SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वीचन्द्र www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कन्याप्राग्भर्त्ता स भविताऽस्यापि नीवृतः । पतिः स्फुटमिति प्रोच्य तिरोधत्त स गुह्यकः ॥ २९३ ॥ कन्यानृपेण युक्तोऽहं ततः प्राप्तोऽय नन्दनम् । शेषं तत्रैव प्रत्यक्षमशेषमपि चाभवत् ॥ २९४ ॥ अस्यास्तीवानुरागोऽभूद् दृष्टमात्रेऽपि च त्वयि । गृहीता सा क्षणादेव विकारैः स्मरसंभवैः ॥ २९५ ॥ तथा च – विलोललोचनयुगा मन्दाक्षावनतानना । पुलकाङ्कितदेहाऽसौ प्रस्खलद्वर्णभाषिणी ।। २९६ ।। त्वया विचक्षणेनापि मृगाक्षी किं न लक्षिता ! । परेङ्गितज्ञानफला धियः स्युर्धीमतां यतः ।। २९७ ।। (युग्मम् ). वचनं सचित्रस्येति श्रुत्वा दाक्षिण्यवारिधिः । तदैश्वर्ये च तां कन्यां कुमारः प्रत्यपद्यत ।। २९८ ॥ अग्रहीद् गुणसेनायाः पार्णि सोऽपि महामहात् । सचिवैः शुचिधीभिश्च चम्पाराज्ये निवेशितः ॥ २९९ ॥ कलातीत या पूर्व पत्नी शङ्खभवेऽभवत् । साऽत्रासीद् गुणसेनेति तेन प्रेम द्वयोर्मिथः ॥ ३०० ॥ इतः समरसिंहारूयो वच्छदेशाधिपो नृपः । भूपं कमलसेनं तं दूतेनेति समादिशत् ।। ३०१ ॥ भोः ! स्वयंभूर्नृपैश्वर्यं भ्रुवो वंशक्रमागतम् । अपि कृच्छ्रेण भुज्येत शौर्यायत्ता हि यच्छ्रियः ।। ३०२ ।। त्वं पुनः पथिकोऽप्यन्य राज्यमासाद्य माद्यसि । ममाज्ञां जगतो मान्यामपि नैव च मन्यसे ॥ विहाय तदिदं राज्यं पलायस्वान्यथा पुनः । अहमागत एवास्मि भवेस्त्वं समरोद्यतः ।। इति दूतोक्तमाकर्ण्यावदद् भूपोऽपि तं प्रति । द्रुतं भो दूत ! गत्वा त्वं ब्रूयाः स्वस्वामिनः पुरः ३०३ ॥ ३०४ ॥ ॥ ३०५ ॥ For Private and Personal Use Only चरितम् ॥
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy