद्मखण्डपुरे वरे । महसेननरेशस्य दुहिताऽभूत् सुलक्ष्मणा ॥ १२० ॥ द्वितीया तु विजयपुरे राज्ञः पद्मरथस्य च । लक्ष्मणा नाम पुत्र्यासीद् दासीकृतसुराङ्गना ॥ १२१ ॥ श्रुत्वा सुलक्ष्मणा साऽथ मागधाद् गुणकीर्त्तनम् । श्रीबले सानुरागाऽभूत् परस्मिन्नपि लक्ष्मणा || १२२|| अत्रान्तरेऽथ श्रीगुप्त सिद्धपुत्रेण सोऽर्थितः । विद्यासाधनसाहाय्ये श्रीबलो विलसद्वलः ॥ १२३ ॥ प्रतिपन्नेऽमुना भूतेष्टायां पितृवने निशि । हरन् श्रीगुप्तमुच्चण्डः पिशाचो ददृशे महान् ॥ १२४ ॥ घृतासिस्तमनुक्रामन् श्रीबलोऽगान्महाटवीम् । पिशाचोऽन्तरधात् प्रातः श्रीगुप्तोऽपि न दृश्यते ॥ १२५ ॥ विषण्णः श्रीवलोऽन्वेष्टं श्रीगुप्तं प्राचलद् द्रुतम् । पाशं क्षिप्त्वा गले तावद् रुदन्तीं कामपि स्त्रियम् ॥ १२६ ॥ For Private and Personal Use Only चरितम् ।
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy