Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
Catalog link: https://jainqq.org/explore/521013/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतर:- १३ शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये ।। कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ।।। : सङ्कलनम् : कीर्तित्रयी दक्षिणायनम् वि.सं. २०६० Page #2 -------------------------------------------------------------------------- ________________ नन्दनवन कल्पतर:- १३ कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ।। शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । : सङ्कलनम् : कीर्तित्रयी दक्षिणायनम् वि.सं. २०६० Page #3 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुः ॥ त्रयोदशी शाखा ॥ (संस्कृतभाषामयं अयन - पत्रम् ॥) सङ्कलनम् : कीर्तित्रयी ॥ प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात ॥ वि.सं. २०६०, इ.स. २००४ मूल्यम् : रू. १००/ प्राप्तिस्थानम् : श्रीविजयनेमिसूरीश्वरजी स्वाध्याय मंदिर १२, भगतबाग, शेठ आणंदजी कल्याणजीनी पेढी समीप, पालडी, अमदावाद - 380007 दूरभाष : 26622465 सम्पर्कसूत्रम् : "विजयशीलचन्द्रसूरिः C/o. Atul H. Kapadia A-9, Jagruti Flats, Behind Mahavir Tower, Paldi, Ahmedabad-380007 दूरभाष : 26688879 मुद्रण : 'क्रिष्ना ग्राफिक्स', नारणपुरा गाम, अमदावाद 380013 दूरभाष : 079-27494393 2 Page #4 -------------------------------------------------------------------------- ________________ - मायामामामामासाकामामामामामामालामाल > प्रास्ताविकम् अवसरोऽयं जागृते: अतिवृष्टिः, अनावृष्टिः, भूकम्पः, निर्पूणहत्याः, अनाचार:, विस्फोटाः, अपहरणानि, आत्मघात...... अहहह.... ! किं किं न घटतेऽद्य ? नित्यक्रम एवैष जात इति प्रतिभाति । प्रकृतेः कोपरय, आसुरीशक्तेर्बलस्य चैव प्रभावः सर्वत्र दृश्यतेऽनुभूयते च । सर्वमेतद् दृष्ट्वाऽनुभूय च हृदयसहस्रेभ्य आर्तनाद उत्तिष्ठते, उत्थाय च पुनस्तत्रैव शाम्यति । परिस्थितीनामालोचनं सर्वेऽपि कुर्वन्ति, न किन्त्वन्वेषणं गवेषणं वा क्रियते केनाऽपि यत् 'किमर्थमेवं प्रवर्तते घटते वा ?' न कारणं विना कार्यं भवति कदाचिदपि । आसुरीशक्तेर्बलवत्तायां हि आध्यात्मिकशक्तेहास: कारणम् । आसुरीशक्तिरियं छिद्रान्वेषिण्यस्ति ।। यदा कदापि चाऽऽध्यात्मिकी शक्तिर्मन्दत्वमुपयाति तदा सा तत्राऽऽधिपत्यं स्थापयति । पश्चाच्च बलादपि तां निवारयितुं न शक्यते । एतादृश्या मलिनायाः शक्ते राध्यात्मिकता ह्येक एवोपायोऽस्ति । यदि कोऽप्यत्रैवं विचारयेद् यद् वयं बलेनैनां शक्तिं वशीकरिष्यामस्तर्हि स तु भ्रम एव । नित्यमेव वयं पश्यामो यद् युद्धेन वा शस्त्रबलेनाऽपि वा सा न वशंगता प्रत्युताऽधिकतया विकृतिं गता प्रबलेन वेगेन च साऽऽक्रामति । अर्थस्य प्राधान्येन भौतिकताया विकृत्या चाऽऽमत्रितैषा विडम्बना । नाऽयं भारतदेशस्य मार्गः । किन्तु दुर्भाग्यमेतद् यदर्थ एवाऽद्य देशस्य समृद्धेर्मानदण्डः परिगण्यते ।। भारतवर्षस्याऽऽध्यात्मिक मूल्यानि तु विस्मृतप्रायाणि नष्टप्रायाणि वा जातानि । धनेनैवाऽयं देशः समृद्धो भविष्यति, राष्ट्रस्य चोद्धारोऽपि धनेनैव भविष्यतीति भ्रमो दृढमूलो जातोऽरित । तस्य पुष्ट्यर्थं च यः कोऽपि मार्गोऽनुसरणीयः स्यात्-हिंसाया असत्यस्याऽनाचारस्य-सोडनुनियत एव । आस्तामन्येषामनिष्टानां वार्ता किन्तु हिंसायाः परिमाणं तु कल्पनानीतं वर्धितमस्ति । तच्छ्रवणेनाऽपि हृदयं कम्पते । महावीरबुद्ध-गान्धिमहोदयादीनां स्मृतिदिने भाषणकर्तारो नेतारोऽहिंसाया आध्यात्मिकतायाश्च महिमानमुच्चैर्गायन्ति ।। त एव च मञ्चादधोऽवतीर्य सूनागृहाणां स्थापनार्थमनुमतिपत्रोपरि स्वहस्ताक्षराण्यपि निःशौं कुर्वन्ति ।। कीदृशी विडम्बनैषा ? किं रूपं धाष्टर्यमिदम् ? For Private 83 ersanal Use Only Page #5 -------------------------------------------------------------------------- ________________ स्त्रि > > इदानी हैदराबादनगरे ‘अलकबीर' नाम्नः सूनागृहस्य स्थापनायै अनुमत्यर्थं सततं प्रयासः क्रियते । दुःखकरं त्वेतद् यदव सर्वकारोऽपि सम्मीलितोऽस्ति । प्रतिवर्षं तत्र द्वादशलक्षमितानां पशूनां निघूणहत्या भविष्यति । किमर्थम् ? किं तत्र प्रयोजनम् ? केवलं परदेशीयानां स्वादलिप्सापोषणार्थम्, तथा च देशसमृद्धिव्याजेन धनसम्पादनार्थम् । एकरयाऽस्य सूनागृहस्य कृतेऽनुमतिप्रदानस्याऽनुपदमेवाऽन्यान्यप्यनेकानि तादृशानि सूनागृहाणि स्थापितानि भविष्यन्ति । तत्र जनिष्यमाणाया हिंसायाः परिमाणस्य कल्पनामात्रमपि व्यथयति हृदयम् । आपढ्य आमत्रणरूपैषा हिंसा । भूकम्प-जलप्रलयातङ्कवादादिताण्डवकाले मृत्युमुखदर्शनेन भीता आक्रन्दन्तश्च वयमिच्छामो यत् कश्चिन्मम रवः शुणुयात्, ममाऽश्रूणि प्रमूज्यात्, सान्त्वनं साहाय्यं वा कश्चित् कुर्यात्, मम रक्षणं स्यात् ! किमर्थम् ? जीवनमस्माकं प्रियमस्ति, मृत्युः पीडा दुःखं वाप्रियाणि सन्ति, अतः । एवं च स्वकीयापत्तिकाले दीनतां प्राप्तानामस्माकं हृदये, यदा निर्दोषाणां कोटीनां पशूनां नृशंसः संहारः क्रियते तदा तेषां कुणमाक्रन्दनं चित्कारं वा श्रुत्वा कुणोत्पद्यते खलु ? तेषामार्तस्वरं श्रुत्वा किमस्माकमक्षिणी आट्टै भवतः ? संवेदनाबधिरा जाताः स्मो वयम् । एतादृश्यवसरेऽप्यक्षिनिमीलनं कुर्महे । निर्दोषाणां पशु-पक्षिणां हिंसा, वृक्षादीनां छेदनं, असत्याचरणमित्यादि सर्वमपि प्रकृतिविरुद्ध कार्यमस्ति । एष प्रकृतिं प्रत्यस्माभिर्विहितोऽपराधोऽस्ति । अस्य परिणाममपि भूकम्पातिवृष्ट्यादिप्रकृतिकोपपेणैव भोक्तव्यं भवत्यस्माभिः । आध्यात्मिक शक्तेहसिस्य निदानमप्येतदेव । क्दा वयमस्मान्मार्गात् प्रतिनिवाम: ? कदा च जागृता भविष्यामः ? एतावताऽपि यदि | बोधो नैव स्यात् तर्हि त्वीश्वर एव शरणम् । तं प्रार्थयेम यत् ‘सर्वेभ्यः स सन्मतिं दद्यात्' इति शम् ।। - कीर्तित्रयी भाद्रपदकूष्णैकादशी वि.सं. २०६० वलसाडनगम् ॥ For Private Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ वाचकानां प्रतिभावः डॉ. सुरेन्द्रमोहनो मिश्रः उपाचार्यः, संस्कृतपालिप्राकृतविभागे, कुरुक्षेत्रविश्वविद्यालये, कुरुक्षेत्रम् (हरियाणा) ॥श्रीः।। शिवैकसङ्कल्पेषु मुनिवरेषु प्रणतिस्तवकपुरःसरमिदं वितन्यते दृष्टा मे पथिलस्य नन्दनवने सा द्वादशी शाद्वले प्रीत्या श्यामलकोमला सुमफलैः शाखा नवीनोदया । शीलेन्दप्रियकीर्तिसन्मुनिवरैर्भानोरुदीच्यायने । संसेव्या मुदमादधत्यवितथं सौहित्यसाहित्यदा ॥१॥ निष्ठा संस्कृतभारती-विकसिता या भारती सेवितुम् संस्कृत्या जननीं भुवः प्रतिभुवं सा वन्दनीया सताम् । मौलं मानवसभ्यताकुलतरोर्या बिभ्रती सव्रता सा ब्राह्मी किल संस्कृता नहि कथं स्यात्प्रेयसे श्रेयसे ॥२॥ मुनिधुरन्धरविजयानुवदनं सुखसर्जनं चमत्कृतिसदनम् । सरससहजसुरभाषाकवनं भवनं कस्य न निर्वृतेर्मदनम् ॥३॥ सुकविर्जगन्नाथो हि विरलो हंसानुत्प्रेक्षते हा हृदये । दिग्वलयश्रीस्तमसा लूना लीना हंसा वाऽऽरुणोदयम् ॥४॥ आभाणकजगन्नाथो जगति मनुजजीवनदृष्टिं सूत्रयति । कार्णाटकोविदमर्मजन्मा विष्णुंसोमस्मारको भाति ॥५॥ अहिंसा साऽऽर्यधर्मो भारते तगीजमभयं धर्मसूत्रम् । कपिल-वीर-सुगतादिदेशितं कीर्तिनिगदितं विश्वशान्त्यै ॥६॥ 59 १. विष्णुगुप्तश्चाणक्यः २. सोमदेवो राजनीतिसूत्रकार: For Private 5 Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ अनुयोगाधिकारचारित्रं कीर्तिधृतं शास्त्ररत्नसारम् । शीलशशिसमुदयकारि भविकं तनुतां धर्मणः स्थापनायै ॥७॥ श्रीवीरचित्रस्तुतिर्धत्ते चित्रं सरसं वस्तुभी रस्यैः । प्रवालाभासो मणिषु रम्योऽप्याभासत्वेऽर्थक्रियाकारी ॥ पान्थस्य वर्षावधूसपर्या निवेशिता नन्दने सप्रणयम् । सादरं तत्सत्कृतमिह पथिको वेत्त्याषाढ आसन्ने कुरुषु ॥ संस्कृतशारदार्चनसुदीक्षा लेखा इह सम्प्रेषणसुदक्षाः । पादाकुलसंहृतप्रतिभावः कल्पमसौ भजताद्विनयाद् ॐ ॥१०॥ . सप्रश्रयबहुमानं भवदीयः (सुरेन्द्रमोहनो मिश्रः) ॥ तमसो मा ज्योतिर्गमय । व GG मान्या वदान्याः श्रीमन्तः ! प्रणतिपुरस्सरं प्रणामाञ्जलयः । श्रद्धयश्रीदेवर्षिकलानाथशास्त्रिसविधे भवद्भिः प्रकाशितां 'नन्दनवनकल्पतरु' नाम्नी - संस्कृतपत्रिका दर्श दर्शं परमप्रमोदास्पदं सञ्जातं मन्मनः । अद्यतनीयसमये संस्कृतसेवाकार्य महत्तरं सुदुर्लभञ्च । भावत्कः प्रो. ताराशंकर शर्मा आचार्य एवम् अध्यक्ष साहित्य-विभाग, राजस्थान संस्कृत विश्वविद्यालय जयपुर 11३. पादाकुलकमिति मात्रासमकवृत्तम् Page #8 -------------------------------------------------------------------------- ________________ वाचकानां प्रतिभावः नन्दनवनकल्पतरोर्द्वादशी शाखाऽधिगता । सन्धि - सहितस्य साहित्यस्य प्रकाशनस्य निर्णयः सुयोग्य एव । सन्धिस्तु संस्कृतभाषाया विशेषताऽस्ति । अन्यथा संस्कृतात् विस्मृताऽपि स्यात् एतत् चिन्तनीयमेव । भवता चिन्तितं तन्नितरां धन्यवादार्हम् । पत्रविभागे प्रकृतिरक्षणविषयकं यत्किंचित् लिखितं तन्नितरां साम्प्रतकालोचितमासीत् । सर्वैर्मनुष्यैर्विचारणीयं यत्- " एषा पृथिवी न केवलं मनुष्याय, अपि तु भूचरखेचराचराणां कृतेऽपि निर्मिताऽस्तीश्वरेण । तेषां सर्वेषामपि प्रकृत्या उपरि समानाधिकारोऽस्त्येव यथा मनुष्याणाम् ।" पूज्यमुनिवर्य श्रीविजयशीलचन्द्रसूरे ! सादरप्रणामाः । रूपनारायणपाण्डेयः एस् II / 330, राज्यशिक्षा संस्थान कॉलोनी, एलनगञ्जः, प्रयागः, उ.प्र., २११००२ मान्याः, सादरं प्रणामाः । ‘नन्दनवनकल्पतरु:'(१२ उत्तरायणम्, वि.सं. २०६०) सम्प्राप्तः । अत्र सर्वा रचना, रम्या भव्याश्च । 'प्रास्ताविकम् ' तत्रभवतां संस्कृतनिष्ठां पुष्णाति संवर्धयति च । श्रीमुनिधर्मकीर्तिविजयस्य लेखः 'आर्यधर्मः अहिंसा' अहिंसायाः साम्प्रतिकीमपेक्षां प्रस्तौति । अहिंसा वैदिकधर्मस्य प्राणभूतं तत्त्वम् आसीद् अस्ति च, किन्तु पाश्चात्यसंस्कृतेः प्रभावाद् भोगलिप्सायाश्च संवर्धनाद् हिंसा राष्ट्रेऽस्मिन् अनुदिनं वर्धते । कृतेऽपि प्रयत्ने देशे गोवधनिषेधो न समग्रतया जात: । मानसिकी हिंसा नितरां चिन्तनीयतरा वर्तते । शिष्टे समाजे सद्भावनां सद्विचाराणां च यादृशी हत्या साम्प्रतं वर्तते, तादृशी पुराकाले न बभूव । सन्धिविरहिताया रचनायाः प्रकाशननीतिः तत्रभवद्भिः परित्यक्तेति शुभमेवानुभूयते । Xxxaaa महेश्वरः रमानाथ: द्विवेदी जाम-वणी । - Page #9 -------------------------------------------------------------------------- ________________ - वाचकानां प्रतिभावः नन्दनवनकल्पतरोादशी शाखा प्राप्ता-पठिता च ।। __ पू. मुनिधुरन्धरविजयाणां "जिनस्तवनम्" -तथा प्राकृते आ.पद्मसूरेः "सिरिसिद्धचक्कथोत्तं" अतीव प्राञ्जले । मुनिधर्मकीर्तिविजयस्य ‘पत्रम्' अतीव प्राकृतिकवर्णनपूर्णं वर्तते । यथा अस्माभिरपि अनुभूतं तथैव पत्रे पठितम् । __ "वर्षावाग्वधूटीविलास:" तथा "आभाणकजगन्नाथः" अतीवातीव सुन्दरे । अन्यत् च भवतां सरलता प्रशस्या । यत् सन्धिं कृत्वा मुद्रितं कर्तव्यम् इति सूचना यथा प्राप्ता तथैव शीघ्रं स्वीकृता । । ___ मुनिविश्रुतयशविजयः नमो नमः श्रीगुरुनेमिसूरये परमोपास्याचार्यप्रवरश्रीविजयशीलचन्द्रसूरीश्वरस्य चरणयोः कोटिशो वन्दनां कृत्वा प्रथमप्रयासेन इदं लिख्यते मया । कीर्तित्रितयमुनिपुङ्गवानां नन्दनवनकल्पतरुसामयिकस्य संपादनकार्ये लेखने च यत्नोऽतीवाऽनुमोदनीयः प्रवर्तते । नन्दनवनकल्पतरोादशी शाखा प्राप्ता । उत्तरोत्तरं लेखसङ्ग्रहोऽतीवाऽऽनन्ददायको भवति ।। प.पू.विजयपद्मसूरीणां 'सिरिसिद्धचक्कथोत्तं' तथा च मुनिधुरन्धरविजयेनाऽनूदितानि प्राचीनस्तवनानि मह्यं खलु भृशमरोचन्त । अरविन्दभाई कापडिया बी/१२, पञ्चतीर्थ एपार्टमेन्ट श्रीहेमचन्द्राचार्य चौक, पांच रस्ता, पालडी अमदावाद-३८०००७ 4 Page #10 -------------------------------------------------------------------------- ________________ वाचकानां प्रतिभावः - "श्रीसीतारामाभ्यां नमः" अयि प्रियमहोदयाः महद्भ्यो भवद्भयः प्रीतिपूर्विका अनन्तनतयः ।। भवद्भिः प्रेषिता नन्दनवनकल्पतरुनाम्न्याः सुरभारतीषाण्मासिकपत्रिकाया द्वादशी शाखा समासादिताऽस्ति । । तत्रस्थाः सर्वे विषयाः सकुतूहलं मयाऽवलोकिताः । सर्वे विषयाः संस्कृतभाषासंवर्धनप्रसारणप्रचारे निरताः संस्कृतानुरागिणां सर्वेषां सर्वासां च प्रमोदावहाः सन्ति । "नन्दनवनकल्पतरुः" लोके संस्कृतनन्दनवने कल्पतरुरिव दिने दिने संस्कृतलेखकानां कवीनां विविधविषयतज्ज्ञानां महानाश्रयदायको भूयादिति शुक्लपक्षशशिन इव दिने दिने प्रवर्धतामिति च भगवन्तं संप्रार्थ्य विरमे" भवदीयः पर विद्वान् महाबलेश्वरशास्त्री "तेजस्" नं. १२४/C 1st Main 5th Cross - कन्यकापरमेश्वरी देवस्थानद रस्ते गिरिनगर बेङ्गळूर ५६००८५ For Private Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ अनुक्रमः 600WOWOMMIMIMOWWWWWWWW00 ALS कृति: TONKAN कर्ता पृष्ठम् OmAORE शकलब्धितिधान-शीशी वाल्याकमा पODESIC आचार्यविजयहेमचन्द्रसूरिः १ YON श्रीमाणिभद्रयक्षराजस्तूत्यष्टकम । आचार्यविजयहेमचन्द्रसूरिः । तल्वामनभावना - स्व.आचार्यविजयपद्मसूरिः । ४ देवि ! दिव्यभारति ! K ल प्रॉ. ताराशङ्कर शर्मा 'पाण्डेयः' | गालाञ्जलिकादयामू जर (१) हन्त, भूयो मरिष्ये !डॉ. अभिराजराजेन्द्र मिश्रः 29 (२) प्रतिबिम्बः PHOYA डॉ. अभिराजराजेन्द्रमिश्रः LOD aTanICICITIE0e: विद्वान एस्. जगन्नाथः स्वाध्याय योगशतकदोहनम्। मुनिरत्नकीतिविजयः ३५ । IODOODIO 10 Page #12 -------------------------------------------------------------------------- ________________ अनुक्रमः wwwwwwwwwwwwww PE कृति: TUNEERY कर्ता पृष्ठम् आस्वाद: No चिन्तनधारा मुनिरत्नकीतिविजयः। ७१ | दान-प्रदान-सम्प्रदानानि शास्त्री व्रजलाल उपाध्यायः ७४ तस्मै श्रीगुरवे नमः RPENS डॉ. महेश्वरः रमानाथः द्विवेदी ७६ संशोधनम आचार्यहेमचन्द्रसूरिकृतं छन्दोऽनुशासनम् । आचार्य डॉ. रामकिशोरः मिश्रः ७८ । पत्रम 52 मुनिधर्मकीर्तिविजयः PROLAIK कथा ॥ सन्तोषान्न परं सौख्यम् ॥ J मुनिरत्नकीर्तिविजयः ९१ । (दृष्टिदोषः मुनिधर्मकीर्तिविजयः ९३ Page #13 -------------------------------------------------------------------------- ________________ अनुक्रमः 0000000000 कथा मर्म नर्म प्राकृतविभागः कथा कार्पण्यम् ( मङ्गलकलशः ∞∞∞∞∞00000 00000 12 कर्ता परदुहभंजग - सिरिविकुमाइच्चरायस्स परपुरप्पवेसो मुनिधर्मकीर्तिविजयः ९४ मुनिकल्याणकीर्तिविजयः पृष्ठम ९५ कीर्तित्रयी ११६ मुनिकल्याणकीर्तिविजयः १२० Page #14 -------------------------------------------------------------------------- ________________ शकलब्धिनिधान पीजोमरवाव्याकमा .. . રો જી. आचार्यविजयहेमचन्द्रसूरिः (ललित-वृत्तम्) महिमशालिनं विश्वतारकं, गुणगणालयं गीतगौरवम् । सकललब्धिभूद्योगिनं स्तुवे, गणधरोत्तमं गौतमप्रभुम् શ चरमतीर्थकृत्पट्टभास्करो, मुनिततीडितः कामितप्रदः । सुरवरैर्नुतस्तेजसां निधि-विजयतेतरां गौतमेश्वरः चरितमद्भुतं ते दयानिधे ! जडमतिः कथं स्तोतुमुत्सहे ? । तव कराम्बुजाद् दीक्षिताः समे, मुनिवरा ययुर्मुक्तिमन्दिरम् રો भविकतायिनं मुक्तिदायिनं, कुमतनाशिनं तत्त्वपायिनम् । पतितपावनं भाविराजितं, प्रणिदधेऽन्वहं गौतमेश्वरम् गणभूदग्रणीः श्रेयसां पदं, हितकरी नृणां पापनाशकः । विमलदर्शनः कर्मजित्वरो, विजयतेतरां गौतमेश्वरः કો नमनतस्त्वयि श्रीगणाधिप !, सकलकल्मषं नश्यति ध्रुवम् ! पवितनाम ते यत्र राजते, भवति तत्र नो विजकल्पना Rોદ્દો गिरिवरे गतोऽष्टापदे भवान्, भगवतोऽचितुं स्वीयशक्तितः । अतुलसारवन् ! नाथ ! ते गुणान्, गणयितुं क्षितौ केन पार्यते ? ॥७॥ तव पदाम्बुजे वन्दना सदा, भवतु मे प्रभो ! योगिसत्तम ! तव प्रभावतो मंगलावलिमम दिने दिने देव ! जायताम् ૮ अष्टकं गौतमेशस्य, सर्वसिद्धिप्रदायकम् । रचितं हेमचन्द्रेण, गुरुदेवांहिसेविना ॥ विज्ञप्त्या निजशिष्यस्य प्रद्युम्नाख्यमुनेर्मया । पारेखचीमनभ्रातुः पाठाय लिखिता स्तुतिः ॥ For Private Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ तपागच्छाधिष्ठायकश्रीमाणिभद्यक्षराजस्तुत्यष्टकमा ।। आचार्यविजयहेमचन्द्रसूरिः 'भुजङ्गप्रयातम्' यदीयप्रभावान्नृणां भक्तिभाजां, ___ फलन्ति ध्रुवं सर्वहृत्कामितानि । सदा तं स्तुवे यक्षराजं सुभक्त्या, तपागच्छसंरक्षकं माणिभद्रम् ॥१॥ मुधा भ्राम्यथेतस्ततः किं मनुष्याः !?, . निजेष्टार्थसंसाधनार्थं पृथिव्याम् । श्रयध्वं लसद्भावभक्त्या श्रयध्वं, तपागच्छसंरक्षकं माणिभद्रम् ॥२॥ अवाप्येव कार्याण्यशक्यानि यस्य, सहायं स्म सूरीश्वराः साधयन्ति । स्तवीमः सदा तं प्रभावासमानं, तपागच्छसंरक्षकं माणिभद्रम् રો प्रभामण्डलैर्मण्डितं खण्डिताघं, यशःपुञ्जशुभ्रीकृताऽऽशाकदम्बम् । स्तुवेऽनन्यसद्वृत्तविरमापितज्ञ, . तपागच्छसंरक्षकं माणिभद्रम् Page #16 -------------------------------------------------------------------------- ________________ श्रयेद् भाविको कोऽपि यो यं प्रमोदाद्, भवेद् रोगशोकादिदुःखं न तस्य । तथा साऽऽप्नुयाद् वाञ्छितं, संस्तुवे तं, तपागच्छसंरक्षकं माणिभद्रम् ॥५॥ विशुद्धात्मभावेन शत्रुञ्जयादि, __व्रजन् यो हि मार्गे च कुर्चन्ननीकम् । विपद्याऽऽप नाकं स्तुवे भक्तितस्तं, तपागच्छसंरक्षकं माणिभद्रम् ॥६॥ न दास्यं न जाड्यं न तस्याऽर्थकायँ, न चाऽनिष्टसंयोगजन्यादिदुःखम् । स्मरेद् यो हि विश्रब्धचित्तेन नित्यं, तपागच्छसंरक्षकं माणिभद्रम् ॥७॥ धनाद्यर्जितुं देशदेशान्तरेषु, जना बम्भ्रमन्तीति चित्रं महन्मे । पुरस्थं सुरटुं न पश्यन्ति साक्षात् तपागच्छसंरक्षकं माणिभद्रम् ॥८॥ श्रीदेवसूरिशिष्येण, हेमचन्द्रेण सूरिणा । अष्टकं यक्षराजस्य, रचितं श्रेयसेऽस्तु वः ॥९॥ For Private Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ ॥ तत्वामृत्त भावना पूज्याचार्यश्रीविजयनेमिसूरिशिष्य स्व.आचार्यविजयपद्मसूरिः (अनुष्टुब्वृत्तम्) प्रणम्य स्तंभनाधीशं नेमिसूरीश्वरं मुदा । कुचे स्वान्योपकाराय श्रीतत्त्वामृतभावनाम् उन्मीलिताऽऽत्मदृष्टि श्रीजिनेन्द्रप्रसादतः । विभावतिमिरं नष्टं तदद्याऽऽनन्दवासरः રો फलितो धर्मकल्पद्रुः प्रसन्नाः प्रमेश्वराः । यतोऽद्याऽऽत्मगुणारामे विहरामि प्रमोदतः दर्शनज्ञानचारित्राराधनोत्साहदायकाः । सांनिध्याधायकास्तत्र ये वन्दे तानहर्निशम् स्वभावात्परनिष्ठासदोषान्पश्यन्ति ये सदा । मध्यस्थभावना तेषु द्वेषलेशोऽपि नास्ति मे કો समीहे भद्रमेतेषां सदोषोच्चारकारिणाम् । मत्वोपकूतिमातन्चे दोषशुद्धिं हितावहाम् દો स्वचिन्ता हितदा तथ्या परचिन्ता न शान्तिदा । उभयोर्हन्ति भद्रं सा तत्सृतं प्रचिन्तया ॥७॥ एकोऽहं नास्ति मे कश्चिन्नाऽप्यहं कस्यचिद्भवे । यन्मदीयं च मालिन्यं तज्ज्ञेयं कर्मबन्धनैः ।। रागद्वेषाविति प्रोक्ते कर्मबन्धनकारणे । सरलत्वतोषतः शीघ्रं नश्यते रागबन्धनम् ४ Fore Page #18 -------------------------------------------------------------------------- ________________ क्षमानम्रत्वहेतुभ्यां द्वेषनाशो भवेद् ध्रुवम् । रागद्वेषविहीनात्मा नमस्याह: फलप्रदः ज्ञानदर्शनचारित्रैर्युतोऽहं शाश्वतः सदा । द्रव्यार्थिकेन चाऽनित्यः पर्यायस्थितिभावतः ઉશ देहे वर्णादयो धर्मा नैते वर्तन्त आत्मनि । तस्मान्नैक्यं द्वयोरेवमुच्चरन्ति मनीषिणः કરો मया संयोगजन्याऽऽप्ता दुःखश्रेणिर्भवे भवे । तेन संयोगसंसर्ग व्युत्सृजामि त्रिधा मुदा संसारे ममताहेतुः संयोगः, परिहारतः । तस्य सौख्यं भवेत्सत्यं प्रशमादिसमन्वितम् ૧૪ कदाऽहं समतालीन: सर्वोपाधिविवर्जितः । तीर्थकृद्ध्यानसंपन्नो भविष्यामि प्रमोदभाक् ॥१५॥ कोऽहं किं मे कथं वर्तेऽधुना मे कीदृशी स्थितिः । कः कालः कीदृशं क्षेत्रमित्यालोचयति प्रधीः ॥१६॥ मानसे मेऽधुना कीदृग् भाव आत्महितं कियत् । कृतं मयाऽवशिष्टं च किमेतदवधारयेत् ॥१७॥ अनन्तशक्ति संपन्नोऽप्ययमात्मा विमोहतः । भजते विविधं भावं संसाराखेटके निशम् ૩૮ जीव ! जानीहि स्वल्पस्मादधमान्मोहपाशतः । नैकाङ्गिनो नारकत्वं प्राप्तास्तत्त्यागतः सुखम् महापुण्योदयेनाऽऽप्तो नृभवो देवदुर्लभः । गतक्षणार्पणे नैव कोऽपि शक्तो धरैपि आसन्नसिद्धिकास्तत्र लभन्ते धर्ममार्हतम् । यत्प्रभावेण सिद्ध्यन्ति सिद्धाः सेत्स्यन्ति भाविनः ॥२१॥ ॥२०॥ Page #19 -------------------------------------------------------------------------- ________________ नेहे विधर्मसाम्राज्यं रत्वं धर्मसंयुतम् ।। वरं मन्ये यतो नाशस्तस्य स्याद्धर्मसाधनात् ॥२२॥ जीव ! केशाः सिता जाता न जाता मतिशुक्लता । विषयेषु षायेष्वासक्तिस्तन्मोहजृम्भितम् રણો त्यक्त्वा तान्विषयादीन्ये सिंहशूराः समाश्रिताः । सत्संयम बाल्यकाले वन्दे तत्पादपङ्कजम् ૨૪ संजातस्य ध्रुवं मृत्युः चारित्रोत्कर्षशालिनाम् । प्रशस्यं मरणं प्रोक्तं सर्वगोत्कर्षभूषितम् । વીરો पावनं शासनं जैनं पावनाशयशालिनः । समाराध्य समीहन्ते भावतस्तद्भवे भवे . રદ્દો आराधिता जिना देवा भावतो गुरवोऽपि यैः ।। साधितो जैनधर्मश्च तेषां मृत्योर्भयं कथम् ? ॥२७॥ पञ्चाऽपि विषयास्त्यक्ताः कषाया यैर्विरागिभिः । क्षामिताः सकला जीवा भाविता भावनाः शुभाः ॥२८॥ जिनागमाः समभ्यस्ता विधिना गुरुसंनिधौ । तत्प्रधानप्रयोगा ये तेषां मृत्योर्भयं कथम् ? રો सत्पात्रेभ्यो ददानानां दानं सद्ब्रह्मचारिणाम् । तपस्यासाम्ययोगानां तेषां मृत्योर्भयं कथम् ? રૂમો उद्दिश्याऽऽत्मानमाचारसाधनाऽध्यात्ममीरितम् ।। तत्र निश्चलचित्तानां तेषां मृत्योर्भयं कथम् ? રૂછો धर्मकर्ता गुरुद्यो धर्मज्ञो धर्मदेशकः । सदौषधं मोक्षमार्गसाधना ज्ञानपूर्विका શોરૂરી पथ्यं सद्भावना योगात् त्रयाणां च प्रणश्यति । भावामयो, मिलन्तु मे त्रये एते भवे भवे ॥३३॥ (युग्मम्) For Private Eersonal Use Only Page #20 -------------------------------------------------------------------------- ________________ રૂજી રૂષો રૂદ્દો રૂછો श्रुताभ्यासो नतिर्देवे सत्कथाऽऽचार्यसंगातेः । दोषप्रकाशने मौनं प्रिया वागात्मभावना वैराग्यं गुणदृष्टिश्च विंशतिस्थानसेवना । अन्तरालभवेष्येते संपद्यन्तां भवे भवे आत्मवादादिभिस्तत्त्वैर्जयति जिनशासनम् । उत्कृष्टं सर्वधर्मेषु साधकाः सन्तु निर्मलाः निर्लेपाः पद्मवज्जाता अनन्ता अधुनाऽङ्गिनः । भवन्ति च भविष्यन्ति जैनधर्मस्य साधनात् । जैनधर्मो रनतुल्यो धर्माश्चाऽन्ये न तादृशाः । यथार्थकरणं जैने धर्मेऽन्यत्रैव भाषणम् जैनधर्मरताः सर्वे भवन्तु सुखिनः सदा । मैत्रीप्रमोदकारुण्यसन्माध्यस्थ्यान्वितास्तथा मङ्गलं तीर्थराजो मे मारुदेवप्रभुस्तथा । शान्तिनेमिपार्श्ववीरा देवाः कुर्वन्तु मङ्गलम् वर्षेऽत्र वैक्रमे श्रेष्ठे निधिनन्दनवेन्दुगे (१९९९) । फाल्गुने सितपञ्चम्यां ग्रामे बोटादनामनि नेमिसूरीशशिष्येण कृतेयं पद्मसूरिणा । लक्ष्मीप्रभस्य विज्ञप्त्या श्रीतत्त्वामृतभावना રૂ૮ રૂS ૪૦નો ૪ ॥४२॥ (युग्मम्) Page #21 -------------------------------------------------------------------------- ________________ देवि ! दिव्यभारति! ___प्रो. ताराशङ्कर शर्मा "पाण्डेयः" । सुरैः सदैव वन्दितेऽम्ब ! देवि ! दिव्यभारति ! नमामि देववन्दितेऽम्ब ! देवि ! दिव्यभारति !! कुन्दचन्द्रचन्द्रिकातुषारहारहारिणि ! हंसराजराजिते ! सदैव पुस्तधारिणि ! शान्तिपावने वने प्रकाशचारुहासिनि ! वन्दनां सदा करोमि देवि ! पद्मवासिनि ! सुरैः सदैव वन्दितेऽम्ब ! देवि ! दिव्यभारति ! नमामि देववन्दितेऽम्ब ! देवि ! दिव्यभारति !! वेददेववन्दिते ! पुराणमर्मबोधिनि ! व्यासभासकालिदासमाघकाव्यलासिनि ! कान्तकाव्यकौमुदीकृपाकटाक्षकारिणि ! बालके कृपां कुरुष्ट देवि ! वेदवासिनि ! सुरैः सदैव वन्दितेडम्ब ! देवि ! दिव्यभारति ! नमामि देववन्दितेडम्ब ! देवि ! दिव्यभारति !! पादपद्मपूजिते ! प्रपन्नदुःखदारिणि ! ज्ञानदानतत्परे ! विवेकराशिदायिनि ! बुद्धिशुद्धिकारिके ! कलाकलापकल्पिनि ! बालिशे दयां विधेहि, देवि ! मोहनाशिनि ! सुरैः सदैव वन्दितेऽम्ब ! देवि ! दिव्यभारति ! नमामि देववन्दितेऽम्ब ! देवि ! दिव्यभारति !! आचार्य एवम् अध्यक्ष साहित्य-विभाग राजस्थानसंस्कृतविश्वविद्यालय, जयपुर For Private Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ गलज्जलिकाद्वयम् विना मृत्युना भावि जन्मान्तरं नो मृतोऽहं ततो, हन्त भूयो मरिष्ये ॥ १ ॥ (१) हन्त, भूयो मरिष्ये ! डॉ. अभिराजराजेन्द्रमिश्रः कुलपति: सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः न यलं विना जायते लक्ष्यसिद्धिः प्रयतितं ततस्साधु, भूयो यतिष्ये ॥२॥ शतायुः स्पृहा कीदृशी कर्म हित्वा ? कृतं प्राक्ततोऽद्याऽस्मि कुर्वन् करिष्ये ॥३॥ परेषां न के सौरव्यमर्थं हरन्ति ? समेषामहं दुःखमार्तिं हरिष्ये ॥५॥ बनारस सतां शाश्वती कीर्तिता कीर्तिरूर्व्याम् सतां वर्त्म तस्मान्नितान्तं ग्रहीष्ये ||४|| तितिक्षावतामेव लोके समज्ञा ततः सोढमद्याऽपि भूयस्सहिष्ये ॥७॥ नवो भट्टमीमांसकः कोऽप्यहम्भोः ! सद्भारतीं गर्तगामुद्धरिष्ये ॥६॥ घनो जायते शोषितोऽर्केण सिन्धुः प्रशुष्कोऽपि किञ्चिन्नवीनं सहिष्ये usu यमाश्रित्य दीनोऽपि जातश्शरण्यः तमेवाऽभिराजाश्रयं संश्रयिष्ये ॥८॥ For Private Personal Use Only . Page #23 -------------------------------------------------------------------------- ________________ (२) प्रतिबिम्बः रुचिं वर्धयति सर्वेषामिह भुवने प्रतिबिम्बः । मनो रञ्जयति नहि केषामिह भुवने प्रतिबिम्बः ?? ॥१॥ हसिते हसति, विलपिते रोदिति, भणिते भणति तथा । हृदि दग्धे नो दहति किन्तु बिम्बैस्सह प्रतिबिम्बः ॥२॥ अश्रु पातयति, तदनु मार्जयति, भवति तुल्यधर्मा । किन्तु न पश्चात्तपति सम्मुखं सदयं प्रतिबिम्बः ॥३॥ प्रत्यक्षं दर्शयति रूपगुणदोषं निर्भीकः । क्षमते तदपि न हृदयं प्रोद्घाटयितुं प्रतिबिम्बः ॥४॥ बहु गुणयति यद्यपि सुभगम्मन्यत्वं सर्वेषाम् । किमपि सङ्कटे नो साहाय्यं कुरुते प्रतिबिम्बः ॥५॥ दर्पणतले चकास्ति निर्मले, मलीमसे नैव । सबलः क्वचित् क्वचिच्च निर्बलो भवति प्रतिबिम्बः ॥६॥ मूले नष्टे भवति विनष्टस्तत्प्रत्यययोग्यम् । मूलेऽक्षते दुर्दिने कस्मान्नति प्रतिबिम्बः सूर्यातपमहिमैव कारणं यदि तस्योद्भवने । तर्हि मुधैव बिभर्ति समाख्यां सोऽयं प्रतिबिम्बः मल्ले प्रतिमल्ले क्योपाधिः क्व प्रतिभूदृष्ट: ? किन्तु तादृशं सम्बन्धं धत्ते नो प्रतिबिम्बः TANCIE CONT TAGS ॥९॥ For Private 3 Osonal Use Only Page #24 -------------------------------------------------------------------------- ________________ Pory माभागकागाथा एस्. जगन्नाथः २९२५, शाण्डिल्यः 1st Main 5th Cross सरस्वतीपुरम्, मैसुरु- ५७०००९ | १३३. खलम् आलिलिङ्गिषुः खड्गं प्रीत्या लेढि । ___ १३४. खल्वाटस्य शृङ्गाराय चूडामणिरुपायनीकृतः । 3 १३५. खाण्डववने खण्डिकाबीजं दग्धमिति गाण्डीवधन्वनः पुरस्तात् गोपालो रोदिति । १३६. खुरलीनिरतस्य मुरलीनादेन किम् ? - १३७. गजस्योपर्युपविश्य गर्दभेनाऽऽलिङ्गितः । १३८. गजान् हन्तुर्गापूजायां महती प्रीतिः । hen १३९. गजस्य शुण्डया गरुडस्य को लाभः ? १४०. गप्पेश्वराणां सन्निधौ मिथ्यावाचां दासत्वम् । म PPS, १४१. गरुडाय डयनं चटकः शिक्षते । . १४२. गर्जनमेव दुर्बलानाम् अर्जनम् । - १४३. गर्दभवाहस्य पञ्चकन्याभिर्विवाहः । १४४, गर्दभानां गानं मण्डूकानां प्लुतये । १४५. गर्दभाय गान्धर्यो वेदः । १४६. गर्ववतां शिरसि दर्वीताडनम् । SASTE १४७. गर्वहीनानां हितं सर्वतोदिशम् । __१४८. गवयं पारि नष्टं गवेषयन्ति आगामिनि वर्षे । १४९. गाढेन रोदनेन मूढो बृहस्पत्याचार्यायते वा ? SORBA GETBes Page #25 -------------------------------------------------------------------------- ________________ १५०. गातुं विवृतवदनस्याऽऽस्ये मशकः पतितः । प्रति 3 १५१. गायनस्य संगीतं श्रुत्वा गर्दभः पलायितः । ___ १५२. गिरिधरेण गोवर्धने वोढे काष्ठामलाधीशेन काष्ठा वोढा । स १५३. गुजैव मर्कटस्य माणिक्यम् । १५४. गुरुरिति श्रितोऽरमाभिर्गुणुरायते । १५५. गेहेपण्डितस्य सभाध्यक्षत्वे गोष्ठेपण्डितः प्रमाणम् । १५६. गोमायोः पुरस्ताद् गौळरागे श्राविते 'नारित रुधिरं एक नास्ति मांसं नास्ति चाऽस्थी'त्यवदत् ।। १५७. गोद्वौं शृङ्गौ, गर्वस्य नव शृगाः । १५८. गोविन्देन गोवर्धने वोढे ग्रामीणेन मृत्पिण्डं वोढम् । EN) १५९. गौतमबुद्धं ध्यात्वा घोरं खड्गं लाति । (ला आदाने) __ १६०. ग्रन्थं रिरचयिषुर्ग्रन्थि ससर्ज । * १६१. ग्रामटिके सार्वभौमो महानगरे तृणायाऽपि न । १६२. घूकानां नर्तने भेकानां संगीतसंगीतिः । S१६३. चक्रिका (Reed) विस्मृत्य नागस्वरवादनम् । १६४. चण्डव्याघे पण्डितोपदेशः । का १६५. चर्वति कपर्दिकां चक्रवर्ती भिक्षते ! १६६. चलतां सौभाग्यं, स्वपतां दौर्भाग्यम् । १६७. चषकं नव्यं संभूतगव्यम् । १६८. चाणक्यचेतसो माणिक्यं वचनम् । १२ Page #26 -------------------------------------------------------------------------- ________________ - पनि १६९. चापवते कोपो न कारयितव्यः । __१७०. चिन्तायाः समाप्तिश्चिताया उपरि । चोर: शिष्यश्छुरिकावान् आचार्यः । १७२. चोरितेन पुष्पेण धर्मदेवस्य पूजा । अ १७३. जरठस्याऽपि जठरं पटु । १७४. जरगायकस्य वदने धन्यासीरागः संन्यासी बभूव । १७५. जायाम् अवरा बुद्धिः । १७६. जाते संताने जयघोषः प्रवर्धिते संताने भयघोषः । SA १७७. जामात्रा शष्पिञ्जरे भक्षिते श्वशुरेण शिंशपा कबलीकृता । १७८. जिनापणे झषमौल्यं जिज्ञासते । र १७९. जीवाचार्यशिष्यो जीवतोऽपि मारयति ! १८०. ज्ञानहीनस्य श्मश्रु अवलम्बनम् । १८१. झञ्झां किं जरद्गवः प्रतिरुणद्धि ? १८२. डिण्डिमभाषी पटहभाषिणं नीचैः शंसितुं प्रार्थितवान् । ED १८३. तण्डुलखादनात् प्राक् तुषं निवारय । १८४. तण्डुले नष्टे ताण्डवं नृत्यम् । . १८५. तण्डुलध्वंसी मण्डनमिश्रः खण्डन् करोति खण्डिकायाः । १८६. तपश्चिकीर्षुः कपि पालयति । १८७. तरक्षोः पातेन हर्यक्षस्याऽस्थिभङ्गः ? १८८. तरणितप्तानां तरुरेवाऽऽश्रयो न च निजा छाया । की १८९. ताटकां कथं तर्पयतु कीटक: कीकटायाः ? Page #27 -------------------------------------------------------------------------- ________________ १९०. ताटकापुरे देवे वृष्टे, तोटकापुरे तदिगिणतोम् ! 3 १९१. तावद्दणं पापं यावद्दघ्नं पुण्यम् । ___ १९२. तित्रिणीफलेन दाडिमस्य विवादः । १९३. तृणमत्तुं गजस्य कीदृशं मुहूर्तम् ? १९४. तूणेन ताडयन् किं मुसलेन नाघट्टयति ? र १९५. तेजस्तावन्नास्तीति सोरस्ताडं प्ररोदनम् । १९६. त्वरा क्रियतां, गर्ने पत्यताम् । अब १९७. दण्डवत् प्रणम्य दशार्धपूजां करोति । (दशाv=पञ्च । पञ्चागुलीभिः पूजां की करोति, अर्थात्, चपेटिकां ददाति ।) १९८. दण्डहीनेन चण्डव्याघो न कोपनीयः ।। - १९९. दम्पत्योः कलहश्वोरस्य सौभाग्याय । २००. दम्भो वा कुयशःस्तम्भो वा ? EM२०१. दयितो विवाहानन्तरं दौर्भाग्यदो जातः । २०२. दरिद्रस्य जठरं भारः, धनिकस्य द्रविणं भारः । २०३. दरिद्राणां दुन्दुभिवादनम् ।। २०४. दर्पसर्पो दारिद्र्येण दीनो बभूव । MASTE, २०५. दर्वीमधिक्षिपन्ति दुष्पाचकाः । २०६. दुरितं दैवाल्लब्धम् । - २०७. दुर्गतो मृगेन्द्रो गर्दभस्य पादसंवाहकः । २०८. दुर्गतिकाले देवं स्मरति । २०९. दुर्व्यवहारिणां दिव्योपदेशाः । २१०. दुष्टाय देवाय धूर्तो देवलः । Page #28 -------------------------------------------------------------------------- ________________ २११. द्वयोः कोलाहले तृतीयस्य हालाहलम् । २१२. देव इति नामधेयं दौर्जन्यं प्रकृतिः । २१३. देव एव दीव्यति चेद् भक्तस्य भिक्षापात्रं शरणम् । २१४. देवदत्तं तर्पयितुं रेवणार्यं लगुडेन ताडयति । २१५. देवानांप्रियाय दुकूले दत्ते दिवाभीतमाच्छादयति । २१७. देवो देव इत्याक्रुश्य सेवते सूकरस्य पुच्छम् । २१६. देवाय भागे दत्ते देवलस्य करे कपर्दिका । २१९. द्राक्षत्सु जनेषु दैवं हस्तं प्रसारयति । २२०. २२३. धर्मारण्ये दुर्मरणम् । २१८. द्रविणं दत्वा मरणं क्रीणाति । २२१. धर्मनिष्ठानां कर्मपीडा । २२२. २२४. २२५. धैर्ये गलिते दण्डैः प्रहारः । धनमर्जय, मानं वर्जय । धर्मारण्ये दारुच्छेदः । २३१. नरं चिकीर्षुर्वानरं चकार । धर्मार्थं चीरे दत्ते 'पीताम्बरं किमिति न दत्तम्' इत्यपृच्छन् । २२६. नक्रमुखी वक्रमुखीम् अपहसति । २२७. नगरे कलकले प्रवृत्ते नकुलो निद्राति । २२८. २२९. नम्रा बुद्धिः कम्रा वाणी । नन्दने स्थित्वा नरके पतति 1 २३०. नयने शुद्धे सर्वं शुद्धम् । १५ Page #29 -------------------------------------------------------------------------- ________________ २३२. नर्तकीं दृष्ट्वा पड्गुः पाशबद्धो वृक्षे ललाग । २३३. नवीनभीष्मस्य प्रतिसप्ताहं नूतनी सन्ततिः । २३४. नवीनभेषजापेक्षया पुराणरोग एव वरम् । २३५. नवे वयसि नगराजोऽपि नवनीतायते । २३६. नासिकया भूमिस्पृक्षु महामल्लेषु चमरपुच्छः सोरुताडं गर्जति । २३७. नाटक योधस्य शब्दकोषे शिञ्जिनीपदस्य गुञ्जफलमित्यर्थः । २३८. नाटक रामस्य कति सीता: ? २३९. नाटक साधोराटोप एवाऽधिकः । २४०. नाटके निपुणानां सहस्रं संज्ञाः । २४१. नानामार्गेषु, नाना मरीचिकाः । २४२. निकृष्टा निटिलं निन्दन्ति । २४३. निरक्षरभट्टाचार्यस्य नानाशास्त्रीति संज्ञा । २४४. निरक्षरभट्टाचार्याय नैषधं काव्यम् । २४५. निर्जितरतेः सुन्दरीमणेः कनीनिकैव नाऽस्ति । २४६. निर्विवेकानां खर्वबुद्धिर्देवता । २४७. निशितबुद्धिं शास्त्राणि नमस्कुर्वन्ति । २४८. निःश्रेणिकया किं वृक्षविहारविदग्धस्य वानरस्य ? २४९. नैके गुरवो नाना भ्रान्तयः । २५०. पटच्चरे गतो मानः पट्टचीरदानादपि न निवर्तते । २५१. पटहनिर्माणाय मूकप्राणिनां मारणम् । २५२. पठने लब्धं ज्ञानं रटने नष्टम् । १६ Page #30 -------------------------------------------------------------------------- ________________ २५३. पठित्वा पठित्वा शठोऽभवत् । २५४. पततोऽप्युदरम् उत्तानम् । २५५. पतितं चाटकैरं प्रासैः (= आयुधविशेषैः ) प्रहरन्ति । २५६. पतिपल्योः कलहे शिशुचेष्टितं निर्बाधम् । २५७. पतिपत्न्योः परस्परेण प्रतारणा २५८. २५९. परनिन्दा पायसं पिशुनानाम् । २६०. परमेश्वराय पर्युषितं नैवेद्यम् । २६१. परशुविद्या पामरहृद्या । २६२. २६३. परुषवचनानां प्रतिपदं प्रतिपक्षाः । पत्नी करेणुः पतिः परमाणुः । २६४. परवार्तैव वाचाटानां विश्वम् । २६५. पर्पटीं कर्तुमजानन् पौरोगवपदवीं काङ्क्षते । २६७. पर्पटीमुत्पाट्य पर्वतमुत्पाटय । परिणयात् प्राक् प्रेष्ठः, परिणयानन्तरं पापिष्ठः । २६६. पर्पटीभक्षणेनैव भग्नदन्तः कथं भक्षयतु लड्डुकम् ? २६८. पर्वताय प्रस्तरदानम् ! २६९. पलायितायां पिशाचिकायाम् उच्चाटनमन्त्रे मुसलामुसलि । २७१. पाताले कीदृशी पीयूषवार्ता ? २७२. २७०. पातञ्जलं योगमभ्यस्य परमोग्रं शापं ददाति । पातुं जलं नाऽस्ति, 'पायसं पित्तलपात्रे किम्' इति जगर्ज । For Private Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ - २७३. पापाचरणेन पुण्यसंचयः । २७४. पापिष्ठानां दीर्घमायुः । र २७५. पायसभाण्डे वायसः पतितः ।। ___ २७६. पायसे मक्षिकापातः । 3 २७७. पालनं चिकीर्षुबलनं कृत्वा हालाहलमपिबत् । २७८. पालीत्रिपिटकेन पिपीलिकां मारयति । २७९. पिपीलिकायै आदिष्टे कार्ये पिपीलिका पुत्तिकायै आदिष्टवती । २८०. पिपीलिकारोदनं पर्वतः शृणोति किम् ? NAGAR २८१. पिपीलिकाशववाहनाय पञ्च मला आगताः । २८२. पिशाचानां किं पण्डितभाषया ? २८३. पिशाचेन पुराणप्रवचनम् । २८४. पीठे स्थिते पाठेन किम् ? पीडायामपि पन्थानं पश्यन्ति पटुबुद्धयः । २८६. पुच्छेन लाशूलं युयुजे । पुच्छेनैव चोरयन् शुण्डया किं न गृह्णाति ? २८८. पुण्डरीकात् किं पूतिगन्धः सवति ? PRACHE, २८९. पुण्ड्रं धृत्वा पाण्डित्यं नाटयति । २९०. पुण्यं स्वप्रणीतं परैरनुष्ठितं कुम्भीपाकाय । २९१. पुण्यपादपे पापफलम् ।। २९२. पुण्येनार्जितं द्रव्यं पापाय व्ययितम् ।। , २९३. पुत्तिकापुरे जिजीविषुणा मृत्तिकाभक्षणं शिक्षणीयम् । ___ २९४. पुरस्तादेवस्य पादरक्षायां चिन्ता । १८ Page #32 -------------------------------------------------------------------------- ________________ - 2 २९५. पुराणं श्रुत्वा पादरक्षाम् अचूचुरत् । २९६. पुस्तकचोरस्य पुण्ये पञ्च प्राणाः ।। भी २९७. पुस्तकं पठित्वा मस्तकं कुट्टयति । २९८. पृथुकतण्डुलराज्ये पट्टाभिषिक्तः पौरवपुरं पाति । २९९. पोषिते मूले पल्लवो हसति । ३००. प्रणिपातं नाटयन् पाणिं गृहीत्वा पातयामास । ३०१. प्रतारकस्य वचने पलाण्डुरेवाऽऽम्रफलम् । ३०२. प्रत्यग्रहरिणापेक्षया पुराणः शशको वरम् । ver ३०३. प्रत्यग्रं भूषितं शस्तं, पुराणं भाषितं शस्तम् । ३०४. प्रथमा संततिालनाय, द्वितीया पालनाय, तृतीया ताडनाय । । ३०५. प्रसूतः सूकरोऽपि प्रसूतवतां लालनाय । ३०६. प्रदीपेन तमः प्रसूतम् ! प्राचीनपुण्यानां प्रत्यग्रपापेन परिहारः । ३०८. प्राचीनं पुण्यं नवीनं पापमभूत् । EM ३०९. प्राणायाम चिकीर्षुः प्राणसंकटं व्यतानीत् । ३१०. प्रीतिर्वा प्राणसंकटं वा ? ३११. प्रेयसी परिणयानन्तरं प्राणसंकटाय । ३१२. बडिशं विकीर्य तिमिङ्गलं काढते । बधिरस्य कर्णयोर्मधुरो मण्डूक नादः । ३१४. बधिरस्य गानामृतं बधिराय । - ३१५. बहुभिः कुम्भकारैर्भङ्गः कुम्भस्य । For Private Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ ३१६. बहिः शान्तो बहुरूपधारी । ३१७. बादरायणस्य शिष्या भेदरायणा अभवन् । ३१८. बाहुमूले स्थितं छत्रं राहुमूले गवेषयति । ३१९. बुद्धिहीनः कुलीरको बकराजे विश्वसिति । ३२०. बुद्ध्यनुसारं भक्षय । ३२१. बीजं नोप्तं, आम्रफलं पतत्विति विवृतवदनः शेते । ३२२. बुद्धिं वदतां शुद्धिर्नाऽस्ति । ३२३. बोधं सिसृक्षोः क्रोधः किमर्थम् ? ३२४. बोधे रुदिते बाधो हसति । ३२५. बोधे जाते बुद्धिर्वका । ३२६. ३२७. भग्नास्थिकस्य शिरसि लगुडेन प्रहारः । ब्रह्मज्ञाने न्यूनेऽपि जिह्महृदयं न न्यूनम् । ३२८. ३२९. भर्म गृहीत्वा भूषणाय रुदन्ति । ३३०. भर्मदेवतैव धर्मदेवता । ३३१. भव्यं रागमारभ्य भषकचत् 'कय्या पिय्या' इति आक्रुक्षत् । ३३२. भस्मनि शयालोर्भर्मणि स्वप्नः । ३३३. भारतं श्रुत्वा दिवारात्रं भीष्मः किं द्रौपद्याः पतिरिति पृष्टवान् । ३३४. भिक्षाजीवः कुबेरं भृत्यं चिकीर्षति ! ३३५. भिक्षाधीश्वरो यक्षाधीश्वरं पादमर्दनायाऽऽज्ञापयति ! भण्डेन भगवद्गीतोपदेशः । ३३६. भीकराकारः सूकरं दृष्ट्वा थरथरायते । ३३७. भीमो चामनं दृष्ट्वा थरथरायते । २० Page #34 -------------------------------------------------------------------------- ________________ ३३८. भीरूणां शशकानां तृणकम्पोऽपि व्याघझम्पः । ति ३३९. भीरोरुत्तरकुमारस्य ‘भूमिञ्जय' इति संज्ञा ।। ३४०. भुजबलमेव भूरि भद्रम् । र ३४१. भूतपूर्वसर्वाधिकारी संप्रतिभिक्षाचारी । ३४२. भूमेरुपरि गिरिः, गिरेरुपरि मेरुः, मेरोरुपरि मूषिकः । ३४३. भूरिदुःखस्योपरि नारिकेलपत्रपातः । ३४४. भूलोकस्याऽन्तरङ्गे वल्मीकस्याऽन्तरङ्गे बिलस्याऽन्तरङ्गे वराहस्य शैत्यमभूदिति हेतोः पर्वतस्योपरि निर्वाचितः सर्वमठाधिपः 'आक्षि', 'आक्षि' इति क्षुतवान् । रोगो जातः । ३४६. भैरवीरागो वा रौरवनरको वा ? ३४७. भोगं लिप्सू रोगं प्राप । ३४८. भ्रंशानन्तरं मुसलः पल्लवितः । लोकान् भुङ्क्ते कपर्दिकाम् । ३५०. मठे नष्टेऽपि हठ: शिष्टः । on ३५१. मतिहीनानाम् अतिरेकः । ३५२. मत्या हीनो मिथ्या वदति । , ३५३. मद्यपानां शीधुरेव महादेशिकः साधुः । ३५४. मन्दीभूतं मस्तिष्कं मैरेये मग्नानाम् । - ३५५. मधु न सवति मरिचफलात् । Page #35 -------------------------------------------------------------------------- ________________ ३५६. मधुरं वचनं श्रुत्वा रुधिरगर्ते ममज्ज । (3 ३५७. मन्दं मन्दं महासिद्धिः । ३५८. मन्दाकिनी गत्वा मृदम् अखादत् । र ३५९. मया गप्पे विकीर्णेऽपि ममान्वयः सत्यहरिश्चन्द्रस्य । ३६०. मयूरवन्मनोहरो व्यंसकवद् विश्वासध्वंसकः । NRON ३६१. मरणमेव मनुजानां शरणम् अन्तिमम् । ३६२. मर्कटध्याने मण्डूकः साक्षी । र ३६३. मर्कटं पालयित्वा मनोजयाय दीक्षां स्वीकुरुते ! ३६४. मर्दलैरारम्भो म्लाना समाप्तिः । मल्लिकया सह मल्लयुद्धम् । ३६६. मल्लिका यदि नारिकेलवृक्षे फुल्लेत्, मम गृहे का कनकवर्षणं भवेत् । ३६७. मशको मृगाधिपं भाययति । - ३६८. . मस्तकं पुस्तके त्यक्त्वा मस्तिष्कं दूरतोऽत्यजत् । भर मस्तकज्ञानी पुस्तक ज्ञानिनं कनिष्ठिकया धूनयति । ३७०. महाभ्यासेन मायां मर्दयेत् । S, ३७१. महामहोपाध्यायमहिमान्वितभट्टाचार्यो वर्णमालामेव न जानाति । ३७२. महामहोपाध्यायो महोपद्रवकारी । महाशा मोघाशा । ___३७४. महिषो मयूरवन्नृत्यन् पतित्वा अस्थि बभञ्ज । ३७५. मातङ्गेनाऽऽक्रान्तो मार्ग एव मार्गः । ३७६. माननाशाय महामानवैमैत्री । ३६ २२ Page #36 -------------------------------------------------------------------------- ________________ ली ३७७. मार्जालं भाययितुं मूषिको गर्जति । ३७८. मार्दङ्गिकस्य शनेन किं कार्यम् ? ३७९. मिथ्यामतिः सत्ये (सत्यविषये) पटहं वादयति । ___ ३८०. मीनान् ग्रहीतुकामो महोदधौ ममज्ज । 3 ३८१. मीनापणे महावीरविग्रहं मीमांसते ! ३८२. मीमांसकस्य पुत्ररतं मीनस्य मांसं खादति । - ३८३. मुक्तिकाभ्रान्त्या शुक्तिकायै पट्टाभिषेकः । ३८४. मुख्ने कारुण्यं करे कार्पण्यम् । ht ३८५. मुदा अतिथौ आगते मृदा अलिम्पन् । ३८६. मुसलेन हूदे लजिते दण्डेन गिरिलचितः । ३८७. मूढेषु हितमुपदिशन् गाढमूढः । ३८८. मूर्खाचार्यस्य मर्कट: शिष्यः ।। र ३८९. मूषिकं जित्वा मृगाधिपं जय । ३९०. मूषिकं मशकोऽजयत् । ३९१. मृगस्य शृङ्गं दृष्ट्वा मृगाधिपस्य दंष्ट्रा बिभेति ! ३९२. मृगाधिपस्य वनेषु शक्तिः, मूषिकस्य बिलेषु - युक्तिः । ३९३. मृतः पिशाचः, उज्जीवितो ब्रह्मराक्षसः । ३९४. मृत्पिण्डे विश्वस्य महानदी तितरिषति । मृदुलेषु महास्त्रम् । ३९६. मेरं दृष्ट्वा मृत्कुम्भं विस्मरति । का ३९७. मौनवीरा मेरुं गिलन्ति । For Private Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ ३९८. मौनव्रतवतः किमर्थं मण्डूकेन सख्यम् ? 3 ३९९. मौनेन मूढा जेतव्याः । ४००. यतिपतेः कतिकूपिकामानं मद्यम् ? ४०१. यदव्यं तद् भवतु, उदरपूरं भोजनं भवतु । ४०२. यदा देवः सुवर्णं वर्षति, तदा मम पितामहाय पीताम्बरं क्रेष्यामि । ४०३. यद्वा तद्वा सिद्धिविनायकस्य सपर्या । ___ ४०४. योगिना पीयूषे पीते विदुषा विषं पीतम् । र ४०५. यवागूपायी सुवर्णमौल्यं जिज्ञासते ।। ___४०६. यावती युक्तिस्तावती शक्तिः । रहस्यं जुगोपयिषतां पटहाजीवेन सख्यं रौरवनरकाय ।। ४०८. रागो रोगः, तालो वेतालः, श्रुतिर्विस्मृतिः, गान्धर्ववेदो गर्दभगानम् । ४०९. रागो वा रोगो वा ? ४१०. राजगर्दभः पाडितवान् (=पादाभ्यां ताडितवान्) । इति हेतोग्राम पटहं वादयामास ।। ४११. राजसौधे कोलाहलं श्रुत्वा कर्णवेधः कारित एडमूकेन । ४१२. रात्रौ यक्षा[-कुबेरा]दनं, दिवा भिक्षादनम् । म ४१३. रामग्रामे रावण: सार्वभौमः । ४१४. रासभे. दृष्टे दन्तशूलम् । अब ४१५. रुग्णे दृष्टे भेषजं विस्मृतम् । ४१६. रोगी वैद्यस्य भेषजम् । २४ Page #38 -------------------------------------------------------------------------- ________________ र ४१७. रोदनशीलस्य पुरस्ताद् वेदघोषः । ४१८. रोषवतामग्रे जोषमुपविश । Nar ४१९. लङ्कां गत्वा पङ्के मग्नः । ___४२०. लज्जालुर्वधूरि पुरोहितस्य कण्ठे समार्पयत् ! 3 ४२१. लज्जाशून्याः सकलैर्मान्याः । ४२२. लताप्रहारेण भग्नकटौ लगुडप्रहारः । र ४२३. लाक्षा दहनं लेढु किम् ? ४२४. लालनाय वृद्धगूधं पालयन्ति । ४२५. लालनार्थो गर्दभपोतः पालकं पाडयति । (=पादाभ्यां ताडयति ॥ ४२६. लालितः सारमेयो लीलया दशति । , ४२७. लालितो मूषिको लुलायो बभूव । ४२८. लिखितं सर्वं कवनं क्रुष्टं सर्वं गानम् । MY ४२९. लीलां सिसृक्षुर्हालाहलं ससर्ज । ४३०. लोकज्ञानां पाण्डित्यं नास्ति, पण्डितानां लोकज्ञानं नाऽस्ति । of ४३१. लोकोक्तिर्वा छेकोक्तिर्वा ? ४३२. लोकोद्धारं नटन् काकोदरो भेकान् भक्षयामास । ४३३. लोकोद्धारे शोकोऽनल्पः । ४३४. लोलबुद्धिर्ललाटं निन्दति । ४३५. वक्रबुद्धिः शक्रं जयति ! ४३६. वचनं पालयितुं कण्टकेन कण्ठो विद्धः । ४३७. वटिकाभाण्डे व्याघ्रपोतस्य किं कार्यम् ? । For Priva3 Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ ४३८. वद सत्यं, वह कुणपम् ? वनिताद्वेषिणो वारं वारं विवाहः । ४४०. वर: क्रमेलकः, वधू रासभी । ४४१. वराहस्य पुरो वेणनादः । ४४२. वरीयान् भण्डेषु दण्डोपायः । वर्म नाऽस्ति धर्मदेवतायाः । ४४४. वर्षे वाञ्छायां वर्षोपलाः पतिताः । बार ४४५. वल्मीकेऽपि वजं वीक्षन्ते विपुलाशयाः । ४४६. वल्ल्युपरि वृक्षः पतितः । ४४७. वस्तुस्थितौ कथितायां व्याघ इव लङ्घति । ४४८. वस्त्रशुद्धौ निर्णेजक एव निर्णेता । San ४४९. वस्त्रसौन्दर्यं विजानाति किं रासभः ? ४५०. वाकाटक गुप्तः प्राकारं विलय काकाधिपः संवृत्तः । ४५१. वाक्चतुरो वा वागुरिको वा ? ४५२. वाचाटानां वाचाल एव महानाचार्यः । PASTER ४५३. वाचा साधोर्वर्णः अन्यः । ४५४. वामनं दृष्ट्वा खर्वो गर्वं बिभर्ति । वामनस्य भीमोदरम् । ४५६. वामाङ्गुलीविदग्धस्य पुरस्तादज्ञानी सर्वज्ञः । ४५७. वाराणसीं गत्वा विवादम् आनिनाय । ४५८. विग्रस्य किं प्रतिश्यायः ? २६ Page #40 -------------------------------------------------------------------------- ________________ - की ४५९. विचारे मृते विकार उत्थितः । ४६०. विट्ठलभट्टाचार्यः अट्टालिकायां तण्डुलं कुट्टयति । BAN ४६१. विदिता देवता विपर्यस्ता जाता । ४६२. विद्यां वर्तने पश्य । विद्यावतां ग्रन्था एव पन्थाः । २६४. विद्वानिति श्रितोऽस्माभिर्यद्वा तद्वा ब्रूते । ४६५. विनष्टे वेतण्डे लाङ्गलाय मुसलामुसलि । ४६६. विलम्बो बभूव, विशुद्धिर्बभूव । ४६७. विवाहो वा विकारो वा ? ४६८. विशुद्धबुद्धिर्विजयते विश्वम् । को मुमूर्षार्विषवापीपाशानाम् । ४७०. विश्वं नरको वाचाटानाम् । ४७१. विश्वस्य योगक्षेमं विचिन्त्य विद्धनेत्रः संवृत्तः । ४७२. विश्वासघाती चोलाचले वृश्चिकः । ४७३. विष्टिकरणे विविधा निन्दा । ४७४. वीधबुद्धीनां वाचाटव वेदशास्त्राणि । ४७५. वेतण्डस्य व्रणे जाते वराहस्योपरि चण्डोष्णं तैलमसिञ्चन् । ४७६. वेदान्तमधीत्य वैरं वर्धयति । MASTE, ४७७. वेश्मनि धगधगायमाने वीणां वादयति । ४७८. वैद्ये दृष्टे व्याधिर्जातः । EN) ४७९. वैद्येन ग्रन्थे पठ्यमाने रुग्णस्य प्राणाः आकाशमपठन् । २७ Page #41 -------------------------------------------------------------------------- ________________ ४८०. वैयाकरणखसूचिरपि हैयङ्गवीनभक्षणे न केनापि nि पराजीयते । ४८१. व्यग्रमना उग्रभैरवः । ४८२. व्याख्या वा ग्रन्थं गिलन्ती व्याघी वा ? 3 ४८३. व्याघ्रस्य वायसेन किम् ? ४८४. व्याघे तृणं खादति, वराहः किं करोतु ? ४८५. व्रतं भ्रष्टं सुखं नष्टम् । ४८६. शठाः शास्त्राण्यालभन्ते । किं शृगालेन मैत्री ? ४८८. शषसान् अविज्ञाय शास्त्राण्युपदिशति । को ४८९. शाखासु चक्रमणं शाखामृगाणां प्रकृतिः । ४९०. शाखिनः शाखा न भारः, पर्वतस्य प्रस्तरो न - भारः । - ४९१. शास्त्राण्यधीत्य शीर्षं कुट्टयति । ___४९२. शुण्डापाने तक्रमन्विष्यति । ४९३. शुभाशीर्वाद प्रार्थिते ‘मरणपर्यन्तं जीव' इत्यवदत् । ४९४. शुल्कं विना प्राप्तमिति शल्दं वेणोर्दशत्यसौ । म ran ४९५. शून्यारण्ये पिपीलिकैव गरुडाचार्यः । ४९६. शून्येनैव मुखेन चर्वन् किम् इक्षुदण्डं त्यजति ? 3 HOR ४९७. शिरः खल्वाटं, भूषणं पुण्डरीकम् । ४९८. शिलां ग्रहीतुं जालं विकिरति । - ४९९. शिवयोगी कालेन भवरोगी बभूव । - २८ Page #42 -------------------------------------------------------------------------- ________________ ५००. शिशुशून्ये गेहे जरतामेव बाललीलाः । 3 ५०१. शीर्षासनप्रयोगेऽपि निम्बकं न जम्बीरायते । . ५०२. शीर्षाणां वैपुल्यं कार्याणां शैथिल्यम् । र ५०३. शीर्षे विशीर्णे बुद्धिरागता । ५०४. शीलभ्रष्टैः शान्त्युपदेशः । र ५०५. शुनः पुण्यवृद्ध्या शशस्य पापवृद्धिः । ५०६. शृगालस्याऽपेक्षया लाङ्गुलमेव दीर्घतरम् ।। शृगालीकाकयोर्विवाहे संपन्ने शोभते मूर्बो मस्तिष्ककान्त्या । ५०८. शृङ्गवता शृगालेन उपद्रवोऽधिकः । शृङ्गाराय शिखायां शादः । ५१०. श्रद्धालूनां शुद्धा सिद्धिः । श्वश्रूरट्टालिकां कुट्टयति, सुषा पेटिकां घट्टयति । ५१२. संकटप्रसंगे स्वान्तधैर्य संजीविनी । - ५१३. संघटना वा संघट्टनं वा ? ३१४. संन्यस्तुमिच्छोः प्रतिमासं नवीनो विवाहः । संपन्ने नृत्यति दरिद्रो झम्पं विदधाति । ५१६. संपुञ्जिते सर्षपाशौ तिलमेकं पतितम् । ५१७. संशयालोः सुखं नास्ति । ५१८. सत्यां गप्पवात्यायां सत्यं नरके पतितम् । अब सत्वरं गत्वराश्चत्वरे भ्रंशन्ते । ५२०. सदा वक्रं सारमेयपुच्छम् । ) ५२१. समयः सु-मयः कर्तव्यः । २९ Page #43 -------------------------------------------------------------------------- ________________ ५२२. समानस्वान्ताः संमिलन्ति । समितिर्घटिता संमतिस्त्रुटिता । ५२४. समुदाये संग्रामः । र ५२५. समुद्रे तृषिते सलिलं कुत आनेयम् ? ५२६. समैरेव सौहार्दम् । सम्मार्जन्या साधूनां समाराधना । ___५२८. सर्पभ्रान्त्या किंचुलुकम् अमारयन् । 3 ५२९. सर्व सहमाना गर्ववद्भिर्गीर्यन्ते । ५३०. सर्वत्र गुणदर्शी सौगन्धिकं मरुस्थलेऽपि साक्षात्करोति । १ ५३१. सर्वत्र मृदेव सीसकदृष्टीनाम् । ५३२. सर्वाङ्गसुन्दरः, किन्तु विग्रः । र ५३३. सर्वे पाचकाः स्वपाकं नलपाकं ब्रुवते । _५३४. सर्वेश्वर: किं दर्वी गृह्णाति ? ५३५. सर्वेषां सार्वभौमत्वे का प्रजा ? ५३६. सर्वेषु सर्वाधिपेषु गर्वस्य साम्राज्यम् । सर्वैर्हसिते बधिरो घघति । (घघ हसने ।) ५३८. सलिलाकाङ्किणा सरोवरे मज्जयितव्यम् । E- ५३९. सहसा कृत्यं तरसा चित्यम् । (=मृतम्) ५४०. सामगानं चिकीर्षोः समागता हिक्का । ५४१. सामिज्ञानं संकटाय । ५४२. सारल्यमेव सौजन्यम् । ३० Page #44 -------------------------------------------------------------------------- ________________ की ५४३. सिंहस्य गर्जनं श्रुत्वा ग्रामसिंहः “भौ भौ' इति अभषत् । ५४४. सीसकं लिप्सोहीरकं लब्धम् । शामा ५४५. सुख्खे प्राप्ते सख्यं किमर्थम् ? । ५४६. सुग्रासे लब्धे सर्वेऽपि प्राणसखाः । र ५४७. सुत्रामपुरे सर्वदा वित्रासनं वैरिभिः । ५४८. सुभाषितं श्रुत्वा कुभावनां धरति । र ५४९. सुभाषितमेव सुजनस्याऽऽयुधम् । ५५०. सुमनसां सकलं समञ्जसम् । र ५५१. सुवर्णशराचे लोष्टं प्रादुः । ५५२. सुवर्णसूच्या नेत्रं विद्धम् । 3 ५५३. सुष्ठु प्रारम्भः सुमुहूर्तम् ।। ५५४. सुष्टु बुद्ध्या दुष्ठु करोति । किं सुभाषितं जानाति ? ५५६. सूकरैः रोहात् सारसैः कलहो वरम् । र ५५७. सूकरस्य पुरस्तात् सुखदुःख्ने प्रकटयन्ति । ५५८. सूचीनिवार्यं कण्टकमुत्पाटयितुं दर्वी ? ५५९. सेवकाः प्रत्यग्राः प्रसेवं प्रकर्षण घट्टयन्ति । ५६०. सैन्यवतामग्रे दैन्यमेव सद्बुद्धिः । 10 ५६१. सौभाग्यतल्पे सुषुप्सुः दौर्भाग्यकर्दमे लुठति । __ ५६२. स्खलित्वा पतितं चाटकैरं लगुडैः प्रहरन्ति । ५६३. स्थाने कोप: स्वर्गं सूजति । ५६४. स्थूलायां त्वचायां सरस्वती न लगति । ३१ Page #45 -------------------------------------------------------------------------- ________________ की ५६५. सेहो वा हृदयदाहो वा ? ५६६. स्फूर्जथोर्गर्जनं, क्षुद्रलोष्टार्जनम् । कृत्वा स्वर्णं चोरयति । ५६८. स्मितं सज्जनानां संपत् । 3 ५६९. स्मितेन सर्वे जीयन्ते ।। ५७०. स्मित्वा साधुः साधयति । र ५७१. स्वकीये ललाटे स्वयमेव लिख्यते । ५७२. स्वकीये साम्राज्ये स्वप्नान् सूज । * ५७३. स्वग्रामे वेतण्डः परग्रामे पिष्टपिण्डः । ५७४. स्वप्ने दशकण्ठं कबलीकृत्य जागरितो द्विरेफायर साष्टाङ्गं प्रणिपतति । सिर ५७५. स्वप्ने नन्दनं, जागरे क्रन्दनम् । __५७६. स्वयं कृतं सुवर्णं परकृतं कुवर्णम् । ५७७. स्वयम् अशिष्टाः परान् भ्रष्टान् भणन्ति । ५७८. स्वयं पश्यतोहराः परांश्चोरान् ब्रुवन्ति । MP ५७९. स्वयं मृदं खादति परमुखेषु च कर्दम लिम्पति । ५८०. स्वधुन्यां सलिलं नाऽस्ति । ५८१. स्वल्पा बुद्धिरनल्पं भाग्यम् । ५८२. स्वल्पारम्भे स्वर्णप्राप्तिः । र ५८३. हंसतूलिकातल्पे शयानानां स्वप्ने यवागूदृष्टा । ५८४. हननं घातकस्य धर्मः । का ५८५. हन्तुकेन हितोपदेशः । ३२ Page #46 -------------------------------------------------------------------------- ________________ १८९. हाटकार्थं नात ५८६. हयमारुह्य हिड्गु खादित्वा हाहाकारं चकार । ५८७. हरौ भिक्षा मरौ क्रियते । ५८८. हलं किंचुलुको हन्तुं यतते ! नाटकम् । ५९०. हाटकाशया कीटकं त्रोटयति । MAR ५९१. हालाहलं प्राप्तुं कोलाहलं कुर्वन्ति । ५९२. हास्यं समाप्त हुडुयुद्धमारब्धम् । हाहाहूहू इति द्राङ्कित्वा गन्धर्वगानं चिकीर्षति । ५९४. हिडिम्बाया उदरं हेमलेन [= सरटेन, कृकलासेन . वा] किं तृप्यति ? 3 ५९५. हितोपदेशो वा हतोपदेशो वा ? ५९६. हीरकं धृत्वा हेम्ने हाहाकारं करोति । ५९७. हीरहारेण कन्धायाः प्रचुरो भारः । ५९८. हृदयङ्गमं रूपं, हृदयन्तपा वाचः । र ५९९. हृदयशुद्धिं वदनं वदति । ६००. हृदयजय एव वास्तविको जयः । PRIHS, ६०१. हृदयस्य भाषां हृदयालुर्जानीते । र Page #47 -------------------------------------------------------------------------- ________________ एवं हेवाकवेगादतनुत जगतां नाथ एनां नवीनां वाणीं सद्वाक्यवेणीमभिनवरसिकश्रेणिवीणायमानाम् । क्याचित्कैः पौनरुक्त्यैरनुचितवचनैरप्रबुद्धप्रयोगैर्दूरोत्सार्येयमार्यैरपि ननु नुतये नूतनी नव्यधीनाम् ॥ प्रागैवैतादृशीं यद्यपि कृतिमकरोद् ज्ञः “कर् शेष"* नामा व्याहारैश्चित्तचोरैः सहृदयसुभगैः कन्नडोक्तीरनूद्य ।। एषोऽस्यां मे विशेषो विशदमनुकृता रीतिराभाणकानां प्रासप्राधान्यमान्या जडबुधमधुरा नव्यया यत् पदव्या ॥ विश्वं क्वाभाणकानां झटिति जडधियामप्यशेषस्फुटानां क्वापि न्यायक्रमोर्वी प्रखरतमतिज्ञेयगाम्भीर्यगुर्वी ? इत्थं मत्वादिमोत्थं स्तबकमकरवं प्रायशः प्रीणनार्थं धन्यानां नूतनाध्वन्यपरमविरलं पद्धतौ पण्डितानाम् ॥ अब प्रात्तां प्रयोक्तुं सुवचनसरणिं सम्यगन्यापदेशः पन्थाः सेव्यः सुधीभिः सकुतुक्मतिभि विभिः काव्यकारैः । एतावत्येव तावद् भवति कृतिरियं प्राय एतादृशीति भ्रान्तिः कार्या न चायैरनवधिरुदयो यद् वचोवैभवानाम् ॥ उद्यानेषु क्रीडता मर्कटेन क्रोधोद्वेगं नैति पद्मी कदाचित् । ध्वाक्षे रूक्षं ध्वाङ्क्षति, च्छिन्नपक्षो विक्षिप्तः सन् किं पिको रारटीति ? ॥ (★ दिवङ्गतेन विदुषा करुशेषाचार्येण एतादृशी काचिद् रचना “लौकिकगाथाचतुश्शती" नाम्नी रचिता महाराजसंस्कृतमहापाठशालापत्रिकायां प्रकाशितपूर्वा च । तत्र प्रासो नाऽऽसीत् । कन्नडाभाणकानाम् अनुवादमात्रा सा ।। ३४ Page #48 -------------------------------------------------------------------------- ________________ - - - योगशतकदोहनम् मुनिरत्नकीर्तिविजयः । भूमिका ___ योगशतकनामाऽयं ग्रन्थोऽपि सूरिपुरन्दरैः पूज्याचार्यचरणैः श्रीहरिभद्रसूरिभगवद्भिः * सन्दृब्धोऽस्ति । प्राकृतगाथानिबद्धोऽयं ग्रन्थः । ग्रन्थेऽस्मिन् योगस्य पैश्चयिक-व्यावहारिके- १) त तिप्रकारद्वयस्य स्वरूपं वर्णितमस्ति । निश्चययोगस्य कारणत्वाद् व्यवहारयोगोऽत्र विस्तरेण वर्णितोऽस्ति । योगमार्गस्याऽधिकारिणः के ? अर्थात् किंस्वरूपायां भूमिकायां प्रवर्तमानानां न जीवानां प्रवृत्तिोगत्वेन ख्याप्यते-इत्यस्य वर्णनमस्ति । पूर्णज्ञानिभिश्चैव ज्ञेयमिदमधिकारित्वं र वयमपि यथा जानीयाम तथा तत्तदधिकारिजीवानां लक्षणान्यप्यत्र दर्शितानि सन्ति । न तदनु च तेषां भूमिकाभेदं विज्ञाय किंरूप उपदेशस्तेभ्यो दातव्यो येन ते माग 5 स्वस्वभूमिकानुरूपं विकासं साधयेयुः ? इत्युपदेशाधिकारोऽप्यत्र विशदं वर्णितः । 2) पश्चाच्च प्राप्तेऽस्मिन् योगमार्गे कथं स्थैर्य सम्पादनीयम्, स्वयोग्यतां च सम्यक् परीक्ष्य र व कथं नवं गुणस्थानं प्रापणीयम्, कर्मवशाच्च रागादिदोषाणां समुद्भवे तेषां स्वरूपादिचिन्तनं । als कथं करणीयं येन तेभ्यो रक्षणं स्यात्,-इत्याद्यनेकविधो योगमार्गसहायको विधिरत्र - 6 निरूपितोऽस्ति कारुणिकेन श्रीमताऽऽचार्यवर्येण । अन्ते च योगस्य महाफलं संदर्य 30 15 ग्रन्थस्योपसंहारः कृतोऽस्ति ।। ON एतस्य ग्रन्थस्य पठनेनैतत्सिद्धं भवति यद्यदि मनुष्यो योग्यतां प्राप्नुयात् स्वकीयाया 4D भूमिकाया विकासं च साध्नुयात् तर्हि व्यवहारजीवने प्रवर्तमानः सन्नपि व्यावहारिकं fo योगित्वं प्राप्नोत्येव । तदेव च व्यावहारिकं योगित्वं तं क्रमेण निश्चययोगस्य र 20 शिखरमारोहयति। एवं च ग्रन्थोऽयमत्यन्तमुपादेयः पठनीयो मननीयश्च । विषयबोधसौकर्यार्थं FO ग्रन्थान्तर्गता गाथा व्युत्क्रमेणाऽप्यत्र दोहने प्रस्तुताः सन्ति, तज्ज्ञेयम् । ग्रन्थस्याऽस्याऽध्ययनेन सर्वेऽपि योगित्वं लभन्तामिति शुभाशयः । इति शम् । For Private Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ योगशतकदोहनम् णमिऊण जोगिणाहं, सुजोगसंदंसगं महावीरं । वोच्छामि जोगलेसं, जोगज्झयणाणुसारेणं ॥१॥ नत्वा योगिनाथं, सुयोगसंदर्शकं महावीरम् । [ '] अत्राऽऽचार्यवर्यः शिष्टसमयपरिपालनार्थं विघ्नोपशान्तये च मङ्गलादिकं कुर्वन् योगकथनं प्रतिजानीते - “ योगिनाथं सुयोगसंदर्शकं श्रीमहावीराख्यमन्तिमं तीर्थकृतं नत्वा सिद्धान्तप्रसिद्धं योगाध्ययनमनुसृत्य योगस्य लेशं वक्ष्ये" इति । अथ प्रतिज्ञानुसारेण योगं विवृणोति । इह योगो द्विविधो भवति - निश्चयतो व्यवहारतश्चेति । तत्र निश्चयतो नाम ? निच्छयओ इह जोगो, सण्णाणाईण तिन्ह संबंधो । मोक्खेण जोयणाओ, णिद्दिट्ठो जोगिनाहिं ॥२॥ सणाणं वत्थुगओ बोहो, सद्दंसणं तु तत्थ रुई । सच्चरणमणुट्ठाणं, विहिपडिहाणुगं तत्थ ॥३॥ निश्चयत इह योगः, सज्ज्ञानादीनां त्रयाणां सम्बन्धः । • मोक्षेण योजनाद्, निर्दिष्टो योगिनाथैः ||२|| सज्ज्ञानं वस्तुगतो, बोधः सद्दर्शनं तु तत्र रुचि: सच्चरणमनुष्ठानं, विधिप्रतिषेधानुगं तत्र ॥३॥ '] सज्ज्ञानादीनां - सम्यग्ज्ञानस्य सम्यग्दर्शनस्य सम्यक्चारित्रस्य चेत्येतेषां त्रयाणां यः सम्बन्धः-एकात्मन्यवस्थानं स निश्चयेन - आनन्तर्येणाऽक्षेपेण च मोक्षेण योजकत्वाद् निश्चयतो योग इति योगिनाथैः-तीर्थकृद्भिर्निर्दिष्टमस्ति । तत्र सज्ज्ञानादित्रयाणां मध्ये सम्यग्ज्ञानं नाम वस्तुगतो बोधः । अर्थाद् ज्ञेयं वस्त्वधिकृत्य यज्ज्ञानं प्रवर्तते तत् सम्यग्ज्ञानम् । ज्ञेयस्याऽवलम्बनं विना ज्ञानं न भवत्येव । यदि, सम्भवतीत्युच्यते तर्हि तन्मिथ्यैव न सम्यग् । यथा कस्यचिद् मृगतृष्णां ३६ Page #50 -------------------------------------------------------------------------- ________________ र दृष्ट्वा जलस्य बोधो जायते किन्तु वस्तुतस्तत्र जलाभावात् तज्ज्ञानं बोधो वा मिथ्या HD भवति तथा । सत्यसत्यपि च ज्ञेये यदि ज्ञानं भवतीति मन्यते तर्हि किं सत् ? किं . 30 वाऽसत् ? इत्यस्य निश्चय एव न सम्भवेत् । अतो वस्त्ववलम्बनेन जायमानो यो K4 यथार्थबोध: स एव सम्यग्ज्ञानमिति । अथ सम्यग्दर्शनं तु तत्र-वस्तुनि रुचिः श्रद्धा वा । यस्य वस्तुनो यत्स्वरूपमस्ति तस्य तत्स्वरूपेणैव स्वीकारो नाम रुचिः श्रद्धा वा । तत्त्वार्थधिगमसूत्रे श्रीउमास्वास्तिवाचकवर्येणाऽप्युक्तम् - "तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्" - तत्त्वभूतानामर्थानां यथार्थरूपेण 7 श्रद्धानं सम्यग्दर्शनमिति । एतत्सम्यग्दर्शनं ज्ञानादन्यदेव, अर्थाद् ज्ञानं-दर्शनं चेत्युभे अपि भिन्नौ गुणौ । यतो ज्ञानं ज्ञानावरणीयकर्मणां क्षयोपशमेन प्राप्यते तथा दर्शनं तु दर्शनमोहनीयकर्मणां HO क्षयोपशमेन । अत एव च कदाचिद् ज्ञानस्य सद्भावेऽपि श्रद्धा-दर्शनं न दृश्यते । FO कदाचिच्च ज्ञानाभावेऽपि श्रद्धाऽनुभूयते । सम्यक्चारित्रं हि तत्र-वस्तुनि पदार्थे वा विधिप्रतिषेधावनुस्रियमाणं यदनुष्ठानं NCS र तत् सम्यक्चारित्रम् । अर्थादागमग्रन्थेषु यान् यान् पदार्थानाश्रित्य यत् कर्तव्यत्वेन निर्दिष्टं । 2 स्यात् तस्य करणम्, यच्च निषिध्यत्वेनोक्तं स्यात् तस्याऽकरणमिति । एतदेव च ॐ विधिप्रतिषेधानुगमागमानुसार्यनुष्ठानमस्ति । । अत्र तत्रशब्देन 'पदार्थे' इत्यर्थः प्रतीयते । सम्यक्चारित्रत्वेन निर्दिष्टं विधिS7 प्रति-षेधानुगमनुष्ठानं तु महाव्रतरूपमस्ति, विधिप्रतिषेधादिकं च बाह्यपदार्थावलम्ब्यै- र वोपदिश्यते। यथा संसारवर्तिनो जीवाजीवादिपदार्थान् विषयीकृत्य हिंसा न करणीया, न तद्विषयकं च मृषाभाषणं न कर्तव्यम्, तेषां चौर्यं परिहर्तव्यम्, तदुपरि विकृतमनोवृत्तिना न भाव्यम्, तेषां परिग्रहो न कार्यः इत्यादि । एवं च महाव्रतानां बाह्यविषयत्वमेव ) वर्तते । अतोऽत्र 'तत्र' इत्यनेन वस्तुनि-वस्तुविषयं यदनुष्ठानं तत् सच्चरणमित्युक्तमस्ति । अथ किं नाम व्यवहारतो योगः ? ३७ For Private Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ ववहारओ उ एसो, विनेओ एयकारणाणं पि । जो संबंधो सो वि य, कारण कज्जोवयाराओ ॥४॥ व्यवहारतस्त्वेष विज्ञेय एतत्कारणानामपि । Lय: सम्बन्धः सोऽपि च, कारणे कार्योपचारात् ॥४॥ सज्ज्ञानादित्रयाणां कारणभूता वक्ष्यमाणस्वरूपा ये गुरुविनयादयस्तेषां यः सम्बन्धः सोऽपि कारणे कार्योपचारात् व्यवहारतश्च - फलं प्रति सामान्येन योग्यतामाश्रित्य च - म योगो विज्ञेयः । कारणे कार्योपचारो द्विधा भवति । तद्यथा-अनन्तरकारणे कार्योपचारः, परम्परकारणे पर हा कार्योपचारश्चेति । तत्राऽनन्तरकारणे कार्योपचारो यथा 'आयुर्घतम्' इति प्रयोगो व्यवहारे व श्रूयते । तत्र वस्तुतो घृतं नाऽऽयुः किन्तु घृतासेवनेनाऽऽयुर्बलादिकं वर्धतेऽत आयुष्कारणNG त्वाद् घृतमेवाऽऽयुरिति । परम्परकारणे कार्योपचारो यथा 'तन्दुलान् वर्षति पर्जन्यः' / इति । अत्र तन्दुलानां परम्परकारणमस्ति पर्जन्यः । यतस्तन्दुलस्याऽनन्तरकारणमस्ति वर्षा की 5 तस्याश्च कारणं पर्जन्य इति । अत्र च यो गुरुविनयादिरूपकारणे योगरूपकार्योपचारो ? निर्दिष्टः स परम्परकारणे कार्योपचाररूपोऽस्ति । यतो मोक्षस्याऽनन्तरकारणमस्ति । FC सज्ज्ञानादित्रयाणां सम्बन्धस्तत्कारणभूतोऽस्ति गुरुविनयादीनां सम्बन्ध इति । कानि पुनस्तानि गुरुविनयादीनि ? गुरुविणओ सुस्सूसाइया य, विहिणा उ धम्मसत्थेसु । तह चेवाणुट्ठाणं, विहिपडिसेहेसु जहासति ॥५॥ | गुरुविनयः शुश्रूषादयश्च विधिना तु धर्मशास्त्रेषु ।। L तथा चैवाऽनुष्ठानं विधिप्रतिषेधयोर्यथाशक्ति ॥५॥ (१) गुरुविनयः - गुरुजनादिषु बहुमानः, तेषां पादधावनादिरूपेण सेवा, No 5 आहारौषधादिदानेन परिचर्या, तेषां कार्येषु सहायः इत्यादि । अर्थात् गुरुजनानां शारीरिकं । मानसिकं वा स्वास्थ्यं यथा स्यात्तथा सदा प्रयत्नकरणं नाम गुरुविनयः । (२) धर्मशास्त्रेषु विधिना शुश्रषादयः - शुश्रषादयो नाम शुश्रूषा-श्रवण - ३८ Page #52 -------------------------------------------------------------------------- ________________ विज्ञान-धारणोहापोह - तत्त्वाभिनिवेशाः इत्येतेषां धर्मशास्त्रमधिकृत्याऽऽसेवनम् । एतेषामासेवनमपि विधिना - स्थान - शरीर-मनो- वसनादीनां शुद्धिपूर्वकं करणीयम् । यतो विधिनाऽऽसेवितो योग एव योगत्वेन निर्दिश्यते, नाऽन्यथा । अविधिना सेवितस्तु कदाचित् प्रत्यवायस्य कारणमपि स्यात् । अविधिना कृतादकृतमेव वरम् । यथा कोऽपि रुग्णो व्याध्यपनयनार्थं सच्चिकित्सामेवाऽऽदरति । तदभावेऽसच्चिकित्सां नाऽङ्गीकरोत्येवेति । (३) विधिप्रतिषेधयोर्यथाशक्त्यनुष्ठानम् - शास्त्रेषु ये ये भावा विधेयत्वेन निर्दिष्टाः सन्ति तेषु प्रवर्तनम्, ये च निषिद्ध्यत्वेनोपदिष्टास्तेभ्यो निवर्तनम् । एतदपि यथाशक्ति - शक्तिमनतिक्रम्य, अर्थात् शक्तितोऽधिकमपि न, शक्तितश्च न्यूनमपि न - एवंरूपेण करणीयम् । एतानि च व्यवहारनयेन योग इत्युच्यते । अथैतेषां गुरुविनयादीनां योगव्यपदेशकारणभूतां निश्चययोगाङ्गतां दर्शयति तो च्चिय कालेणं णियमा सिद्धी पगिट्ठरूवाणं । सण्णाणाईण तहा जाय अणुबंधभावेण ||६|| मग्गेणं गच्छंतो सम्मं सत्तीए इट्ठपुरपहिओ । जह तह गुरुविणयाईसु पयट्टओ एत्थ जोगि त्ति ||७|| अत एव कालेन नियमात् सिद्धिः प्रकृष्टरूपाणाम् । - सज्ज्ञानादीनां तथा जायतेऽनुबन्धभावेन ||६|| मार्गेण गच्छन् सम्यक् शक्त्येष्टपुरपथिकः । यथा तथा गुरुविनयादिषु प्रवृत्तोऽत्र योगीति ॥७॥ अत एव - गुरुविनयादेरेव, अर्थाद् गुरुविनयादीनामासेवनेन कालक्रमेण निश्चययोगरूपेण निर्दिष्टानां प्रकृष्टरूपाणां कर्मणां क्षयेण प्राप्यमाणानां सम्यग्ज्ञानादीनां नियमेनाऽनुबन्धभावेन च सिद्धिर्भवति । अर्थादौचित्यपूर्वकं भगवदाज्ञामनुसृत्य चाssसेवमानो योगः सततं वृद्धिं प्राप्नोति । एतस्माच्चाऽऽज्ञाविशुद्धाद् गुरुविनयादेरनुष्ठानादुत्तरोत्तरमन्यान्यभवेषु सत्संस्काराणामनुबन्धः प्रवर्तते । ततश्च नियमेन निश्चययोगस्य प्राप्तिर्भवति । ३९ Page #53 -------------------------------------------------------------------------- ________________ यथा स्वशक्त्या सम्यक्प्रकारेण च मार्गेण गच्छन् जन इष्टपुरपथिक इत्युच्यते। त - यतस्तथा प्रवर्तमानः स निश्चयेन स्वाभिलषितं स्थलं प्राप्नोत्येव । तथा हि गुरुविनयादिरूपे का व्यवहारयोगे यथाविधि प्रवर्तमानः पुरुषोऽप्यत्र-योगप्रक्रमे योगित्वेन निर्दिश्यते । यतः अब F) सोऽपि नियमेन निश्चययोगरूपं सज्ज्ञानादिकं प्राप्स्यत्येव इति ।। किं यः कोऽप्यत्र प्रवर्तमानो योगसिद्धिं लभत उत कश्चिद् विशिष्टो जनः ? | इत्यत्राऽऽह अहिगारिणो उवाएण, होइ सिद्धी समत्थवत्थुम्मि । फलपगरिसभावाओ, विसेसओ जोगमग्गम्मि ॥८॥ [ अधिकारिण उपायेन भवति सिद्धिः समस्तवस्तुनि ।। Lफलप्रकर्षभावाद् विशेषतो योगमार्गे ॥८॥ यत्किमपि कार्यं स्यात् तत्र प्रवर्तमानो जनोऽधिकारी-योग्यः स्यादिति व्यवहारेDi ऽप्यनिवार्यमस्ति । यो योग्यो भवति स एव तत्कार्यसाधकोपायान् सम्यगभिजानाति । N यथा हि घटनिर्माणकार्ये कुम्भकार एवाऽधिकारी न तन्तुवायः, पटनिर्मितौ तु तन्तुवाय 20 एव योग्यो न तु कुम्भकारः । एवं सर्वत्राऽपि कार्यजाते प्रवर्तमानो योग्य एव सिद्धि के 7 प्राप्नोति । अत्र योगमार्गे तु, तस्य मोक्षसाधकत्वाद् विशेषेणाऽधिकारित्वमपेक्ष्यते । योग्य 1 एव जीवो योगमार्गं सम्यगवबुध्यते श्रद्धया च तत्र प्रवर्तमानः सिद्धि चाऽपि प्राप्नोति AS ॐ इति । FD अथ के ते योगमार्गस्याऽधिकारिणो जनाः ? तथा किं च तत्राऽधिकारित्वेE ऽनधिकारित्वे च कारणम् ? इत्युपदर्शयति अहिगारी पुण एत्थं विण्णेओ अपुणबन्धगाइ त्ति । तह तह णियत्तपगई अहिगारो णेगभेओ त्ति ॥९॥ अणियत्ते पुण तीए एगंतेणेव हंदि अहिगारे । तप्परतंतो भवरागओ दढं अणहिगारी त्ति ॥१०॥ अधिकारी पुनरत्र विज्ञेयोऽपुनर्बन्धकादिरिति । तथा तथा निवृत्तप्रकृतेरधिकारोऽनेकभेद इति ॥९॥ Page #54 -------------------------------------------------------------------------- ________________ अनिवृत्ते पुनस्तस्या एकान्तेनैव हन्ताऽधिकारे ।। तत्परतन्त्रो भवरागाद् दृढमनधिकारीति ॥१०॥ अत्र योगमार्गेऽधिकारिणोऽपुनर्बन्धकादयो जीवाः सन्ति । अत्र 'आदि'शब्दात् 5 Fol सम्यग्दृष्टिः, देशविरतः, सर्वविरतश्चेत्येते जीवा अप्यधिकारिणो ज्ञेयाः । यथा यथा प्रकृतेरधिकारो निवृत्तो भवति तथा तथा योगमार्गस्याऽधिकारित्वं । विशेषेण जीवाः प्राप्नुवन्ति । अत्र प्रकृतिशब्दात् कर्मप्रकृतिज्ञेया । यथा यथा जीवस्य FO मोह उपशान्तो भवति-क्षीणो वा भवति तथा तथा कर्मप्रकृतीनां ग्रहणस्य ताभिश्च सह द्र सम्बन्धस्य जीवगतयोग्यताऽपगच्छति । अर्थात् मोहप्राबल्यात् कर्मप्रकृतिषु विशिष्टं विचित्रं वा फलं दातुं यत्सामर्थ्यमस्ति तन्मन्दं भवति । एतादृशश्च जीवो 'निवृत्तप्रकृत्याधिकार' M) इत्युच्यते । एते निवृत्तप्रकृत्यधिकारजीवा अनेकभेदा भवन्ति । यतः प्रकृतेरधिकारस्य सर निवृत्तिभिन्नभिन्नजीवानामपेक्षया भिन्ना भिन्ना भवति । अर्थादपुनर्बन्धकजीवेषु याऽधिकारस्य व निवृत्तिर्वर्तते ततो विशिष्टा सम्यग्दृष्टिजीवेषु वर्तते, ततोऽपि विशिष्टा देशविरतजीवेषु म ततश्च सर्वविरतजीवेष्विति । यावन्नैष प्रकृतेरधिकारः सर्वथा निवृत्तो भवति तावज्जीवोऽत्र योगमार्गेऽनधिकार्येव C भवति । कर्मप्रकृतेः पारतन्त्र्याज्जीवेषु संसारं प्रति दृढोऽनुरागः प्रवर्तते । अतश्च स o सर्वथा योगमार्गस्याऽनधिकार्येवेति । निवृत्तप्रकृत्यधिकारित्वं विशदयतितप्पोग्गला तग्गहणसहावावगमओ य एयं ति । इय दट्ठव्वं इहरा तह बंधाई न जुज्जंति ॥११॥ तित्पुद्गलानां तद्ग्रहणस्वभावापगमतश्चैतदिति । 7 Lएवं द्रष्टव्यमितरथा तथा बन्धादये न युज्यन्ते ॥११॥ जगदवस्थितानां पदार्थानां भिन्नभिन्नः स्वकीयः कश्चित् स्वभावविशेषो भवति । स्वभावानुगुणमेव च कार्यमपि भवत्येव । अत्र यथा जीवस्य कश्चित् स्वभावोऽस्ति तथा पुद्गलपरमाणूनामपि स्वभावोऽस्त्येव । कर्माऽपि च परमाणुरूपमेव विद्यते । तत्र तेषु | a परमाणुषु जीवग्रहणस्वभावो वर्तते तथा जीवे तु तद्ग्राहकस्वभावोऽस्ति । अथ यदा येन के ४१ For Private Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ A येन स्वरूपेण यावान् यावांश्च कर्मप्रकृतेः परमाणूनां तद्ग्रहणस्वभावोऽपगच्छति तथा च । जीवस्य तद्ग्राहकस्वभावोऽपगच्छति तदा तथास्वरूपेण तावच्च निवृत्तप्रकृत्यधिकारित्वं . 3 भवति । अथ यदि कर्म-जीवादिपदार्थानां ग्राह्यग्राहकभावादिस्वभावो नाऽभ्युपगम्यते । तदाऽऽत्मना सह कर्मादीनां बन्धादिकं न युज्यते । बन्धादीनामभावे च मोक्षोऽपि सुतरां न युज्येतैव । अतो यथा मृत्-तन्त्वादीनां घट-पटादिपरिणामस्वभावत्वाद् मृदो घटस्तन्तुभ्यश्च KO पट उत्पद्यते तथा कर्मपरमाणूनां ग्राह्यस्वभावत्वाद् जीवस्य च ग्राहकस्वभावत्वाद् बन्धादिकं जायते । कर्मपरमाणूनां तथास्वभावभेदेनैव ज्ञानावरण-दर्शनावरणादिभिन्न-भिन्नस्वरूपेण परिणमनमपि भवति । एतदेव च प्रकृतेरधिकारित्वमुच्यते । एतत्स्वभावापगमत एव च G) निवृत्तप्रकृत्यधिकारित्वं जायते इति । किञ्चएयं पुण निच्छयओ अइसयणाणी वियाणए णवरं । इयरो वि य लिंगेहिं उवउत्तो तेण भणिएहि ॥१२॥ [एतत्पुनर्निश्चयतोऽतिशयज्ञानी विजानाति नवरम् ।। L इतरोऽपि च लिङ्गैरुपयुक्तस्तेन भणितैः ॥१२॥ । निश्चयत एतदधिकारित्वं त्वतिशयज्ञानिभिः-केवलज्ञानिभिरेव ज्ञातुं शक्यम् । यद्येवं तर्हि सामान्यज्ञानवतां जनानां कृते तदभिज्ञानं कथं शक्यम् ? अत्रोच्यते( अतिशयज्ञानिभिस्तादृशानामपुनर्बन्धकादीनामुपलक्षणार्थं कानिचन लिङ्गानि निर्दिष्टानि सन्ति । ) 7 तत्र लिङ्गेषूपयुक्तः सन् सामान्यज्ञानवानपि जनः परस्मिन्नेतदधिकारित्वमस्ति नवेति ज्ञातुं पर शक्नोति । तत्र प्रथमं तावदपुनर्बन्धकजीवानां लिङ्गानि दर्शयतिपावं न तिव्वभावा कुणइ ण बहुमण्णई भवं घोरं । उचियट्ठिइं च सेवइ सव्वत्थ वि अपुणबंधो त्ति ॥१३॥ | पापं न तीव्रभावात् करोति न बहुमन्यते भवं घोरम् । 7 L उचितस्थितिं च सेवते सर्वत्राऽप्यपुनर्बन्धक इति ॥१३।। Page #56 -------------------------------------------------------------------------- ________________ - - - अपुनर्बन्धकजीवानामभिज्ञाने त्रीणि लिङ्गानि सन्ति । तत्र (१) तीव्रभावेन पापाकरणम् - प्रायः संसारवर्तिनो जीवा: सावद्यारम्भप्रवृत्ता - एव भवन्ति । तत्राऽसदनुष्ठानान्यपि कदाचित् कर्तव्यानि भवन्ति-कदाचिदिच्छया - १५) कदाचिच्चाऽनिच्छया । प्रायशो जनाः स्वाभिलषितं साधयितुमनुष्ठानेषु प्रवर्तने सदसद्विचारणं 51 न कुर्वन्ति । किन्तु कतिचिदात्मानः स्वभावत एव निर्मला भवन्ति । ते च सतत- G मसदनुष्ठानेभ्यः स्वं रक्षितुं प्रयत्नरता भवन्ति । यदा कदाचिच्च तत्र प्रवर्तनीयं स्यात् र FA तथाऽपि न ते तीव्रभावेन प्रवर्तन्ते किन्तु खेदमेव तत्राऽनुभवन्ति यथा - 'मम कर्मणां ) दोषेणैव मयाऽत्र प्रवर्तनीयं भवत्यद्य' इति ।। (२) संसारं न बहमन्यते - संसारं प्रति हृदये प्रीतिं स नाऽऽवहति । समग्राऽपि संसारस्थितिः कर्मपरिणामवशवर्तिन्यस्ति, अतो न कुत्राऽपि स रागेण वा C द्वेषेण वा वर्तते । संसारबहुमानकारणान्येवैते रागद्वेषादयः परिणामाः । आत्महानिकरमेतद) र रागद्वेषादिकं ज्ञात्वा संसारं प्रत्यौदासीन्येनैव स वर्तेत न बहुमानेनेति । (३) उचितस्थितिसेवनम् - उचिते एव सर्वत्र प्रवर्तेत, नाऽनुचिते । स्वकुलस्य, स्वमातापित्रोः, स्वधर्मस्य, स्वगुरुजनानां वा कुत्राऽपि निन्दनं न स्यात् तथैव सर्वत्र - व्यवहरेत् । लोकविरुद्धं धर्मविरुद्धं चाऽपि स त्यजेत् । इत्येतैर्लक्षणैर्युक्तो यो भवति सोऽपुनर्बन्धक इत्युच्यते । अथ सम्यग्दृष्टीनां लिङ्गानि निदर्शयतिसुस्सूस धम्मराओ गुरुदेवाणं जहासमाहीए । वेयावच्चे णियमो सम्मद्दिट्ठिस्स लिंगाइं ॥१४॥ - शुश्रूषा धर्मरागो गुरुदेवानां यथासमाधिना । 1 L वैयावृत्ये नियमः सम्यग्दृष्टेलिङ्गानि ॥१४॥ । (१) शुश्रूषा-श्रोतुमिच्छा शुश्रूषा । धर्मशास्त्राणां श्रवणमत्राऽभिप्रेतमस्ति । म 5 शास्त्रश्रवणेनैव सदसद्विवेको जागर्ति । स एव च सम्यग्दर्शनं खलु ! शास्त्रश्रवणे तस्य 57 शुश्रूषा कीदृशी प्रबला भवति तदर्थं ग्रन्थेषुक्तिरस्ति यत् ४३ Page #57 -------------------------------------------------------------------------- ________________ - - कान्तकान्तासमेतस्य, दिव्यगेय श्रुतौ यथा । यूनो भवति शुश्रूषा, तथाऽस्यां तत्त्वगोचरा ॥ (योगदृष्टिसमुच्चयग्रन्थे ५२) (२) धर्मरागः- सम्यग्दृष्टिजीवस्य धर्मं प्रत्यत्यन्तमभिष्वङ्गः पक्षपातो वा 2 भवति । कदाचित् समयादिसामग्रीवैकल्येन धर्मकार्येषु प्रवर्तितुं न शक्नुयात् तथापि यत्र ) HD तस्य हार्दिकी प्रीतिर्वर्तत एव । यथा - 'कश्चिद् ब्राह्मणोऽटवीमुल्लिलिचिषुर्गृहानिर्गतः । अटव्या मध्यभागं प्राप्तः ( स बुभुक्षितो जातः । मार्गस्त्वितोऽपि दीर्घ आसीत् । किमप्यगृहीत्वैव स गृहान्निर्गत 7 आसीदतश्चिन्तितोऽभूत् । अतः स्खलन् सन् कथमपि पदमग्रे धत्ते । किन्तु किञ्चित्कालेनैव स चलितुमशक्त उपविष्टः । तावद् दैवयोगात् कश्चिज्जनस्तस्माद् मार्गानिर्गतः । स तु न 1) सपाथेयो गृहानिर्गत आसीत् । सोऽपि बुभुक्षितः सन्नेकत्रोपविश्याऽऽनीतं पाथेयमुद्घाट्य र भोजनार्थं सज्जोऽभवत् । स च ब्राह्मणस्तं पश्यति स्म । तत्र पाथेये घृतपूरं दृष्ट्वा तस्य जिह्वा लालाक्लिन्ना जाता । मनसि चिन्तयति यद् 'अहं कदैतादृशं घृतपूरं लभेयं' इति । तावत् तस्य पथिकस्य दृष्टिरस्योपरि पतिता । अस्य स्थितिमुपलक्ष्य तेनाऽसौ निमन्त्रितः । 27 ब्राह्मणोऽपि प्रतीक्षमाण इवैव विना प्रतिवचनमुत्थायाऽऽगतः । तत्सार्द्धमेव च भोजनं 6 कृतवान्' । एवं दृष्टान्तं प्रदर्श्य शास्त्रकारा वदन्ति यत्-यादृशोऽनुरागो घृतपूरविषये र 2. ब्राह्मणस्याऽऽसीत् ततोऽप्यधिको रागः सम्यग्दृष्टेर्धर्मविषये भवतीति । (३) वैयावृत्ये नियमः - मोक्षमार्गस्थापकानां जिनेश्वराणां, तेषां चैत्यानां तथा o मोक्षमार्गोपदेशकानां गुरूणां बहुमानपूर्वकं सेवादिकार्यं नाम वैयावृत्यम् । तदपि ORNO यथासमाधिना-स्वस्य परस्य च व्यग्रतोद्वेगः पीडा वा यथा न स्यात्तथा-करणीयम् । - सम्यग्दृष्टिश्च नियमेनाऽस्मिन् प्रवर्तते । । यथा कश्चिद् गुणज्ञः श्राद्धजनो दैवात् चिन्तामणिरत्नं लभेत । पश्चाच्च मनोऽ- 0 र भिलषितदायकस्य तस्य रत्नस्य यथाविधि पूजादिविधानेन नियमेन यादृशी सेवां कुर्यात् । ततोऽप्यधिकनियमदाढ्र्येन सम्यग्दृष्टिदेवगुरूणां वैयावृत्यं करोतीति । एतानि सन्ति लक्षणानि सम्यग्दृष्टेः । अनादिकालीना रागद्वेषाणां ग्रन्थिर्यदा ) Bा जीवेन भिद्यते तदा तस्य तत्त्वे तीव्रा रुचिरुत्पद्यते । ततश्चैतादृशानि लक्षणानि प्रादुर्भवन्ति, पर ४४ Page #58 -------------------------------------------------------------------------- ________________ यान्याधारीकृत्य जीवः सम्यग्दृष्टिर्नवेति ज्ञातुं शक्यते । अथ च चारित्रवतां लिङ्गानि विवृणोतिमग्गणुसारी सद्धो पण्णवणिज्जो कियापरो चेव । गुणरागी सक्कारंभसंगओ तह य चारिती ॥ १५॥ मार्गानुसारी श्राद्धः प्रज्ञापनीयः क्रियापरश्चैव । [ (१) मार्गानुसारी - चारित्रमोहनीयकर्मणः क्षयोपशमात् तीर्थकृन्निर्दिष्टं देशविरतिरूपं सर्वविरतिरूपं वा चारित्रमार्गं सोऽनुसरेत् । एवं मार्गमनुसरतां तत्त्वप्राप्तिरवश्यंभावेन भवति । यथा कान्तारगतः कश्चिदन्धपुरुषो यदि कस्यचित् सत्पुरुषस्य योगं प्राप्नुयात् तर्हि स निश्चयेनैव स्वाभीप्सितं स्थलं प्राप्नोति । तथा संसारेऽस्मिन्नज्ञानमोहादिभावैरन्धत्वं प्राप्तानां भ्रमतामात्मनामपि चारित्रमार्गस्य योगेन निश्चयेनैव तत्त्वावाप्तिर्भवति । (२) श्राद्धः एवं च चारित्रमार्गानुसरणेन प्राप्तं तत्त्वं प्रति तस्य दृढा श्रद्धा प्रवर्तते । यतो मार्गानुसारित्वेन श्रद्धायाः प्रत्यनीकरूपाणां क्लेशानामतिशयेन ह्रासस्तस्य जायते । - (३) प्रज्ञापनीयः - बोधस्य योग्यता यस्मिन् विद्यते स प्रज्ञापनीय इत्युच्यते । श्राद्ध एवैतादृशः प्रज्ञापनीयो भवति यतः स गुर्वाद्याप्तजनान् प्रति समर्पितो भवति । (४) क्रियापरः चारित्रवांश्च प्रज्ञापनीयः सन् सर्वस्वोचितक्रियासु सदैव तत्परो भवति । आलस्य - प्रमाद - विकथादिदोषान् सयत्नं सन्त्यज्य सदा सदनुष्ठानेषु प्रवृत्तो भवति । - (५) गुणरागी - एष चारित्रमार्गे गुणप्राप्तेर्गुणवृद्धेर्वा मार्गोऽस्ति । एतादृशेन च मार्गेण गच्छतां दृष्टिर्गुणरक्तैव भवति । गुणानामनुरागस्तस्य हृदये सततं प्रवहति । अत्र तत्र सर्वत्र स गुणानेव पश्यति । ( ६ ) शक्यारम्भसङ्गतः यस्मिन् कार्ये स्वशक्तिर्विद्यते तत्रैव कार्ये स - ४५ Page #59 -------------------------------------------------------------------------- ________________ प्रवर्तेत न कदाप्यहङ्कारावेगादशक्यानुष्ठाने प्रवर्तेत । स्वशक्तेर्मर्यादामवगम्यैव किमप्यनुष्ठानमारभेतेति । एते चारित्रवन्तोऽपि जीवाः सामायिकशुद्धिभेदतः - समताशुद्धिभेदादनेकप्रकारा भवन्ति । एषा सामायिकशुद्धिर्वीतरागाणामाज्ञामनुसृत्य जायते । चारित्रमोहनीयकर्मक्षयोपशमवैचित्र्यादेषाऽऽज्ञाऽपि भिन्न-भिन्नजीवेषु भिन्नभिन्नरूपेण परिणमति । कश्चिद् देशविरतिचारित्रमङ्गीकुरुते । तत्राऽपि सामायिकादीनामेकादशानां प्रतिमानां मध्यादेकद्वित्र्यादिप्रतिमाप्रतिपद्यमानका जीवा भवन्ति । कश्चिच्च सर्वविरतिं प्रतिपद्यते । तत्राऽपि सामायिकचारित्र- छेदोपस्थाप्यचारित्रादिभेदेन चारित्रवतां भेदोऽस्ति । सर्वभेदानामन्ते क्षायिकवीतरागोऽस्ति । एसो सामाइयसुद्धिभेयओ गहा मुणेयव्वो । आणापरिणइभेया अंते जा वीयरागो त्ति ||१६|| एष सामायिकशुद्धिभेदतोऽनेकधा मन्तव्यः । . आज्ञापरिणतिभेदादन्ते यावद् वीतराग इति ||१६|| एतेषामपुनर्बन्धकानामनुष्ठानानां योगत्वं दर्शयति एएसि णियणियभूमियाए उचियं जमेत्थऽणुट्ठाणं । आणामयसंयुत्तं तं सव्वं चेव योगो त्ति ॥ २१ ॥ '] एतेषां निजनिजभूमिकाया उचितं यदत्राऽनुष्ठानम् - आज्ञामृतसंयुक्तं तत् सर्वमेव योग इति ॥ २१ ॥ आप्तसम्मतमेवाऽनुष्ठानं योगत्वमाप्नोति । अतश्चाऽपुनर्बन्धकादिजीवाः स्वस्वभूमिकानुरूपमाप्तस्य जिनेश्वरस्याऽऽज्ञामृतेन युक्तं यत्किमप्यनुष्ठानजातं कुर्वन्ति तत्सर्वमपि योग इत्युच्यते । यद्यपि मिथ्यात्वाख्यप्रथमगुणस्थानकस्थितानामपुनर्बन्धकजीवानां तीर्थकराद्यातपुरुषाणां परिचयाभावादाज्ञायोगो नास्ति तथापि तीव्रभावेन पापाकरणादिरूपा या परिणतिरस्ति सैवाऽऽज्ञामृतसंयोग उच्यते । यतो बाह्याज्ञायोगोऽप्येतादृश्या: परिणतेरेव कारणं भवति । ४६ Page #60 -------------------------------------------------------------------------- ________________ - एतदेव स्पष्टयन्नाह तल्लक्खणयोगाओ उ चित्तवित्तीणिरोहओ चेव । तह कुसलपवित्तीए मोक्खेण उ जोयणाओ त्ति ॥२२॥ एएसि पि य पायं बज्झाणायोगओ उ उचियम्मि । अणुठाणम्मि पवित्ती जायइ तह सुपरिसुद्ध त्ति ॥२३।। गुरुणा लिंगेहिं तओ, एऐसिं भूमिगं मुणेऊण । उवएसो दायव्वो जहोचियं ओसहाहरणा ॥२४॥ तल्लक्षणयोगादेव चित्तवृत्तिनिरोधतश्चैव । Lतथा कुशलप्रवृत्त्या मोक्षेण तु योजनादिति ॥२२॥ एतेषामपि च प्रायो बाह्याज्ञायोगत एवोचिते । अनुष्ठाने प्रवृत्ति-र्जायते तथा सुपरिशुद्धेति ॥२३।। गुरुणा लिङ्गैस्तत एतेषां भूमिकां ज्ञात्वा । 7 उपदेशो दातव्यो यथोचितमौषधोदाहरणात् ॥२४॥ भिन्नभिन्नप्रकारैर्योगलक्षणानि निर्दिष्टानि शास्त्रेषु । तानि सर्वाण्यापि लक्षणानिस 'मोक्षेण योजनाद् योगः' इति लक्षणे पर्यवस्यन्ति । अतश्चैतानि लक्षणानि यत्र सङ्घटन्ते । र तदनुष्ठानं योग उच्यते । अत्राऽपुनर्बन्धकादीनामनुष्ठानेषु "सर्वत्रोचितानुष्ठानं योगः" इत्येतल्लक्षणमुपपद्यते। एतेषां च जीवानां स्वस्वावस्थानुगुणश्चित्तवृत्तेनिरोधोऽपि भवत्येव । अतोः “योगश्चित्त2 वृत्तिनिरोधः' इत्येतल्लक्षणमपि सार्थकतां भजति । एवं चैते जीवास्तथाविधपरिणतिवशात् । कुशलानुष्ठानेष्वेव प्रवर्तन्ते । एवं चाऽत्र चित्तवृत्तिनिरोध-कुशलप्रवृत्त्यादिरूपेण योगलक्षणानांत का सङ्घटनादेतेषामनुष्ठानानि मोक्षेण योजकत्वाद् योगत्वेन निर्दिश्यत इति । किञ्च, अपुनर्बन्धकादीनामेतेषां जीवानां या तीव्रभावेन पापाकरणाद्यनुष्ठाने प्रवृत्तिर्जायते सा च प्रायशो बाह्याज्ञायोगात्-तीर्थकृद्वचनोपदेशादेव जायते न त्वनाभोगेनA अज्ञाततयेति । तथा तेषां चित्ते भगवन्तं प्रति दृढबहुमानं वर्ततेऽतस्तान्यनुष्ठानान्यत्यन्तं विशुद्धानि भवन्ति । ४७ Page #61 -------------------------------------------------------------------------- ________________ अतश्चोपरिनिर्दिष्टेलिङ्गैरेतादृशान् जीवानुपलक्ष्य तथा तेषां भूमिकामपि चाऽभिज्ञाय l यस्य यादृश उचितस्तादृश उपदेशो गुरुभिर्दातव्यः । यथा कस्यचिद् व्याधेः प्रमाणं कियदस्ति, ग्रीष्मशीतादिभ्यः कः कालः प्रवर्तते, H), व्याधितो जनः पुरुषोऽस्ति स्त्रीर्वा, तस्य प्रकृतिः कीदृशी ? इत्यादिकं सर्वमवबुध्यैव - चिकित्सकस्तदनुरूपमौषधाधुपचारं करोति । अन्यथा परीक्षणं विनैव यद्यौषधादिकं दद्यात्तहि । - तद् विपरिणमेदपि । तथैव जीवानां बालबुधादिभूमिकां ज्ञात्वा तदनुरूप एवोपदेशो FO दातव्यः, येन तेषामुन्नतिः स्यात् । तथाहि (१) अपुनर्बन्धकजीवानां तु लोकधर्मविषयक उपदेशो दातव्यः । यथा परपीडा या वर्जनीया, सत्यं वक्तव्यम्, गुरूपूजा देवपूजा अतिथिपूजा च कर्तव्या, दीनतपस्व्यादिभ्यो न a. देयमित्यादि । यथाऽरण्ये पथभ्रष्टः कश्चिद् मध्यवर्तिनी वर्तनीमनुसरन् मूलमार्ग प्राप्नोति तथैवाऽयं FO लोकधर्ममनुसरन् कालक्रमेण सम्यग्दर्शनादिरूपं मूलमार्गमवतरति । पढमस्स लोगधम्मे परपीडावज्जणाइ ओहेणं । गुरुदेवातिहिपूयाइ दीणदाणाइ अहिगिच्च ॥२५॥ एवं चिअ अवयारो जायइ मग्गम्मि हंदि एयस्स । रण्णे पहपब्भट्ठोऽवट्टाए वट्टमोयरइ ॥२६॥ rप्रथमस्य लोकधर्मे परपीडावर्जनाद्योघेन । गुरुदेवातिथिपूजादि दीनदानाद्यधिकृत्य ॥२५॥ एवमेवाऽवतारो जायते मार्गे हन्ततस्य ।। अरण्ये पथभ्रष्टोऽवर्तन्या वर्तनीमवतरति ॥२६॥ । (२) सम्यग्दृष्टिजीवानां लोकोत्तरधर्मविषयकः परिशुद्धाज्ञानुसारेणाऽणुव्रताद्यधिकृत्योपदेशो देयः । यतः सोऽणुव्रतादिग्रहणरूपश्रावकधर्मस्य निकटवर्त्यस्ति, तत्रैव च तस्य पक्षपातोऽपि वर्तते । तथा शीघ्रमेव क्रियारूपेण तस्य परिणमनमपि भवति, 13 सम्यक् सूत्रानुसारेण स परिपालयत्यपि । ४८ Page #62 -------------------------------------------------------------------------- ________________ बीयस्स उ लोगुत्तरधम्मम्मि अणुव्वयाइ अहिगिच्च । परिसुद्धाणायोगा तस्स तहाभावमासज्ज ॥२७॥ तस्सासण्णत्तणओ तम्मि दढं पक्खवायजोगाओ । सिग्धं परिणामाओ सम्म परिपालणाओ य ॥२८॥ | द्वितीयस्य पुनर्लोकोत्तरधर्मे ऽणुव्रताद्यधिकृत्य । L परिशुद्धाज्ञायोगात् तस्य तथाभावमासाद्य ॥२७॥ तस्याऽऽसन्नत्वात् तस्मिन् दृढं पक्षपातयोगात् ।। शीघ्रं परिणामात् सम्यक् परिपालनातश्च ।।२८।। (३) अथ चारित्रवतां, तत्राऽपि च देशविरतिचारित्रिणां-श्रावकाणां तु भूमिकाभेदंड मनसि निधाय सामायिकादिविषयको नानाप्रकारक उत्तरोत्तरं च सुयोगसाधको भावसार 5 उपदेशो नयनैपुण्येन दातव्यः । यथा-सद्धर्मस्योपरोधो यथा न स्यात्तथा वृत्तिः स्वीकरणीया, 3) धर्मेण शुद्धं च दानं कर्तव्यम्, यथाविधि जिनपूजनं भोजनं च करणीयम्, चैत्यON गृहगमनादिसन्ध्यानियमः पालनीयः, रात्रौ च शयनात् पूर्वं विविधभावनाभिरन्तःकरणं भावितं कार्यम्-इत्यादि । तइयस्स पुण विचित्तो तहुत्तरसुजोगसाहगो णेओ । सामाइयाइविसओ णयणिउणं भावसारो त्ति ॥२९॥ सद्धम्माणुवरोहा वित्ती दाणं च तेण सुविसुद्धं । जिणपूयभोयणविही संझानियमो य जोगंतो ॥३०॥ | तृतीयस्य पुनर्विचित्र-स्तथोत्तरसुयोगसाधको ज्ञेयः । L सामायिकादिविषयो नयनिपुणं भावसार इति ॥२९॥ सद्धर्मानुपरोधाद् वृत्ति-र्दानं च तेन सुविशुद्धम् । 7 जिनपूजाभोजनविधिः सन्ध्यानियमश्च योगान्तः ॥३०॥ (४) सर्वविरतिचारित्रवतां हि सामाचारीविषयक उपदेशो देयः । सामाचारी 30 नाम – “शिष्टाचरितक्रियाकलापः' इति । यथा - गुरुकुलवासो न मोक्तव्यः, गुरुपरतन्त्रेण 15 ४९ Page #63 -------------------------------------------------------------------------- ________________ सदा भाव्यम्, ज्ञानाधुचितविनय आसेव्यः, कालापेक्षया - अर्थात् यस्मिन् काले यत्कर्तव्यम् । तत्र वसतिप्रमार्जनादिषु यत्नः करणीयः, पुरुषार्थे बलं न निगूहनीयम्, सर्वत्र श्रमणोचितयोगेषु । 3) प्रशान्त्या प्रवर्तनीयम्, निर्जराफलमपेक्ष्य निजलाभश्चिन्तनीयः, गुर्वाज्ञायां प्राप्तायां 'महाननुग्रह 15 एष ममोपरि' इति चिन्तनीयम्, कर्मणां संवरकार्ये निश्छिद्रेण भाव्यम्, दोषाणां त्यागेनैव । भिक्षाचर्यायां प्रवर्तितव्यम्, यथाविधि वाचनापृच्छनादिस्वाध्यायोऽनुष्ठातव्यः, मरणस्य प्रमादजनितकर्मणां च चिन्तनं करणीयम्, इत्यादि । गुरुकुलवासो गुरुतंतयाय उचियविणयस्स करणं च । वसहीपमज्जणाइसु जत्तो तह कालवेक्खाए ॥३३॥ अणिगृहपा बलम्मि सव्वत्थ पवत्तणं पसंतीए । णियलाभचिंतणं सइ अणुग्गहो मे त्ति गुरुवयणे ॥३४॥ संवरणिच्छिड्डुत्तं सुद्धंछुज्जीवणं सुपरिसुद्धं । विहिसज्झाओ मरणादवेक्षणं जइजणुवएसो ॥३५।। rगुरुकुलवासो गुरुतन्त्रतयोचितविनयस्य करणं च । L वसतिप्रमार्जनादिषु यत्नस्तथा कालापेक्षया ॥३३॥ अनिगूहना बले सर्वत्र प्रवर्तनं प्रशान्त्या । निजलाभचिन्तनं सदाऽनुग्रहो मे इति गुरुवचने ॥३४॥ संवरनिश्छिद्रत्वं शुद्धोञ्छजीवनं सुपरिशुद्धम् । 1 विधिस्वाध्यायो मरणाद्यपेक्षणं यतिजनोपदेशः ।।३५।। उपदेशमधिकृत्यैव विशेषेणाऽऽह उवएसोऽविसयम्मी विसए वि अणीइसो अणुवएसो । बंधनिमित्तं णियमा जहोइओ पुण भवे जोगो ॥३६।। गुरुणो अजोगिजोगो अच्चंतविवागदारुणो णेओ । जोगीगुणहीलणा णट्ठणासणा धम्मलाघवओ ॥३७।। उपदेशोऽविषये विषयेऽप्यनीदृशोऽनुपदेशः । बन्धनिमित्तं नियमाद् यथोदितः पुनर्भवेद् योगः ॥३६॥ ५० Page #64 -------------------------------------------------------------------------- ________________ गुरोरयोगयोगोऽत्यन्तविपाकदारुणो ज्ञेयः । योगगुणहीलनाद् नष्टनाशनाद् धर्मलाघवात् ||३७|| उपदेशानर्हजनेभ्यो दत्त उपदेशोऽनुपदेश एव, तथा योग्येभ्यश्चाऽप्ययोग्यरीत्याभूमिकाननुरूपेण दत्त उपदेशोऽप्यनुपदेश एव । एतादृशोपदेशेन च श्रोतृजनानामनिष्टापादनात् कर्मणां बन्धो भवति । योग्येभ्यो योग्यरीत्या दत्त उपदेश एवाऽऽज्ञाशुद्धत्वाद् योग: कथ्यते । एतादृशो विपरीतोपदेशदातुर्गुरोरप्युपदेशोऽत्यन्तं विपाकदारुणः प्रसजति । यतो वैपरीत्येनोपदेशदानाद् योगिनां गुणानां लोके हीलना भवति । उपदेशको गुरुर्हि योगित्वेन ख्यातः सन्नपि यद्येवमयोग्येभ्यो योग्येभ्यश्चाऽनुचिततयोपदेशो दद्यात् तर्हि स्वधर्माननुपालनात् लोके विडम्बना भवति । तथा ये संसाराभिनन्दिनो जीवाः तेभ्यो यदि धर्मोपदेशो दीयेत ' तर्हि ते स्वरुच्यभावादाधिक्येन धर्माद् विमुखा भवन्ति । एवं नष्टनाशनदोष उद्भवति । तथा धर्मस्य लाघवमपि भवति, इति । अथैतेऽधिकारिणो जीवा योग्यमुपदेशं समवाप्य भूमिकानुरूपं विकास साध्नुवन्ति । ततः परं तैः किं करणीयमिति ज्ञापयति निययसहावालोयण जणवायावगम-जोगसुद्धीहिं । उचियत्तं णाऊणं निमित्तओ सइ पयट्टेज्जा ॥ ३९ ॥ 1 निजस्वभावस्याऽऽलोचनम्, जनवादस्याऽवगमनम्, योगशुद्धिश्चेत्येतैस्त्रिभिरुपायैः स्वकीयमुचितत्वं - योग्यतां ज्ञात्वा तदनुरूपं शुभनिमित्तानवलम्ब्य प्रवृत्तिं कुर्यात् । जनः स्वकीयां मर्यादां शक्ति वा सम्यक् परीक्ष्य यदि पदमग्रे निदधाति तदा तेन पश्चात्पदेन भवितव्यं न भवति । अत एवैत उपाया अत्र दर्शिताः सन्ति । एकैकं पश्याम: (१) निजस्वभावालोचनम् - निजस्वभावस्य प्रामाणिको भूत्वा स सम्यक् चिन्तनं कुर्यात् यत् कीदृशो मम स्वभाव: ? अग्रिमस्य कस्य गुणस्थानकस्य प्राप्त्यर्थमेषोऽनुकूलोऽस्ति ? अहं यद् गुणस्थानकं प्राप्तुं वाञ्छामि तस्याऽनुरूप एष न वा ? इति । निजकस्वभावालोचन - ज् - जनवादावगम-योगशुद्धिभिः ८१ Page #65 -------------------------------------------------------------------------- ________________ - - (२) जनवादावगमः-स्वरीत्या निजस्वभावस्याऽऽलोचनानन्तरं मनुष्यो बुधजनानामभिप्रायं ज्ञातुमपि प्रयतते । यतः स्वोद्देशेन स्वयमेव कृतं स्वभावालोचनं कदाचिद् र 3वितथमपि स्यात् । अतो-जनानां मद्विषयकोऽभिप्रायः कीदृशः ? मयि योग्यताया किं 15 PM प्रमाणं ते निर्धारयन्ति ? किं च गुणस्थानकमधिकृत्य मम योग्यतां ते सम्भावयन्ति ?का इत्यादि स चिन्तयेत् ।। (३) योगशुद्धिः-मम मनो-वचः-काययोगाः कीदृशाः ? तेषां शुद्धिः कीदृशी? FO कस्य गुणस्थानकस्याऽङ्गीकरणे मया प्रयतितव्यमिति । अथाऽग्रिमगुणस्थानकस्य प्रतिपत्तिः कथं विधेया ?-इत्येतदाहएत्थ उवाओ च इमो सुहदव्वाइसमवायमासज्ज । पडिवज्जइ गुणठाणं सुगुरुसमीवम्मि विहिणा तु ॥४२॥ वंदणमाई उ विही निमित्तसुद्धी पहाणमो णेओ ।। सम्मं अवेक्खियव्वा एसा इहरा विही ण भवे ॥४३॥ | अनोपायश्चाऽयं शुभद्रव्यादिसमवायमासाद्य । Lप्रतिपद्यते गुणस्थानं सुगुरुसमीपे विधिना तु ॥४२।। वन्दनादिः पुनर्विधिनिमित्तशुद्धिः प्रधानं ज्ञेयः । 1 सम्यगपेक्षितव्यैषेतरथा विधिर्न भवेत् ॥४३॥ ] एवं च निर्दिष्टोपायैः सम्यक् स्वोचितत्वं विज्ञाय शुद्धद्रव्य-क्षेत्र-काल-भावमाश्रित्य सद्गुरुसमीपे विधिपूर्वकं नवगुणस्थानकमङ्गीकुर्यात्, अर्थाद् योऽपुनर्बन्धकः स सम्यक्त्वं गृह्णीयात्, सम्यक्त्वी च श्रावकस्य द्वादशव्रतग्रहणरूपं देशवरतिधर्म स्वीकुर्यात्, देश- 1 विरतिधरश्च पञ्चमहाव्रतात्मकं साधुधर्मं प्रतिपद्येतेति । अत्र विधौ सद्गुरुसमीपे विधिपूर्वकं चेत्येतद् द्वयं निर्दिष्टमस्ति । तत्र-यो । गुणाधिकोऽस्ति तत्समीपे एव व्रतादिकं ग्रहणीयम् । यतस्तादृशो गुणवत आत्मनश्चेतनाशक्ते व्रतग्राहकजने आधानं भवति येन च तस्मिन् शुभभावानां प्राबल्यं स्यात्, ततश्च तद्विकासोऽपि 2) शीघ्रः फलदायी च स्यात् । अतः 'सद्गुरुसमीपे' इत्युक्तम् । ५२ Page #66 -------------------------------------------------------------------------- ________________ तथा क्षेत्रशुद्धि-गुरुसत्कार - जिनपूजा - चैत्यवन्दन - गुरुवन्दनन-कायोत्सर्गादिपुरस्सरमेव व्रतग्रहणं विधेयम् । एषोऽपि विधिर्निमित्तशुद्धिपूर्वकमेव भवेत् । भाविन इष्टानिष्टसूचकानि निमित्तानीत्युच्यन्ते । यथा पुरुषाणां दक्षिणाङ्गस्पन्दनम्, स्त्रीणां वामाङ्गस्फुरणम्, मङ्गलवाद्य श्रवणम्, चित्तोत्साह : - इत्यादीनि शुभनिमित्तानि सन्ति । एतेषां शुद्धिरप्यनिवार्या । अन्यथाऽऽचीर्णो विधिर्विधिर्न भवति, अविधिरेव सः । नवगुणस्थानकप्रतिपत्त्यनन्तरं किं कर्तव्यम् ? इत्यत्राऽऽहउड्डुं अहिगगुणेहिं तुल्लगुणेहिं च णिच्च संवासो । तग्गुणठाणोचियकिरियपालणासइसमाउत्तो ॥४४॥ उत्तरगुणबहुमाणो सम्मं भवरूवचिंतणं चित्तं । अरईए अहिगयगुणे तहा तहा जत्तकरणं तु ॥ ४५ ॥ अकुसलकम्मोदयपुव्व-रूवमेसा जओ समक्खाया । सो पुण उवायसज्झो पाएण भयाइसु पसिद्धी ||४६ || सरणं भए उवाओ रोगे किरिया विसम्मि मंतो त्ति । एए वि पावकम्मोवक्कमभेया उ तत्तेणं ॥४७॥ सरणं गुरू उ इत्थं किरिया उ तवो त्ति कम्मरोगम्मि । मंतो पुण सज्झाओ मोहविसविणासणी पडो ॥ ४८ ॥ एएसु जत्तकरणा तस्सोवक्कमणभावओ पायं । नो होइ पच्चवाओ अवि य गुणो एस परमत् ॥ ४९ ॥ 'ऊर्ध्वमधिकगुणैस्तुल्यगुणैश्च नित्यं संवासः । तद्गुणस्थानोचितक्रियापालनास्मृतिसमायुक्तः ॥ ४४॥ उत्तरगुणबहुमान: सम्यग् भवरूपचिन्तनं चित्रम् | अरतावधिगतगुणे तथा तथा यत्नकरणं तु ॥४५॥ अकुशलकर्मोदयपूर्वरूपमेषा यतः समाख्याता । स पुनरुपायसाध्यः प्रायेण भयादिषु प्रसिद्धः ||४६ || ५३ Page #67 -------------------------------------------------------------------------- ________________ शरणं भये उपायो रोगे क्रिया विषे मन्त्र इति । एतेऽपि पापकर्मोपक्रमभेदा एव तत्त्वेन ॥४७॥ शरणं गुरुरेवाऽत्र क्रिया तु तप इति कर्मरोगे । मन्त्रः पुनः स्वाध्यायो मोहविषविनाशनः प्रकटः ॥४८॥ एतेषु यत्नकरणात् तस्योपक्रमणभावतः प्रायः । न भवति प्रत्यपायोऽपि च गुण एव परमार्थः ॥४९॥ एवं चोपर्युपदिष्टकमेण विधिपूर्वकं सद्गुरुसमीपे च स्वयोग्यतामनुसृत्य नवगुणस्थानप्राप्तेरनन्तरं (१) ये स्वस्मादधिकगुणाः समानगुणा वा जनास्तैः सहौचित्येन वासः । र, करणीयः, तथा (२) तत्तत्स्वप्रतिपन्नगुणस्थानोचिता क्रिया परिपालनीया, अर्थात् 'अस्मिन् । ani गुणस्थाने व्यवस्थितेन भूत्वा मयेदं करणीयमस्ति' इति स्मृतिपूर्वकं तत्तत्कर्तव्यपालन AC उद्युक्तो भवेत्, (३) स्वाङ्गीकृतं यद् गुणस्थानं तत उत्तरगुणस्थाने हार्दो बहुमानभावो-20 । रागो विधेयः, तथा (४) संसारस्याऽनित्यत्वाशरणत्वादिनानाप्रकारकं चिन्तनं सम्यक् र करणीयम् । (५) अथ यदि कस्यचन कर्मण उदयात् स्वप्रतिपन्नगुणेऽरतिरुत्पद्येत तर्हि . ) तीर्थकरादीनां भावशरणग्रहणादिना यत्नेन स्वगुणरक्षणं विधेयम् । 'एषाऽरति विनोऽकुशलकर्मोदयस्य सङ्केतरूपाऽस्ति' इत्येतज्ज्ञानिभिः समाख्यातमा मस्ति । एवं सत्यप्येष कर्मोदयोऽपि भयरोगादिवदुपायसाध्योऽस्ति । यथा भयस्योत्पत्तौ कस्यचिद् दुर्गादिकस्य शरणं गृह्यते, रोगे सति चिकित्सा का A क्रियते तथा विषे मन्त्रादिकं प्रयुज्यते, एवं च भय-रोग-विषाणामुपद्रवोऽपाकर्तुं का शक्यस्तथाऽरतावुत्पद्यमानायामपि तन्निबन्धनमोहनीयकर्मण उपक्रमं कर्तुं भावशरणाद्युपाया 16 आचरणीया भवन्ति । तथैव च पापकर्मणामुपक्रमो भवति तेन चाऽरतिरतिक्रान्ता भवति । 1411 अत्राऽरतौ सत्यां शरणं तु गुरुरेव । गुरूणां सान्निध्याद् हितवचनैश्च मोहोपशमो NCS भवति । अपरश्चोपायः चिकित्सारूपोऽस्ति । सा च तपोरूपा । अरतिहि कर्मरोगोऽस्ति । म विशिष्टतपश्चरणैस्तनिवारणं भवति स्वास्थ्यं च पूर्ववल्लभ्यते । अरतिः पुनर्मोहविषमस्ति । ) 2 तत्राऽमोघमन्त्रोऽस्ति स्वाध्यायः । वाचना-पृच्छना-परावर्तना-नुप्रेक्षा-धर्मकथात्मके स्वाध्याये । Page #68 -------------------------------------------------------------------------- ________________ लीनतया मोहविषस्योन्मूलनं भवति, आध्यात्मिकी च चेतना पुनर्जागृता भवति । उक्तं सज्झाएण पसत्थं झाणं जाणइ य सव्वपरमत्थं । सज्झाए वढ्तो खणे खणे जाइ वेरग्गं ॥३३८॥ उपदेशमालायाम् । |स्वाध्यायेन प्रशस्तं ध्यानं जानाति च सर्वपरमार्थम् ।। Lस्वाध्याये वर्तमान क्षणे क्षणे याति वैराग्यम् ॥ । एते च प्रकटा-अनुभवसिद्धा उपायाः सन्ति । एतेषु यत्ने कृते कर्मणामुपक्रमो 5 भवति । अरत्या च सङ्केतितोऽकुशलकर्मणामुदयरूपो विघ्नो विनश्यति गुणप्राप्तिश्च र भवति। ____ अत्रैव विशेषं दर्शयति चउसरणगमण दुक्कडगरहा सुकडाणुमोयणा चेव । एस गणो अणवरयं कायव्वो कुसलहेउ त्ति ॥५०॥ चितुःशरणगमनं दुष्कृतगर्दा सुकृतानुमोदना चैव । । L एष गणोऽनवरतं कर्तव्यः कुशलहेतुरिति ॥५०॥ ] __ अचिन्त्य एवाऽऽयाति कर्मणामुदयः । अतः कल्याणकाङ्क्षिभिर्जनैः सदा कुशलानुष्ठानेष्वेव प्रवर्तितव्यम्, येन कर्मणामुपक्रमो-विनाशः स्यात् । तज्जायमानैरशुभपरिणामैश्च । र रक्षणमपि स्यात् । एतानि च सन्ति तानि कुशलानुष्ठानानि (१) चतुःशरणगमनम् - अर्हत्-सिद्ध-साधु-केवलिप्रज्ञप्तधर्म-इत्येतेषां चतुर्णा 0 शरणं ग्राह्यम् । गुणाधिकानां शरणग्रहणेनैव रक्षणं भवति । अर्हदादीनां शरणाङ्गीकरणेन 15 For तान् प्रति समर्पणश्रद्धादिभावेन क्लिष्टकर्मणामुपशान्तिर्भवति । कर्मणामुपशमेन च या शान्तिः प्राप्यते तदेव रक्षणम् । (२) दुष्कृतगर्हा - अनाभोगेनेच्छया वा स्वाचरितानां दुष्कृतानां संवेगभावापनेन चेतसा या जुगुप्सा-निन्दा वा सा दुष्कृतगर्दा । अर्हत्सिद्धादीनां शरण्यानां पुरत एषा ) करणीया । अनया चाऽनर्थानां परम्पराया अन्तो भवति कर्माणि च शिथिलबन्धनानि | भवन्ति । Page #69 -------------------------------------------------------------------------- ________________ (३) सुकृतानुमोदनम् - मोक्षमार्गानुकूलं नैकभेदभिन्नं यत् सदनुष्ठानं तत् स्वेन येन केनचिद्वाऽन्येनाऽप्याचरितं स्यात् तस्य 'महता पक्षपातेन' या प्रशंसा तन्नाम सुकृतानुमोदनम् । एतच्च सुकृतानुमोदनं यथार्थरूपेण तदैव शक्यं यदा चित्ते सुकृतस्य पक्षपातः स्यात् । सुकृते उपादेयताबुद्धिर्बहुमानभावश्च यदि स्यात् तदैवैतच्छक्यम्, नाऽन्यथा । एतदनुमोदनं महत्कल्याणाङ्गमस्ति । एतच्चतुःशरणगमनादित्रिकं सततं भावनीयम् । यत एतदपायानपाकृत्य कल्याणस्य हेतुर्भवति । अथ योगमार्गप्रवृत्तानां कृते स्वासादितगुणस्थाने स्थिरीभवितुं ततो वाऽग्रे गन्तुं विशेषेणोपायान् निदर्शयति भावणासुयपाढो तित्थसवणमसतिं तयत्थजाणम्मि । तत्तो य आयपेहणमतिनिउणं दोसवेक्खाए ॥५२॥ * भावना श्रुतपाठः तीर्थश्रवणमसकृत् तदर्थज्ञाने _ ततश्चाऽऽत्मप्रेक्षणमतिनिपुणं दोषापेक्षया ॥५२॥ 1] (१) भावनाश्रुतपाठः "रागादिप्रतिपक्षभावनं भावना" । तस्मिन् प्रतिबद्धं यच्छुतं तद् भावनाश्रुतम् । अर्थाद् रागादीनां निमित्त स्वरूप - फलादीनां प्रतिपादकं श्रुतम् । तादृशस्य श्रुतस्य विधिपूर्वकमध्ययनं नाम भावना श्रुतपाठः । - (२) असकृत्तीर्थश्रवणम् अत्र तीर्थं नामाऽधिकृतसूत्रार्थोभयज्ञाता, अभ्यस्त - भावनामार्गश्चाऽऽचार्यः। एतादृशादाचार्याद् वारंवारं यच्छ्रवणं तत्तीर्थश्रवणम् । एतादृशादाचार्यादृतेऽन्यस्मात् कस्माच्चिदपि कृताच्छ्रवणाद् रागादीनां स्वरूप-निमित्त-विपाकादीनां सम्यगज्ञानस्य सिद्धिर्न भवत्येव । एतत्तीर्थश्रवणं सम्यग्भावना श्रुतपाठानन्तरमेव फलवद् भवति । यतोऽनेकशः श्रुतपाठाद् रागादिभावा: शिथिला भवन्ति तदनु च कृतात्तीर्थश्रवणाद् रागादिभ्यो मुक्तिः प्राप्यते । अन्यथा “अपरिपाचितमलसंस्रनकल्पं ह्यपाठं श्रवणम्" इति वचनात् तन्निष्फलं भवति । (३) आत्मसम्प्रेक्षणम् - एवं च तीर्थश्रवणेन भावना श्रुतस्याऽर्थावबोधे ५६ Page #70 -------------------------------------------------------------------------- ________________ - . CS 3 सत्यात्मसम्प्रेक्षणं करणीयं भवति । रागादिदोषाणामपेक्षया-अर्थात्-किमहं रागबहुलः? B द्वेषबहुलः ? मोहबहुलो वा ?-इत्यादिरूपेणाऽत्यन्तं निपुणतयाऽऽत्मनो निरीक्षणं 3) नामाऽऽत्मसंप्रेक्षणम् । एवं च रागादिदोषानुपलक्ष्य तद्रीकर्तुमुपायांश्च चिन्तयेत् । येषां दोषाणामपेक्षयाऽऽत्मसंप्रेक्षणं करणीयमस्ति तेषामात्मसंप्रेक्षणस्य च स्वरूपं 16 वर्णयति रागो दोसो मोहो एए एत्थायदूसणा दोसा ।। कम्पोदयसंजणिया विण्णेया आयपरिणामा ॥५३॥ तत्थाभिसंगो खलु रागो अप्पीइलक्खणो दोसो । अण्णाणं पुण मोहो को पीडइ मं दढमिमेसि ॥५९॥ णाऊण ततो तव्विसय-तत्त-परिणइ-विवागदोसे त्ति ।६०-१॥ थीरागम्मि तत्तं तासि चिंतेज्ज सम्मबुद्धीए । कलमल-मंस-सोणिय-पुरिस-कंकालपायं ति ॥६७|| रोगजरापरिणामं णरगादिविवागसंगयं अहवा । चलरागपरिणति जीयनासणविवागदोसं ति ॥६८|| अत्थे रागम्मि उ अज्जणाइदुक्खसयसंकुलं तत्तं । गमणपरिणामजुत्तं कुगइविवागं च चिंतेज्जा ॥६९।। दोसम्मि उ जीवाणं विभिण्णयं एव पोग्गलाणं च । अणवट्ठियं परिणतिं विवागदोसं च परलोए ॥७०।। चिंतेज्जा मोहम्मी ओहेणं ताव वत्थुणो तत्तं । उप्पाय-वय-धुवजुयं अणुहवजुत्तीए सम्मं ति ॥७१॥ [ रागो द्वेषो मोह एतेऽत्राऽऽत्मदूषणा दोषाः । L कर्मोदयसंजनिता विज्ञेया आत्मपरिणामाः ॥५३॥ तत्राऽभिष्वङ्गः खलु रागोऽप्रीतिलक्षणो द्वेषः । अज्ञानं पुनर्मोहः कः पीडयति मां दृढममीषाम् ॥५९।। For Privata 19ersonal Use Only Page #71 -------------------------------------------------------------------------- ________________ ज्ञात्वा ततस्तद्विषय-तत्त्व-परिणति-विपाकदोषान् इति ॥६०/१॥ स्त्रीरागे तत्त्वं तासां चिन्तयेत् सम्यग्बुद्ध्या । कलमल-मांस-शोणित-पुरीष-कङ्कालप्रायमिति ॥६७।। रोगजरापरिणामं नरकादिविपाकसङ्गतमथवा । चलरागपरिणति जीवितनाशनविपाकदोषमिति ॥६८॥ अर्थे रागे पुनरर्जनादिदुःखशतसङ्कलं तत्त्वम् । गमनपरिणामयुक्तं कुगतिविपाकं च चिन्तयेत् ॥६९।। द्वेषे पुनर्जीवानां विभिन्नतामेव पुद्गलानां च । अनवस्थितां परिणति विपाकदोषं च परलोके ॥७०॥ चिन्तयेद् मोहे ओघन तावद्वस्तुनस्तत्त्वम् । उत्पाद-व्यय-ध्रौव्ययुक्तमनुभवयुक्त्या सम्यगिति ॥७१॥ रागो द्वेषो मोहश्चेत्येते त्रय आत्मदूषका दोषाः सन्ति । कर्मणामुदयेनोत्पन्ना एते १५) 7 दोषा आत्मपरिणामस्वरूपाः सन्ति । यथा स्फटिकरत्नं स्वभावतो निर्मलमेव भवति । किन्तु यदि तत्पुरतो रक्तश्यामादिवर्णः पदार्थः स्थाप्येत तदा तदपि तत्तद्वर्णस्वरूपमाधत्ते व १) तथा ह्यात्माऽसावपि स्वभावतो निर्मल: सन्नपि कर्मोदयाद् रागादिभावानापद्यते । र तत्र रागो नामाऽऽसक्तिः, अप्रीतिलक्षणो द्वेषः, मोहस्त्वज्ञानस्वरूपोऽस्ति । ) एतेभ्यश्च ‘को मामधिकं पीडयति ' इति विचिन्त्य तेषां स्यादिविषयं रोगजरादिपरिणामान्य EAM नरकादिविपाकांश्च चिन्तयेत् । (१) रागे सति चिन्तनम् - स्त्रीविषयके रागे उत्पन्ने सति जिनवचनगभितं 5 fol तत्त्वचिन्तनं कुर्याद् यद् "रुधिर-मांस-शोणित-पुरीषाद्यशुचिपूर्णमिदं शरीरमस्ति । बाह्यदृष्ट्या 21 रूपवद् दृश्यमानं सदपि तत्त्वदृष्टया तु तदशुचिपूर्ण क्षणभङ्गरमेवाऽस्ति । उक्तं च बाह्यदृष्टेः सुधासार-घटिता भाति सुन्दरी । तत्त्वदृष्टेस्तु सा साक्षाद् विण्मूत्रपिठरोदरी ॥ ज्ञानसाराष्टके १९/४ रोगाकालवृद्धत्वादिकानि हि रागस्य परिणामानि सन्ति । आगामिनि च काले । MOHere Page #72 -------------------------------------------------------------------------- ________________ नरकतिर्यगादिकुगतिगमनं तस्य कटुविपाकोऽस्ति" इति । अथवा "चञ्चलोऽयं रागः । अद्य यो रागस्य विषयस्तत्रैव परस्मिन् दिने द्वेषोऽप्युत्पद्यते, अतश्चलपरिणामोऽसौ रागः । जीवितनाशस्त्वस्य विपाक:- "विषं विरक्ता स्त्री" इति वचनात् । रागे निवृत्ते सति स्वकीयाशुभाचरणमाच्छादयितुं परस्याऽहितेऽपि जनः प्रवर्तते " इति । यद्यर्थविषयको राग उत्पद्येत तदा तस्याऽर्जने संरक्षणे उपभोगे च कानि कानि दुःखानि सोढव्यानि भवन्ति तच्चिन्तयेत् । " धनलुब्धः किं किं समाचरतीत्यत्रोक्तमस्ति" धावेइ रोहणं तर सायरं भमइ गिरिणिगुंजेसुं । मारेइ बंधवं पि हु पुरिसो जो होइ धणलुद्धो ॥" - महता परिश्रमेणाऽप्यर्जितमिदं धनमपि तरलमेवाऽस्ति । पवनवन्निर्बन्धमेव धनम् । यथा काष्ठादुत्पन्नः कीटः काष्ठमेव नाशयति तथा मनुष्येणार्जितं धनं तमेव नाशयति । यतो धनार्जनादनु प्रतिदिनमनुक्षणं वा तस्य संरक्षणस्य संवर्धनस्य चिन्तैव चेतसि प्रवर्तते । न च स सुखमनुभवति कदाचित् । एवं च धनलोभादशुभध्यानापन्नचेताः स जनः परलोके दुर्गतिभाग् भवति इत्येषोऽस्ति कटुविपाको: धनरागस्य " इति । (२) द्वेषे सति चिन्तनम् - "अनुरागविषयोपरोधिनि प्रतिहतिद्वेषः " । द्वेषे सत्येवं चिन्तयेद यद्-यथाऽनुरागविषयभूता पदार्था मत्तो भिन्नास्तथैव द्वेष्येण कल्पिताः पदार्था अपि भिन्ना एव । यत्र भिन्नताया बोधो विद्यते तत्र ममत्वभावो नोत्तिष्ठते । ममत्वाभावे च यथा रागो नोद्भवति तथा द्वेषोऽपि नोद्भवत्येव एष स्वजन-धनधान्यादिशरीरपर्यन्तेषु पदार्थेषु जायमानो भेदस्य बोध एव द्वेषभावाद् रक्षति । एते च जीवाजीवादयः पदार्था यत्र द्वेषबुद्धिर्मम जायते सर्वेऽप्यनवस्थितपरिणामा अशाश्वता एव । ये चाऽशाश्वताः सन्ति तेषां पर्यायः स्थितिर्वा सततं परिवर्तते, तथा च सति यत्रैकदा वयं रागाकुला आस्म तत्र द्वेष उत्पद्यते यश्च द्वेष्य आसीत् तत्र राग उद्भवति । एवं च रागवद् द्वेषोऽपि चपलो यतः स बाह्यविषयानवलम्बते, बाह्याश्च विषया अनवस्थिताः सन्ति । द्वेषस्याऽनागतविपाका अप्यनिष्टा भवन्ति । अस्मिन् जन्मन्यत्यन्तं द्वेषबुद्धया जीवन्नात्मा भवान्तरेष्वपि तथाबुद्धिरेव जायते । सर्वेषामपि सोऽप्रियो जायते न कस्यापि ५९ Page #73 -------------------------------------------------------------------------- ________________ प्रेम स सम्पादयितुमर्हति । तथा नरक - तिर्यगादिकुगतिभाजनमपि स भवति" इति । (३) मोहोद्भवे चिन्तनम् - "मोहोऽज्ञानस्वरूपोऽस्ति । सम्यग्बोधाभावे एव मोहस्योद्भवो भवति । कस्मिंश्चिदपि जीवेऽजीवे चा पदार्थे वयमस्माकं विचारानारोपयामः, तदनुरूपमेव च वस्तुनि मोहो जायते । सर्वेऽपि जीवाः स्वस्वदृष्ट्यैव पदार्थान् सम्भावयन्ति ' तदनुगुणमेव च तेषां तत्र भावो भवति । सर्वस्मिन्नपि वस्तुनि सर्वेषामपि भावः समानो न भवति । यद् मह्यं रोचते तत्परस्मै नाऽपि रोचेत । अतः पदार्थस्तु यथातथ एव विद्यते केवलमस्माकं दृष्टिकोणेन तद् रुचिकरमरुचिकरं वा सम्पद्यते । एवं च पदार्थ : सम्यगसम्यग्वा न भवति, स तूत्पाद - व्यय - ध्रौव्यस्य शाश्वतं नियममनुसरन् पुगलसमूहमात्रमेवाऽस्ति । पदार्थे सततं नवनवपर्यायाणामुत्पत्तिर्भवति, पूर्व - पूर्वतनपर्यायाणां विनाशो जायते तथा द्रव्यत्वेन सोऽवस्थितो वर्तते । पदार्थानामेतन्नैश्चयिकं सत्यं तत्त्वं वाऽस्ति । अस्य तत्त्वचिन्तनस्याऽभावे वयं पदार्थानां जायमानं भविष्यद्वा परिवर्तनं नाऽवगन्तुं शक्नुमः तथा च सति पदार्थानां वर्तमानमेव पर्यायमनुलक्ष्य तत्र सत्त्वासत्त्वस्याऽऽरोपणं कुर्मः - एषोऽस्ति मोहो नाम, एतदेव चाऽज्ञानमपि । एतत्तु वयं सर्वेऽपि नित्यमनुभवामः । अनुभवानन्तरमपि प्रवर्तनं नाम मोहोऽज्ञानं वा । अज्ञानमूलो मोहमूलो वाऽस्माकं क्लेशजातः । एवं चाऽज्ञानदशायां क्लेशमयं जीवनं यापयन्तोऽस्मिन् भवे भवान्तरे वा कटुविपाकानासादयन्तीत्यत्र नास्ति संशयः" इति । एवं यदाऽनुभवपूर्वकं तत्त्वचिन्तनमार्गमनुसृत्याऽज्ञानस्याऽऽवरणमपाक्रियते तदा मोहादस्माद् रक्षणं भवति । एवं च राग-द्वेष- मोहानधिकृत्य तद्विषय- परिणति - विपाकादीनां सम्यक्चिन्तनस्वरूपमात्मसम्प्रेक्षणं करणीयम् । एतेन च रागादिदोषाणां सम्यगवबोधो जायते, तेषां नाशे उद्यमोऽपि शक्यो भवति, तथा च मोक्षमार्गेऽपि प्रगतिः सुलभा भवति, इति । रागादिदोषाणां चिन्तनं करणीयमित्युक्तम् । अथ तत्करणे को विधि: ? तथा कृते च को लाभो जायते ? - इति विवृणोति चितेज्जाऽऽणाए दढं पइरिक्के सम्ममुवउत्तो ||६० / २ || गुरुदेवयापणामं काउं पउमासणाइठाणेण । दंसमंसगाइ काए अगणेंतो तग्गयज्झप्पो ॥ ६१ ॥ ६० Page #74 -------------------------------------------------------------------------- ________________ DON आणाए चिंतणम्मी तत्तावगमो णिओगओ होति । भावगुणागरबहुमाणओ य कम्मक्खओ परमो ||७४॥ पइरिक्के वाधाओ न होइ पाएण योगवसिया य । जायइ तहा पसत्था हंदि अणब्भत्थजोगाणं ॥७५।। उवओगो पुण एत्थ विण्णेओ जो समीवजोगो त्ति । विहियकिरियागओ खलु अवितहभावो उ सव्वत्थ ।।७६।। गुरुदेवयाहि जायइ अणुग्गहो अहिगयस्स तो सिद्धी । एसो य तन्निमित्तो तहाऽऽयभावाओ विण्णेओ ॥६२।। जह चेव मंतरयणाइएहिं विहिसेवगस्स भव्वस्स । उवगाराभावम्मि वि तेसिं होइ त्ति तह एसो ॥६३।। ठाणा कायनिरोहो तक्कारीसु बहुमाणभावो अ । दंसाइ अगणणम्मि वि वीरियजोगो य इट्ठफलो ॥६४॥ तग्गयचित्तस्स तहोवओगओ तत्तभासणं होति । एयं एत्थ पहाणं अंगं खलु इट्ठसिद्धीए ॥६५॥ एवं अब्भासओ तत्तं परिणमई चित्तथेज्जं च । जायइ भवाणुगामी सिवसुहसंसाहगं परमं ॥७७।। | चिन्तयेदाज्ञया दृढं विविक्ते सम्यगुपयुक्तः ॥६०/२।। गुरु-देवताप्रणामं कृत्वा पद्मासनादिस्थानेन । दंशमशकादीन् कायेऽगणयन् तद्गताध्यात्मः ॥६१॥ आज्ञया चिन्तने तत्त्वावगमो नियोगतो भवति । भावगुणाकरबहुमानतश्च कर्मक्षयः परमः ॥७४।। विविक्ते व्याघातो न भवति प्रायेण योगवशिता च । जायते तथा प्रशस्ता हन्धनभ्यस्तयोगानाम् ॥७५॥ । ६१ For Private Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ उपयोगः पुनरत्र विज्ञेयो यः समीपयोग इति । विहितक्रियागतः खल्ववितथभाव एव सर्वत्र ॥७६।। गुरुदेवताभ्यो जायतेऽनुग्रहोऽधिकृतस्य ततः सिद्धिः । एष च तन्निमित्तस्तथाभावाद् विज्ञेयः ॥६२॥ यथैव मन्त्ररत्नादिभ्यो विधिसेवकस्य भव्यस्य । उपकाराभावेऽपि तेषां भवतीति तथैषः ॥६३।। स्थानात् कायनिरोधस्तत्कारिषु बहुमानभावश्च । दंशाद्यगणनेऽपि वीर्ययोगश्चेष्टफलः ॥६४॥ तद्गतचित्तस्य तथोपयोगतस्तत्त्वभासनं भवति । एतच्चाऽत्र प्रधानमङ्गं खल्विष्टसिद्धेः ॥६५॥ एवमभ्यासात्तत्वं परिणमति चित्तस्थैर्यं च । जायते भवानुगामि शिवसुखसंसाधकं परमम् ॥७७।। सप्तप्रकारको विधिरत्र चिन्तनमधिकृत्य दर्शयति । तद्यथा- (१) आज्ञापूर्वकम्, र (२) विविक्ते-एकान्तप्रदेशे, (३) सम्यगुपयोगवान् भूत्वा, (४) गुरुभ्यो देवताभ्यश्च 1) प्रणम्य, (५) पद्मासनाद्यासनस्थो भूत्वा, (६) दंशमशकादिशारीरिकोपद्रवानवगणय्य, र तथा (७) तत्त्वावबोधार्थं तत्र लीनं भूत्वा चिन्तनं करणीयम् । तत्र-. . (१) आज्ञया - आप्तवचनापेक्षयैव कृता काऽपि प्रवृत्तिः सफला भवति । हर A स्वातन्त्र्येण करणेऽनाः सम्भवन्ति । सामान्यप्रवृत्तावप्याप्तवचनानामनुसरणं यद्यनिवार्यमस्ति . तये॒ष तु योगमार्गः, अत्र तु कियत्यनिवार्यताऽऽप्तवचनस्य ? अतोऽत्र 'आज्ञया' KC स इत्युक्तमस्ति । वीतरागा एव वस्तुतस्तत्त्वद्रष्टार उपदेष्टारश्च भवन्ति, अतः परमगुरो र्वीतरागस्याऽऽज्ञापूर्वकं तत्त्वचिन्तनकरणेन सम्यक् तत्त्वावबोधो भवति, यत आज्ञा हि 5 रागादिविषाणां कृते परममन्त्रतुल्याऽस्ति । एवं च वचनानुरूपप्रवृत्त्या भावगुणाकरं भगवन्तं प्रति हार्दो बहुमानभावो जागृतो A भवति, ततश्च कर्मक्षयोऽपि परमो भवति । बहुमानभावादृते कर्मक्षयफलं नाऽवाप्तुं शक्यम्, यतः क्रिया तु सर्वाऽपि तुल्यत्वेनैव क्रियते किन्तु तत्र यद्याज्ञासापेक्षत्वं न स्याद् क __ Page #76 -------------------------------------------------------------------------- ________________ A वीतरागान् प्रति च बहुमानोऽपि न स्यात्तदा तुल्याऽपि क्रिया कर्मक्षयाय न प्रभवति । A अतोऽत्र 'आज्ञया' इति प्रथममुक्तमस्ति । (२) विविक्तदेशे - एकान्तप्रदेशे तत्त्वचिन्तनं करणीयम् । तथाकरणेन च । O योगाभ्यासे प्रवर्तमानस्य विक्षेपो-व्याघातो न भवति, योगवशिता-योगाभ्याससामर्थ्य चाऽपि HD प्राप्यते । विधिप्रवृत्तिवशात् तत्राऽसदाग्रहस्याऽभावो वर्तते, तेन च सा योगवशिता 40 प्रशस्ता भवति । नित्यं च सामर्थ्यस्य वृद्धिरपि भवति ।। (३) सम्यगुपयुक्तः - उपयोगस्त्वाध्यात्मिकक्षेत्रे प्राणभूतोऽस्ति । उपयोगो AN नाम जागृतिः । उपयोगशून्यायाः कस्या अपि कीदृश्या अपि क्रियाया मूल्यं किञ्चिदपि र न भवति । यदुक्तम् "अनुपयोगो द्रव्यम्" इति - यस्यां क्रियायां जागृतिः-उपयोगो 1 नास्ति सा क्रिया द्रव्यक्रियैव भवति न भावक्रिया । तस्याश्च फलमप्यत्यन्तमल्पं सामान्य र वैव प्राप्यते । अत एव उपयोगस्तु सर्वत्राऽनिवार्यः । उपयोगो नाम समीपयोगः, अर्थाद र योगसिद्धेः प्रत्यासन्नयोगो नामोपयोगः । एष उपयोग आगमविहितक्रियासु सर्वत्राऽवितथभावस्वरूपोऽस्ति । (४) गुरुभ्यो देवताभ्यश्च प्रणम्य - गुरु-देवान् प्रणम्य तत्त्वचिन्तनं । पर करणीयमिति चतुर्थो विधिः । तथाकरणेन तेषामनुग्रहो जायते येन च स्वेष्टमार्गे विघ्नभूता र anta अन्तरायाः क्षीयन्तेऽधिकृतस्य च तत्त्वचिन्तनस्य सिद्धिरपि भवति । सामान्यतस्तु देवा वा गुरुवो वा माध्यस्थ्यमेव धारयन्ति, अतः प्रत्यक्षेण । FA नाऽनुग्रहादि कुर्वन्ति । किन्तु साधकस्य विनेयस्य वा चित्ते यस्तान् प्रति बहुमानभावो ) 4G वर्तते तेनैव तस्याऽन्त्यरायाः क्षयं यान्ति कार्यसिद्धिश्च भवति-एष एवाऽनुग्रहो नाम । - एष एवाऽनुग्रहो 'देवस्य गुरोश्चाऽय'मित्युच्यते । _ यथा मन्त्र-रत्नादिकं प्रत्यक्षेण न किमप्युपकुर्यात् किन्तु यथाविधि तत् र सेवमानस्याऽभीष्टफलप्राप्तिरूप उपकारो भवति, स च मन्त्र-रत्नादिकस्यैवेत्युच्यते तद्वदत्राऽपि व विज्ञेयम् । (५) पद्मासनादिस्थानेन-पद्मासन-सिद्धासन-वीरासनाद्यासनेभ्योऽन्यतमे स्थित्वा . 30 तत्त्वचिन्तनं कार्यम् । एतेन च कायनिरोधो भवति, बाह्यविषयेष्विन्द्रियाणां भ्रमणं च 5 - Page #77 -------------------------------------------------------------------------- ________________ २ निरुध्यते ततश्च तत्त्वचिन्तने एकाग्यं सिद्ध्यति । यैश्च योगिभिरेष मार्ग आसेवितोऽस्ति । 5 तेषामनुसरणेन तान् प्रति बहुमानभावोऽपि समुद्भवति । (६) दंशमशकादि कायेऽवगणय्य-पद्मासनाद्यासनस्थः सन्नपि यदि दंशम-ॐ Fory शकादीन् सम्यग् न सहेत तर्हि वारंवारं तत्त्वचिन्तने विक्षेपो जायते । तांश्च जीवान् प्रति Aचित्तं द्वेषकलुषितं भवति । दंशमशकादिसहनेन तु सामर्थ्य जागर्ति, तत्त्वचिन्तनमार्गे च NO ॐ प्रगतिरपि भवति येनेष्टफलसिद्धिः सुकरा भवति । (७) तद्गतचित्तेन-रागादीनां विषयभूतानां पदार्थानां तेषां च क्षणभङ्गरतादिभावानां 12 तत्त्वस्य तद्गतचित्तेन तत्त्वचिन्तनेन विषयाणां यथार्थावबोधो जायते । तेन च योगमार्गे प्रगतिमिच्छन् साधको निमित्तैरपि विचलितो न भवति । सकललब्धीनां प्राप्तौ कारणभूतो - 4) यः साकारोपयोगस्तद्रूपत्वादेतदिष्टसिद्धेः-भावनानिष्पत्तेः प्रधानमङ्गमस्ति । र एवं चोपरिनिर्दिष्टेन विधिना कृतादभ्यासात् तत्त्वं चित्ते परिणमति, तेन च । सद भवान्तरेष्वनुगामि-उत्तरोत्तरं भवेषु दृढं दृढतरं वा सम्पत्स्यमानम्, पारम्पर्येण च मोक्षसुखस्य का 1 संसाधकं प्रधानं चित्तस्थैर्यं प्राप्यते । एतस्य तत्त्वज्ञानस्य प्राधान्यं ज्ञापयतिएयं खु तत्तणाणं असप्पवित्तिविणिवित्तिसंजणगं । थिरचित्तगारि लोगदुगसाहगं बेंति समयण्णू ॥६६।। एतदेव तत्त्वज्ञानमसत्प्रवृत्तिविनिवृत्तिसञ्जनकम् ।। Lस्थिरचित्तकारि लोकद्वयसाधकं ब्रुवते समयज्ञाः ॥६६॥] भावनामयज्ञानस्वरूपममृतमयं यदेतत्तत्वज्ञानं तदसत्प्रवृत्तेरात्मानं निवर्तयति, चित्ते पर तर स्थैर्यं जनयति, उभयलोकगतं हितमपि साधयति । तत्त्वचिन्तनं ह्यज्ञानपटली भित्त्वा सदसतोर्बोधं प्रकटयति, मिथ्याबोधवशाच्च । ॐ कृतात् क्रियमाणाच्चाऽसत्प्रवर्तनान्निवर्तयति । यथा यथा चाऽसतो निवृत्तिर्भवति तथा O तथा चित्ताद् व्याकुलताऽपसरति, निष्प्रकम्पता स्थैर्य वोद्भवति । चित्तस्थैर्येण ONGC चौत्सुक्यनिवृत्तिः कुशलानुबन्धश्च जायते । ततश्चेहपरोभयलोकहितं प्राप्यते-इति समयविदः । -सिद्धान्तज्ञा वदन्ति । ६४ Page #78 -------------------------------------------------------------------------- ________________ एवं च रागादिदोषाणां जयार्थमेको विधिस्तत्त्वचिन्तनरूपो दर्शितः । अथ विध्यन्तरं RA) दर्शयति - अहवा ओहेणं चिय भणियविहाणाओ चेव भावेज्जा । सत्ताइएसु मेत्ताइए गुणे परमसंविग्गो ॥७॥ सत्तेसु ताव मेत्तिं तहा पोयं गुणाहिएसुं ति । करुणामज्झत्थत्ते किलिस्समाणाऽविणेएसु ॥७९।। अथवौघेनैव भणितविधानादेव भावयेत् । सत्त्वादिषु मैत्र्यादीन् गुणान् परमसंविग्नः ॥७८।। सत्त्वेषु तावन्मैत्री तथा प्रमोदं गुणाधिकेष्विति ।। करुणा-मध्यस्थत्वे क्लिश्यमानाविनेययोः ॥७९॥ अथवा तु सामान्येनोपरिनिर्दिष्टेन 'आज्ञया-विविक्तदेशे' इत्यादिविधिनैव परमसंविग्नो-लब्धिपूजाख्यात्याद्याकाङ्क्षारहितो भूत्वा सत्त्वादिषु मैत्र्यादिभावनां भावयेत् । ५) तत्र जीवमात्रमधिकृत्य मैत्री भावयेत्, न किन्तु प्रत्युपकारस्याऽपेक्षामावहेत् । ये चार र स्वस्माद् गुणाधिकास्तेषु प्रमोदभावं भजेत् । प्रमोदोऽयं बहुमानाशयस्वरूपोऽस्ति । गुणान् द 1) गुणिजनांश्च प्रति पक्षपाते सत्येवैष शक्यः । जगति चाऽस्मिन् बहवो दुःखिनो दुर्गताश्चम १२ जना विद्यन्ते, तेषु कारुण्यं धारयेत् । ये चाऽविनेया अप्रज्ञापनीयास्तेषु माध्यस्थ्यं भावयेत् । यदुक्तं तत्त्वार्थसूत्रे भगवता श्रीउमास्वातिवाचकेन-"मैत्री-प्रमोद-कारुण्यमाध्यस्थ्यानि सत्त्व-गुणाधिक-क्लिश्यमाना-ऽविनेयेषु" ७/६ इति । एवं च मैत्र्यादिभावना7 भिरपि रागादिदोषाणां जयः शक्यः । एतादृशानां योगमार्गप्रवृत्तानामाहारः कीदृशो भवति तद् दर्शयतिसाहारणो पुण विही सुक्काहारो इमस्स विणणेओ । अण्णत्थओ य एसो उ सव्वसंपकरी भिक्खा ॥८१।। वणलेवोवम्मेणं उचियत्तं तग्गयं निओएण । एत्थ अवेक्खिअव्वं इहराऽयोगो त्ति दोसफलो ॥८२।। Page #79 -------------------------------------------------------------------------- ________________ जोगाणुभावओ च्चिय, पायं ण य सोहणस्स वि अलाभो । लद्धीण वि संपत्ती इमस्स जं वण्णिया समए ॥८३।। रयणाई लद्धीओ अणिमादीयाओ तह य चित्ताओ । आमोसहाइयाओ तहा तहा जोगवुड्डीए ॥८४॥ | साधारणः पुनर्विधिः शुक्लाहारोऽस्य विज्ञेयः । L अन्वर्थतश्चैष पुनः सर्वसम्पत्करी भिक्षा ॥८१।। व्रणलेपौपम्येनोचितत्वं तद्गतं नियोगेन । अत्राऽपेक्षितव्यमितरथाऽयोग इति दोषफलः ॥८२॥ योगानुभावत एव प्रायो न च शोभनस्याऽप्यलाभः । लब्धीनामपि सम्प्राप्तिरस्य यद् वर्णिता समये ॥८३॥ रत्नाद्या लब्धयोऽणिमाद्यास्तथा च चित्राः । 1 आमर्पोषध्याद्यास्तथा तथा योगवृद्धः ॥८४॥ - योगस्य कस्यामप्यवस्थायां वर्तमानस्याऽऽत्मन आहारः शुक्लाहार एव भवति । 7 यः शुद्धानुष्ठानेन साध्यः, शुद्धानुष्ठानस्य हेतुभूतः, स्वरूपेण शुद्धश्च भवति स शुक्लः । 11 एतस्य शुक्लाहारस्यैवाऽपरं नामाऽस्ति 'सर्वसम्पत्करी भिक्षा' इति । सर्वसम्पत्करणशीला या भिक्षा सा सर्वसम्पत्करी भिक्षा । सा च दातृग्रहीतॄणामुभयलोकहिताय भवति । दाता ह्यत्र सुपात्रं प्रति भक्त्या प्रेरितः सन्नाकाङ्क्षादिरहितो भूत्वा ददाति, ग्रहीता चाऽपि 4 'स्वसाधनायां सहायभूतस्य देहस्य रक्षणार्थमेवाऽऽहारं गृह्णामि' इति बुद्ध्यैव गृह्णाति न । तु लोलुपो भूत्वा । एवं चोभयोरपि कल्याणमेव भवति । अत्रोचितभिक्षाया हविःपूर्णादिकाया लाभो योगप्रभावादेव भवति । शोभनाऽपि NS भिक्षा योगानुभावात् सुलभा भवति । यतो 'योगिनां रत्नादिलब्धयः, अणिमाA महिमादिलब्धयः, आमर्पोषध्यादिलब्धयश्चाऽपि योगवृद्धः कारणाद् भवन्ति' इति सिद्धान्ते उक्तमस्ति । येषां कृते एतादृश्यो लब्धयोऽपि सुलभास्तेषां कृते शोभनस्योचितस्य । चाऽऽहारस्य का वार्ता ? 1 Page #80 -------------------------------------------------------------------------- ________________ अथ योगावस्थायाः फलं दर्शयतिएत्तीए एस जुत्तो सम्म असुहस्स खवगमो णेओ । इयरस्स बंधगो तह सुहेणमिय मोक्खगामि त्ति ||८५॥ एएण पगारेणं जायइ सामाइयस्स सुद्धित्ति । तत्तो सुक्कज्झाणं कमेण तह केवलं चेव ॥१०॥ एतयैष युक्तः सम्यगशुभस्य क्षपको ज्ञेयः । L इतरस्य बन्धकस्तथा सुखेनैव मोक्षगामीति ॥८५॥ एतेन प्रकारेण जायते सामायिकस्य शुद्धिरिति । । ततः शुक्लध्यानं क्रमेण तथा केवलं चैव ॥१०॥ एवं च योगमार्गप्रवृत्तानां कृते योगवृद्ध्यर्थमनेकप्रकारको विधिदर्शितः । यथाविधि - 5 प्रवर्तमानस्य योगिनो योगवृद्धिरवश्यंभाविनी । तया च योगवृद्धयाऽशुभकर्मणां, पुनर्यथा HD न बध्यन्ते तथा, क्षयो भवति । तथाऽसौ योगी शुभकर्मणां बन्धको भवति, अर्थाद ) विशिष्टदेश-कुल-जात्यादीनां निमित्तभूतानां पुण्यकर्मणां बन्धको भवति । एवं चाऽशुभकर्मणां क्षयेण शुभकर्मणां चोपार्जनेनैष योगी सुखपरम्परां प्राप्य क्रमेण मोक्षगामी भवति । A तथा योगमार्गस्य स्वस्वभूमिकानुरूपमुपरिनिर्दिष्टविधिना प्रवर्तनेन सामायिकस्यर आत्मनो मोक्षकारणभूतस्य समत्वपरिणामस्य शुद्धिर्भवति, अर्थात् समता विशेषेण निर्मला 0 र निर्मलतरा निर्मलतमा भवति । तया च शुद्ध्या शुक्लध्यानं जायते, क्रमशश्च केवलज्ञानं प्राप्यते । अर्थतत्सामायिकं-समतैव प्राधान्येन मोक्षाङ्गमस्तीति दर्शयतिवासीचंदणकप्पं तु, एत्थ सिटुं अओ च्चिय बुहेहिं । आसयरयणं भणियं अओऽण्णहा ईसि दोसो वि ॥९१॥ [वासी-चन्दनकल्पमेवाऽत्र श्रेष्ठमत एव बुधैः ।। Lआशयरत्नं भणितमतोऽन्यथेषद्दोषोऽपि ॥९१॥ । एतत्सामायिक-समत्वं वासीचन्दनकल्पमस्ति । वासीचन्दनकल्पं नाम सर्व-ॐ For Privas Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ O माध्यस्थ्यरूपम् । यदि कश्चिच्चन्दनेन विलेपनं कुर्यादपरश्च कश्चिद् वासिना शरीरं छिन्द्यात् । - तद्यपि तत्रैकस्मिन् रागोऽपरस्मिंश्च द्वेषो न स्यादित्यस्ति सर्वमाध्यस्थ्यम् । यत्र च चित्ते - 23) एतादृशं माध्यस्थ्यं समत्वं वा प्रवर्तते तच्चित्तमाशयरत्नत्वेन-चित्तरत्नत्वेन वा 5 FE विद्वद्भिनिर्दिष्टमस्ति । अतोऽन्यथा यच्चित्तमस्ति तत्र मनाग् दोषः सम्भवति । अर्थात् र कस्मिंश्चिदपकारिणि "विघ्नान् सम्पाद्यैष मामुपकरोति, कर्मक्षये च मम सहायको भवति' 10 ॐ एतादृशी या बुद्धिर्जायते तत्र यदि "अहो ! एष मम निमित्तेनाऽशुभकर्माण्युपाया॑ऽपायभाजनं O भवति'' एवंरूपं कारुण्यं न स्यात् तर्हि तदेव तदपायानिरूपणं दोषोऽस्ति । अथ योगस्य महाफलं दर्शयति जइ तब्भवेण जायइ जोगसमत्ती अजोगयाए तओ । जम्मादिदोसरहिया, होइ सदेगंतसिद्धित्ति ॥९२।। असमत्ती य उ चित्तेसु एत्थ ठाणेसु होइ उप्पाओ । तत्थ वि य तयणुबंधो तस्स तहब्भासओ चेव ॥९३॥ जह खलु दिवसब्भत्थं रातीए सुविणयम्मि पेच्छंति । तह इह जम्मब्भत्थं सेवंति भवंतरे जीवा ॥९४।। ता सुद्धजोगमग्गोच्चियम्मि ठाणम्मि एत्थ वट्टेज्जा । इह परलोगेसु दढं जीविय-मरणेसु य समाणो ॥९५।। [यदि तद्भवेन जायते योगसमाप्त्ययोगतया ततः । L जन्मादिदोषरहिता भवति सदेकान्तसिद्धिरिति ॥९२।। असमाप्तिश्च पुनश्चित्रेष्वत्र स्थानेषु भवत्युत्पादः । तत्राऽपि च तदनुबन्धस्तस्य तथाभ्यासत एव ॥९३।। यथा खलु दिवसाभ्यस्तं रात्रौ स्वप्ने पश्यन्ति । तथेह जन्माभ्यस्तं सेवन्ते भवान्तरे जीवाः ॥९४॥ ततः शुद्धयोगमार्गोचिते स्थानेऽत्र वर्तेत । इह-परलोकयो१ढं जीवितमरणयोश्च समानः ॥९५।। ६८ Page #82 -------------------------------------------------------------------------- ________________ एवं च सततं योगवृद्धेरभ्यासाद् यद्यस्मिन्नेव जन्मनि योगसमाप्तिः स्यात् तर्ह्यात्माऽयोग्यवस्थां-शैलेश्यवस्थामर्थाद् यत्र मनोवाक्काययोगानां प्रवृत्तिर्नास्ति तादृशीं निष्प्रकम्पां शैलतुल्यां स्थिरामवस्थां प्राप्नोति । तदवस्थाप्राप्त्या च जन्म-जरामरणादिदोषरहिता, सती-यत: पुनरागमनं नास्ति तादृशी, एकान्तविशुद्धा च सिद्धिगतिः प्राप्यते । यदि च कदाचित्तस्मिन्नेव भवे योगसमाप्तिर्न स्याद् योगश्चाऽपूर्णो यद्यवतिष्ठेत तर्ह्यपि योगरूपे मोक्षमार्गे आजन्म कृतेन पुरुषार्थेनाऽऽत्मा देवगतौ विशिष्टजातिकुलादियुक्तायां वा मनुष्यगतौ जन्म प्राप्नोति, यत्र च योगमार्गेऽग्रेसरीभवितुमनुकूला सामग्री प्राप्यते । गतभवे च कृतेन योगस्य दृढाभ्यासेन - अर्थात् प्रणिधानपूर्वकं कृतया योगप्रवृत्त्या तस्य विघ्नानां नाशो भवति, अस्मिंश्च भवे शीघ्रमेव योगसिद्धिर्जायते । यथा कश्चिद् दिवसाभ्यस्तं विषयं तद्दृढाभ्यासवशाद् रात्रौ स्वप्नेऽप्यनुभवति तथैवाऽस्मिन् भवे यदि योगस्य दृढोऽभ्यासः कृतः स्यात् तर्हि भवान्तरेऽपि योगप्राप्तिर्भवति । अत एव च प्रत्येकमात्मभिः शुद्धयोगमार्गोचितानि यानि स्थानानि - अर्थादा. गमनिर्दिष्टानि निरवद्यानि योगमार्गानुकूलानि समत्वादिसंयमस्थानानि - तत्र सततं वर्तितव्यम् । इह-परलोकविषये जीवित - मरणादिविषये च सदा समदृष्टिना भाव्यम्, यत एतादृश्यवस्थैव मुक्तावस्थाया बीजमस्ति । अथोपसंहरन्नाह परिशुद्धचित्तरयणो चएज्ज देहं तदंतकाले वि । आसण्णमिणं णाउं अणसणविहिणा विसुद्धेणं ॥ ९६ ॥ अणसणसुद्धीए इहं जत्तोऽतिसएण होइ कायव्वो । जल्लेसे मरइ जओ तल्लेसेसुं तु अववाओ ॥ ९८॥ लेसाण वि आणाजोगओ उ आराहगो इहं नेओ । इहरा असतिं एसा वि हंतऽणाइम्मि संसारे ॥ ९९ ॥ ता इय आणाजोगो जइयव्वमजोग - अत्थिणा सम्मं । एसो चिय भवविरहो सिद्धीए सया अविरहो य ॥१००॥ ६९ Page #83 -------------------------------------------------------------------------- ________________ परिशुद्धचित्तरत्रः त्यजेद् देहं तदन्तकालेऽपि । • आसन्नमेनं ज्ञात्वाऽनशनविधिना विशुद्धेन ॥९६॥ अनशनशुद्धाविह यत्त्रोऽतिशयेन भवति कर्तव्यः । यल्लेश्यो म्रियते यतस्तल्लेश्येष्वेवोपपद्यते ॥९८॥ लेश्यायामप्याज्ञायोगत एवाऽऽराधक इह ज्ञेयः । इतरथाऽसकृदेषाऽपि हन्ताऽनादौ संसारे ॥ ९९ ॥ तत एवमाज्ञायोगे यतितव्यमयोगतार्थिना सम्यग् । एष एव भवविरहः सिद्धेः सदाऽविरहश्च ॥ १०० ॥ एवं चाऽऽजीवनमुचितवृत्याः सेवनेन येन स्वकीयं चित्तरत्नं परिशुद्धं विहितं तादृश आत्मा स्वज्ञानेनाऽऽगम-देवता - प्रतिभा - स्वप्नादिभिर्वा स्वीयं मरणकालं सनीपं ज्ञात्वा विशुद्धेनाऽनशनविधिना देहं त्यजेत् । अनशनस्य विशुद्धावप्यतिशयेन यत्नो विधेयः, यतो मृत्युकाले यादृशी लेश्याआत्मपरिणामविशेषो वर्तते तदनुरूपैव गतिः प्राप्यते । शास्त्रेऽप्युक्तमस्ति 'जल्लेसे मरइ तल्लेसे उव्वज्जइ' ( यल्लेश्यो म्रियते तल्लेश्य उपपद्यते ) इति । I अन्यच्च, केवलं शुभलेश्या - केवलं शुभात्मपरिणाम एव नोपकुरुते, यतोऽनादावस्मिन् संसारे तादृशी शुभलेश्या त्वनेकशः प्राप्ता तद्द्द्वारा च शुभा गतिरपि प्राप्ता किन्तु कर्मणामभावरूपो मोक्षो न तन्मात्रेण प्राप्यते । यतस्तत्राऽऽज्ञायोगस्य सम्यग् - दर्शना-दिपरिणामस्याऽभाव आसीत् । अतोऽत्र शुभलेश्यया सह सम्यग्दर्शनादिपरिणामरूप आज्ञायोगोऽ प्यावश्यकोऽस्ति, तथैव चाऽऽत्माऽऽराधको भवतीष्टफलं च प्राप्नोति । अत एव च योऽयोग्यवस्थामभिलषति तेनाऽऽत्मना त्वाज्ञायोगे एव सततं सम्यक्तया च यत्नो विधेयः । यत एष आज्ञायोग एव भवविरहोऽस्ति सिद्धिगतेश्चाऽविरहोऽप्येष एवाऽस्ति । अर्थादेष आज्ञायोगो भवविरहस्य कारणमस्ति मोक्षप्राप्तेश्चाऽपि कारणमस्ति इति । ७० Page #84 -------------------------------------------------------------------------- ________________ 62 आस्वादः चिन्तनधार मुनिरत्नकीर्तिविजयः आहारार्थं कर्म कुर्यादनिन्द्यं, स्यादाहारः प्राणसन्धारणार्थम् । प्राणा धार्यास्तत्त्वजिज्ञासनाय, तत्त्वं ज्ञेयं येन भूयो न भूयात् ॥ प्रवृत्तिर्द्विधा भवति- (१) प्रयोजनमुद्दिश्य (२) इच्छामनुसृत्य च । द्वयोरपि मध्ये महदन्तरमस्ति । प्रयोजनं हि तदस्ति यत् सिद्ध्यति, सिद्धे च सति तृप्तिमप्यनुभूयेत, परमिच्छा तु सा या न पूर्णा भवति । भाग्ययोगेन पूर्णायां सत्यामप्यतृप्तिरेव जनयेदिति । प्रयोजनं नियतं भवति, इच्छा तु न तथा । इच्छा लघुस्वरूपेणोद्भूय वायुवच्छनैः शनैर्विस्तरति । प्रयोजनस्याऽन्तो विद्यते यश्च प्राप्तुमपि शक्यते किन्त्विच्छाया अन्तो दृश्यमानः सन्नपि ग्रहीतुं प्राप्तुं वा न शक्यते । किं मूलमस्त्यस्माकं प्रवृतेः प्रयोजनमुतेच्छा ? इति संशोध्यमस्माभिः । अविरतं वयं प्रवृत्तिनिरताः स्मः । कदाचिद् वयमेतदपि न जानीमो यदेतत्सर्वमपि वयं किमर्थं कुर्मः ? इच्छाया एकमन्तं गृहीत्वाऽपरान्तस्य प्रापणस्य मिथ्येहां वहमाना वयं सततं धावामः । अन्ततोगत्वा च मुखेऽतृप्तेविषाद एव लिप्तो दृश्यते । जीवनस्याऽन्तकालेऽपि तस्या अपरोऽन्तो न प्राप्यते । जीवश्चाऽनवाप्तबोध एवेहलोकं त्यक्त्वा प्रयाति । अतो यदि नाम वयमस्माकं प्रवृत्तेर्मूलं शोधयेम, इच्छायाः स्वरूपमुपलक्ष्य च प्रयोजनमेवोद्दिश्य ) प्रवर्तेमहि तर्खनेकेभ्यो विषादव्यथासन्तापादिभ्यो मुञ्चेम । - अत्र श्लोके प्रवृत्तेर्जीवनस्य चाऽपि वास्तविकानि मूलभूतानि प्रयोजनानि दर्शितानि सन्ति । तदनुसरणमेव सुखस्य मार्गः । तत्र-आहारार्थं कर्म कुर्यादनिन्द्यम् - न कर्म विना संसारः प्रवर्तते । अनिवार्यस्य । कर्मणोऽत्र यथा प्रयोजनं दर्शितमस्ति तथा मर्यादाऽपि निर्दिष्टाऽस्ति । आहारार्थं कर्म कुर्यादिति प्रयोजनमस्ति, अनिन्द्यं कर्म कुर्यादिति च मर्यादा । एतद् द्वयं यत्र विद्यते 19 तत्र संसारे स्वर्गमेव भवति । अपेक्षा यद्यल्पाः स्युस्तहि पापं नाऽनिवार्यं भवति । । अस्माकमपेक्षा आहारमाजीविकां वाऽतिक्रम्य प्रवर्तन्ते, अत एव चाऽस्माभिः कथनीयं । ७१ Page #85 -------------------------------------------------------------------------- ________________ - 14 भवति यत् पापं विना संसारो न प्रचलति । सत्यमेतद् यत् पापं विना संसारो न । प्रचलति किन्तु जीवनम् ? तत्तु पापं विना प्रचलत्येव । अस्माकं कर्मणः प्रयोजनं न (0 केवलमाहारः किन्त्विच्छापूर्तिरस्ति । तदेव च निन्द्यकर्मणि प्रेरयति प्रवर्तयति च । अनिन्द्यकर्मेत्येतद् जीवनधर्मोऽस्ति । आत्मिकधर्मस्य तु वार्ताऽपि दूरेऽस्ति । तत्प्राप्तेः पूर्वं जीवनधर्मस्य सिद्धिरनिवार्याऽस्ति । जीवनस्य नैतिकमूल्यानि येन न ज्ञातानि नाऽप्यात्मसात्कृतानि स कथं नामाऽऽत्मिकधर्मं प्राप्तुं स्थिरीकर्तुं सिद्धं वा कर्तुं शक्नुयात् ? जीवनतत्त्वं प्रति यस्य चित्ते आदरः प्रवर्तते तदर्थमेतदनिन्द्यपदं साधनास्वरूपमस्ति । यस्य च मनसि भौतिकतैव विलसति तदर्थं त्वेतदुन्मत्तालापस्वरूपम् । अनिन्द्यकर्मेत्ये-- तदुन्नतेर्यात्रायाः प्रथमं चरणम् । तादृशकर्मणि च परमाध्यात्मस्थितेर्बीजं निहितमस्ति, तस्यैव चाऽपरनामाऽस्ति मानवता। अन्यायेन निन्द्यकर्मणा वा प्राप्तात् स्वादुभोजनात् न्यायेनाऽनिन्द्यकर्मणा वा प्राप्त साधुभोजनं वरम् । तदमृततुल्यं भवति, तस्योद्गारेऽपि माधुर्यमेवाऽनुभूयते । निन्द्यकर्मणा प्राप्तं भोजनं तु विषतुल्यम् । तस्योद्गारेऽतृप्ति-लोभ-कषाय-व्यसनादीनां दुर्गन्धोऽनुभूयते । विषयाणां लौल्यं यदा मन्दं भवति तदैवाऽनिन्द्यकर्मणि प्रवर्तनं शक्यं भवति । सन्तोष-मैत्री-स्वपरहितबुद्धयाद्यनेकगुणास्तत्र प्रवर्तनेऽनिवार्याः सन्ति । यत एतादृशो गुणवान् जनो जानात्येव यदाहारस्तु केवलं शरीरपुष्ट्यर्थं शरीरस्वास्थ्यार्थं वाऽस्ति न तु जिह्वालौल्यपोषणार्थं मनस्तुष्ट्यर्थं वा - स्यादाहारः प्राणसन्धारणार्थम् - आहारस्तु प्राणानामुपष्टम्भः - इति बोधो यदा स्पष्टो भवति तदैवाऽऽहारगतः स्थल-काल-भंक्ष्याभक्ष्यपेयापेयादिविवेको जागृतः स्यात् । प्रमाणभानमपि च तदैव शक्यम् । अन्यथा वर्तमानकालस्य वातावरणेन को नामाऽनभिज्ञोऽस्ति ? । जीवनार्थमाहारोऽस्त्युताऽऽहारार्थ जीवनमित्येतदेव न ज्ञायते । आत्मिकसत्त्वादपि वयं शारीरिकी शक्तिमधिकं महत्त्वपूर्णां गणयामः । एतद्दौर्बल्यमुपलक्ष्यैव पाश्चात्यैरस्माकं विचारधारा परिवर्तिता । ते यन्निर्दिशन्ति तदेव मान्यं गणयित्वा तादृशमेवाऽऽहारं वयं गृह्णीमः । किन्त्वेतामाहारपरिवर्तनस्य नीतिं पुरस्कृत्य तेऽस्माकं प्राणानां संकटं निर्मिमत एव, यतस्तेषां मनसि नाऽस्त्यस्माकं जीवनस्य किञ्चिदपि मूल्यं, किन्तु सार्द्धमेवाऽस्माकं विचारेषु स्थिताया अध्यात्मस्य पक्षपातरूपायाः ७२ Page #86 -------------------------------------------------------------------------- ________________ सात्त्विकताया अपि हासं नाशं च ते कुर्वन्ति । किन्तु न केवलं वयमेतद् न जानीमः परं लक्ष्यमपि तत्र नास्त्यस्माकम् । विडम्बनैवैषा खलु ? विचारेभ्योऽपि सत्त्वं येषां नष्टं ते कथं स्वसंस्कृति रक्षितुमलं भवेयुः ? नैवैतच्छक्यम् । यथाऽऽहारस्तथा विचाराः, यथा विचारास्तथाऽऽचार:-वैज्ञानिक तथ्यमेतद् ।। पाश्चात्यानां कृते तु शरीरं विलासितायाः साधनमस्ति किन्त्वस्माकं कृते तु तद् । धर्मस्य साधनमस्ति । 'शरीरमाद्यं खलु धर्मसाधन'मित्युक्तिरप्यस्ति । अत एव च पाश्चात्याः शक्ति महत्त्वपूर्णां गणयन्ति वयं च सात्त्विकताम् । सत्त्वहीन एव विलासिताया मार्ग . स्वीकरोति । यश्च सत्त्वशीलः स तु विचारयति यत् 'कथमस्य शरीरस्य सार्थक्यं स्यात् ? किमर्थमेतज्जन्माऽस्ति? प्राप्तानामेतासां सामग्रीणां प्रयोजनं किम् ? अस्य जगतः, जगति च वर्तमानानां भावानां कोऽर्थः ?' इति । सत्यं तत्त्वं वा ज्ञातुं तस्येच्छा प्रबला जायते - प्राणा धार्यास्तत्त्वजिज्ञासनाय - किं सत्यम् ? किमसत्यम् ? किं १) हितम् ? किमहितम् ? सर्वस्या अपि परिस्थितेर्मूलं किम् ? एतादृशी जिज्ञासा यदा ) जागृता भवति तदन्वेव ज्ञानमुदेति । नित्यं जायमानैरनुभवैः, सत्पुरुषाणां वचनानां श्रवणेन पठनेन च ज्ञानं बोधो विवेको वा जागृतो भवति, जनं चाऽऽत्मलक्षिणं करोति । तत्त्वबोध एवौदार्य-सहिष्णुता-धैर्य-परोपकार-गुणग्राहितादिगुणान् प्रापयति । रागद्वेषअहंममेत्यादीनि सर्वाण्यपि द्वन्द्वानि विलीयन्ते । पश्चात् संसारेऽपि कदाचित् कर्मवशात् वासः स्यात् तद्यपि स यत्किमप्यनिवार्यं कर्म कुर्यात् तेन तु स न लिप्येदेव । तत्तस्य कर्म हि शुष्कवस्त्रोपरिस्थरजस्तुल्यं भवति, यच्च विनाऽऽयासेनैव क्षरेत् । संसारं प्रति तस्य रागो निर्मूलो भवति । 'निवृत्तरागस्य गृहं तपोवनम्' इति वचनं तत्र चरितार्थतां याति । स्यान्नाम तस्य संसारे वास: किन्तु संसारस्तु तस्मान्निवृत्तो जायते । प्रत्येकमपि 6 प्रवृत्तौ तस्य बोधस्य-ज्ञानस्य निर्मलता सततमनुभूयते । न केवलं वाणी अपि तु चारित्रमाचार एव वा बोधस्य वास्तवं परीक्षणम् । एतादृशमाचारेण सह तद्रूपतां गतं तत्त्वज्ञानमेव जन्ममृत्योश्चक्रात् मोचयति, नाऽन्यत् । तदेव च तत्त्वज्ञानस्य वास्तवं फलमपि - तत्त्वं ज्ञेयं येन भूयो न भूयात् इति । For Private Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ स आस्वादः LAT CO दान-प्रदान-सम्प्रदानानि || शास्त्री व्रजलालभाई वी. उपाध्याय जानकी अपार्टमेन्ट, पहेले माळे, लाला मेतानी शेरी, जामनगर-३६१००१ : दानप्रदानसम्प्रदानानि शरीरान्तःकरणात्मनां शुभंकराणि । सचेतनप्राणिशरीरस्वस्थतादायकं (प्रापकं) दानम्-अनुकम्पा । सचेतनप्राण्यन्तःकरणप्रसन्नतादायकं प्रकृष्टं दान-प्रदानम्-जीवनोपकारि । अथच सचेतनस्य प्राणिनो जीवस्य स्वकीयान्तरधनदर्शनोपयोगि देवगुरुशास्त्रदर्शितदिशा प्रवचनप्रभावनाप्रभावकं यत्प्रदानं तत् तु सम्यक्प्रदानम्अतः सम्प्रदानम् ; आर्यपुरुषाणामयमेव महोपकारः देहाच्छादनस्थानभोजनादिविकलानां विकलांगानां बुभुक्षापिपासापरिपीडितानां प्राणिनां च तत्तत्कष्टनिवारणसद्भावनोपेतं-शरीरमन्दिरविराजितसुभगात्मदेवसंप्रीणनं प्रीत्युत्पादकं यथाकालं वस्तुद्रव्यप्रदानं दानम्-अनुकम्पापदवाच्यम् । तथैव भूमिकोचित-सात्विकजनसत्त्वसंरक्षणैकभाव-सद्भावकामनापूर्वकं समुचितं 25 प्रभुकृपाप्राप्तसम्पद्वितरणं प्रदानम्-प्रकृष्टदानम् ।। अथ च सर्वातिगं चेतनातन्त्रसमुद्धरणदक्षमात्मैश्वर्यबलवीर्यशक्तितेजःप्रदं परमात्मांस शीभूतजीवसत्ता-चैतन्यात्मकस्वकीयान्तरमूलधनदर्शनपुरःसरं यद् दानं तत्तु सम्प्रदानम् । ७४ Page #88 -------------------------------------------------------------------------- ________________ उक्तं च "ईश्वर अंश जीव अविनाशी चेतन अमल सहज सुखराशि " परोपकाराय सतां विभूतयः सदा सर्वदा वर्तन्ते । दैवी सम्पदेषा - सर्वेषां सुखदा भवित्रीति शम् ॥ या श्रीः सुकृतीनां भवनेषु सा स्वयं श्रीः । यतः सुकृतय एव परमाः सम्पदः । या पापात्मनां भवनेषु सा अलक्ष्मीः । या कृतधियां हृदयेषु सा बुद्धिः । सा एव सतां हृदयेषु श्रद्धा । कुलजनप्रभवस्य तु सा लज्जा । सा पुनः शक्ति: परमात्मकूपात्मिका विद्यैव । पं. व्रजलालोपाध्यायः ७५ Page #89 -------------------------------------------------------------------------- ________________ No M | तस्मै श्री गुरवे नमः डॉ. महेश्वरः रमानाथः द्विवेदी __न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । गीता. अ-४/३८ सत्यमेव कथितं यत् - ज्ञानसदृशं पवित्रं न किञ्चिदपि । यदा ज्ञानचर्चा भवति तदा on ज्ञानवाहकयोर्द्वयोः पात्रयोर्गुरुशिष्ययोर्विचारणां विना चर्चेयमपूर्णैव। अद्य गुरुपूर्णिमासदृशः पवित्रदिवसः, गुरुपूजनस्य दिवसः । स्वाभाविकतया पर स्वजीवने प्राप्ता गुरुजनाः स्मृतिपथे आयान्ति । मनसा स्वगुरून् वन्देम । का अस्माकं शास्त्रकारैस्तु गुरवे ईश्वरतुल्यं कदाचित्तु ईश्वरादप्यधिकतरं स्थानं प्रदत्तम् । र अनेन ज्ञायते यत् – मानवजीवने कीदृशं महत्त्वं गुरुजनानाम् ! श्रीमद्भगवद्गीतायामपि भगवता से श्रीकृष्णेनाऽर्जुनसमीपे स्वकीयं गुरुरूपं प्रकटितमस्ति । कथितं च तत्र- शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् । ईश्वरस्तु सर्वोच्चस्थानारूढः, तथापि स केन कारणेन गुरुर्भवितुमीप्सितवान् ? अनेनैन विचारेण स्पष्टीभवति यत् - गुरोः स्थानमीश्वरादप्यधिकतरमस्तीति । कबीरोऽपि कथयति कबीरा ते नर अन्ध है, गुरुको कहते और । हरि रूठे गुरु ठौर है, गुरु रूठे नहीं ठौर । यो मन्यते यत् - गुरोः स्थानमीश्वरान्न्यूनं स अन्धोऽस्ति । यतः - यदा ईश्वरो विमुखो 3 * भवति तदा तस्योपायो गुरुसमीपेऽस्ति । परन्तु यदा गुरुर्विमुखो भवति तदा नास्ति कोऽप्युपायः । अत ईश्वरादप्यधिकतया गुरुराराधनीयः । ___ यदा गुरुजनानां गुरु-शिष्यसम्बन्धस्य च वार्ता भवति तदा स्वाभाविकतया प्राचीना • अर्वाचीनाश्च गुरवः स्मृतिपथे आयान्ति । प्राचीनकाले श्रीकृष्णः सुदामा च सांदिपनि-आश्रमे समानरीत्यैवाऽभ्यासं कुरुतः स्म। श्रीकृष्णस्तु राजपुत्रः, सुदामा दीनब्राह्मणः । तथापि शिक्षायां ७६ Page #90 -------------------------------------------------------------------------- ________________ र ल नाऽऽसीत् कोऽपि भेदः । सम्प्रतिकाले त्वशक्यमेतत् । श्रीमतां शालायां दीनजनानां कृते प्रवेश एवाऽशक्यः । अत्यन्तं दुःखदायकमिदम् । यदा कोऽपि श्रेष्ठो गुरुजनो मिलति तदा मानवस्य जीवने आमूलं परिवर्तनमायाति । जीवनं धन्यं भवति । अधुना गुरोः शिष्यस्य च - उभयोरपि पक्षयोदिने दिने न्यूनतां दृश्यते । प्राचीना इव 3. गुरवो यथा न विद्यन्ते तथा प्राचीना इव शिष्या अपि न दृश्यन्ते । अधुना गुरुशिष्यसम्बन्धः । समयेऽर्थप्राप्तौ च बद्धो जातः । अनया स्थित्या मानवजीवने तथैव शिक्षणजगति महती हानिः सञ्जाता । अद्यतनशिक्षणतो मानवमूल्यानां हासो जातः । दया, करुणा, प्रेम, परोपकारः, सत्यम्- इत्यादयः शनैः शनै: न्यूनीभवन्ति । चिन्ताया विषयोऽयम् । यदा एतानि मानवमूल्यानि का मानवजीवने प्रस्थापितानि भविष्यन्ति तदैव शिक्षणं सार्थकं भविष्यति । तदर्थं च गुरुशिष्ययोर्मध्ये Com पितापुत्रतुल्य उदात्तः सम्बन्धः पुनः स्थापनीयोऽस्ति । B.A.M.S., M.A. (संस्कृत) नंदपुरम गुरखो बहवः सन्ति शिष्यवित्तापहारकाः । दुर्लभः स गुरुलॊके शिष्यचित्तापहारकः ॥ ७७ Page #91 -------------------------------------------------------------------------- ________________ - आचार्यहेमचन्द्रसूरिकृतं छन्दोऽनुशासनम् के आचार्य डॉ. रामकिशोर मिश्रः २९५/१४, पट्टीरामपुरम् खेकड़ा-२०११०१ (बागपत) उत्तरप्रदेश: छन्दोदृष्ट्या छन्दोऽनुशासनमेका महत्त्वपूर्णरचना विद्यते । अत्र संस्कृतप्राकृताऽपभ्रंशसाहित्यिकच्छन्दोनिरूपणम् । अस्य रचयिताऽऽचार्यहेमचन्द्रसूरिरस्ति । अस्य जन्म 6 गुर्जरप्रदेशे धंधुकानगरे शरयुगचन्द्रेश्वराऽङ्किते ११४५ वैक्रमाब्दे कार्तिक्यां रात्रौ बभूव। अस्य बाल्यनाम चाङ्गदेव आसीत्, यः सूरिपदं प्राप्य हेमचन्द्रनाम्ना विख्यातः । अयं पूर्णतलगच्छीयदेवचन्द्रसूरिशिष्योऽणहिलपुरपत्तनस्य नृपतिसिद्धराजजयसिंहसभाप्रमुखोप का विद्वान्महाराजकुमारपालस्य च धर्मगुरुरासीत् ।। अस्य पिता चाचिगो माता च का पाहिणीनामिकाऽऽसीत् ।२ । को मेरुतुङ्गकृतप्रबन्धचिन्तामणौ देवचन्द्राचार्येण स्तम्भतीर्थस्य पार्श्वनाथचैत्यालये - समुद्रबाणभूचन्द्राऽङ्किते ११५४ विक्रमाब्दे माघशुक्लचतुर्दश्यां शनिवासरे चाङ्गदेवस्य दीक्षानाम सोमचन्द्रः कृतः प्राप्यते, परमन्यत्राऽस्य दीक्षासंवत् खव्रतरुद्राङ्कितो११५० ऽस्ति । परं रसदोषरुद्राङ्किते ११६६ विक्रमसंवदि सोमचन्द्रेण सूरिपदं प्राप्य हेमसमकान्त्या कर CON चन्द्रसमाह्लादकतया च हेमचन्द्रसंज्ञाऽधिगता ।' विधुवसुरुद्रसंवदि ११८१ सिद्धराज-10 जयसिंहसभायामस्य हेमचन्द्रसूरिनाम्ना परिचयो लब्धः ।५ जयसिंहशासने हेमचन्द्रसूरिणार ग्रहनिधिरुद्राऽङ्कित ११९९ विक्रमसंवत्पूर्वं शब्दानुशासन-नाममाले द्वे रचने कृते । SR.१. डॉ. नेमिचन्द्रशास्त्री, आचार्यहेमचन्द्र और उनका शब्दानुशासन, पृ. ९ २. चन्द्रदेवसूरिकृते प्रभावकचरिते हेमचन्द्रसूरिः, ११-१२ श्लोकौ । प्रभावकचरितम्, २७-४५ पद्यानि । आचार्य हेमचन्द्र और उनका शब्दानुशासन, पृष्ठ - १३, १४ । ५. ह.दा.वेलणकरः, जयदामन्, परिचयः, पृ. ४६ । ६. ह.दा.वेलणकरः, जयदामन, परिचयः, पृ. ४६ । അഭി U. LSO . ७८ Page #92 -------------------------------------------------------------------------- ________________ जयसिंहमृत्योः पश्चादनेन कुमारपालशासने छन्दोऽनुशासनं, काव्यानुशासनं, द्वयाश्रयकाव्यं, त्रिषष्टिशलाकापुरुषचरितं योगशास्त्रं च ग्रन्था विरचिताः । ग्रहाऽऽत्मनेत्रेश १२२९संवदीहलीलाऽस्य समाप्ता । अतश्छन्दोऽनुशासनरचनाकालः सिद्धिग्रहरुद्रान्निधिनेत्रात्मभूमध्ये ११९८ - १२२९ विक्रमाब्देषु सम्भवति । छन्दोऽनुशासनमेकः सूत्रग्रन्थोऽस्ति । अत्र हेमचन्द्रसूरिणा संस्कृत - प्राकृतापभ्रंशभाषाच्छन्दांसि निरूपितानि । मूलग्रन्थः संस्कृतभाषायामस्ति, यस्मिन् स्वोपज्ञवृत्तिरपि संस्कृते हेमचन्द्रकृतैव प्राप्यते । अत्राऽष्टाध्यायाः सन्ति येषु ७४६ सूत्राणि ९७९ छन्दोलक्षणानि च विद्यन्ते । प्रथमाध्याये छन्दोलाक्षणिकचिह्नानि दर्शितानि । द्वितीये तृतीये चतुर्थे चाऽध्यायेऽन्तर्गतानि ६२५ संस्कृतच्छन्दांसि लक्षितानि येषु समार्धसमविषमवृत्तैः सह १० दश द्विपदवृत्तानि सन्ति । चतुर्थपञ्चमाध्याययोरपभ्रंशस्य षष्ठसप्तमाध्याययोश्च प्राकृतस्य ३५४ छन्दांसि लक्षितानि येषु १०४ द्विपदीनि ९९ चतुष्पदीनि, ११३ अर्धचतुष्पदीनि ५ पञ्चपदीनि २ अष्टपदी, ३ द्विभङ्गीनि, २ त्रिभङ्गी, ४ अर्धषट्पदीनि शेषेषु विषमाणि तथाऽन्यानि छन्दांसि सन्ति । संस्कृतच्छन्दसामुदाहरणेषु ६२६ पद्यानि, प्राकृतापभ्रंशच्छन्दसामुदाहरणेषु च ३८० पद्यानि सन्ति । आचार्यहेमचन्द्रसूरिः पद्येषु छन्दांसि मन्यते, गद्येषु न । १० अतस्तेन लोके व्यवहारयोग्यानामेव छन्दसां निरूपणं कृतम् । ११ छन्दसां विषये सैतव- काश्यप-भरतपिङ्गलाऽहीन्द्र- जयदेव - स्वयम्भुप्रभृतिसप्तानां पूर्वाचार्याणां मतानि प्रकाशितानि । ९२ भरतोल्लेखः सर्वाधिकः प्राप्यते, तन्नाम्ना वृत्तौ बहूनां तेषां छन्दसां नामान्तराण्यपि प्राप्यन्ते, येषां प्राप्तिर्वर्तमाने नाट्यशास्त्रे नास्ति । सप्तवाहन - श्रीहर्ष - धनपालादिकवीनां केषाञ्चिच्छन्दसामुदाहरणपद्यान्यपि १३ सन्ति । ग्रन्थे छन्दोऽनुशासने यानि ६२५ संस्कृतवृत्तानि ७- ८. ह. दा. वेलणकर, जयदामन्, परिचयः, पृ. ४६ । ९. ह.दा.वेलणकरः, टीकासहितं छन्दोऽनुशासनम्, मुम्बापुरी, १९६१ । १०. 'गद्यकाव्ये न छन्दसामुपयोगः ' । छन्दोऽनुशासनवृत्तिः - १ / १ । ११. 'काव्योपयोगिनां वक्ष्ये छन्दसामनुशासनम् । छन्दोऽनुशासनम् - १/१ 1 १२. छन्दोऽनुशासनम् - २ /१२ तः २ / ११० सूत्रपर्यन्तम्, वृत्तौ - २ / २४३/१, २४४/१, २९७/१, ३/३२/१, ४४/१, ५२/१, ३२३/१ १३. छन्दोऽनुशासनम् - ३/७३/२, ४/८५/१, ५/३२/३ ७९ Page #93 -------------------------------------------------------------------------- ________________ Cw तलगाः Abov hore - तटी Mm39 रनौ I w w w o 9 र लक्षितानि, तेषु हेमचन्द्रस्य लौकिकच्छन्दःशास्त्रेऽधोलिखितानां चन्द्रग्रह९१-च्छन्दसां र योगदानम् । आचार्यहेमचन्द्रसूरेः ९१ स्थतवलक्षितच्छन्दांसि छन्दोनाम लक्षणम् वृत्तिः पादवर्णाः छन्दोऽनुशासनम् .___(सन्दर्भग्रन्थः)_ o १ - नन्दा सुप्रतिष्ठा ५ २/२८ २ - सावित्री नलगाः सुप्रतिष्ठा २/३० मरौ गायत्री २/३४ गुरुमध्या सभौ गायत्री २/३७ कच्छपी गायत्री २/४४ ६ - गान्धर्वी मौगः २/५२ ७ - हंसमाला ररगाः उष्णिक् २/५८ ८ - विभा तरगगाः अनुष्टुप् २/७२ ९ - गुणलयनी नसगगा अनुष्टुप् २।८४ 30 १०- मही ससलगाः अनुष्टप् २/८५ ११- वक्त्रम् भो मौ बृहती २।८८ तारः सौ मः बृहती २/९८ १३- सौम्या सौ सः बृहती २/९९ १४- सिंहाक्रान्ता भमसाः बृहती २/१०५ १५- प्रणवः मनसगाः पङ्क्तिः वृत्तिः -२/११०/१ निलया नननगाः पङ्क्तिः २/११५ १७- उषिता जजजगाः पङ्क्तिः २/११६ क. १८- बन्धूकः भनमगाः पङ्क्तिः २/११८ १९- कलिका रमसगाः पङ्क्तिः १० .२/१२१ उष्णिक् चयन 02 टायट uur a aa a aor or a DU का (CN ८० Page #94 -------------------------------------------------------------------------- ________________ छन्दोनाम २०- प्रत्यवबोधः २१ - रोचक: २२ - विदुषी २३- वातोर्मिः २४ - सारणी २५- कल्याणम् २६ - कमुदिनी २७- मेघावलिः सजयलगाः ममममाः रयनया: नरररा: नननसाः जससयाः नतौ तरौ गः मौजौ गः नौ मरौ गः ननरयगाः जतसजगाः ३५- लयः नसजजगाः ३६ - विद्युन्मालिका नसततगाः २८ - ह्री: २९ - कोलः ३०- क्षमा ३१- श्रेयोमाला ३२- क्ष्मा ३३- चन्द्रिका ३४- मञ्जुभाषिणी ३७- अभ्रक: ३८- कोड्डम्भः ३९- सिंहः ४० - सुकेशरः लक्षणम् भतना गौ भौरगौ गः सौ सौ गः मभौ भगौ गः तमौ जौ गः मतौ सरौ गः नमौ रसौ लगौ नरौ नरौ लगौ वृत्ति: त्रिष्टुप् त्रिष्टुप् त्रिष्टुप् त्रिष्टुप् त्रिष्टुप् जगती जगती जगती जगती जगती For Private पादवर्णाः छन्दोऽनुशासनम् (सन्दर्भग्रन्थः ) २/ १२३ २/१२७ २/१३१ २/१३७ २/१५३ २/१७३ २/१८५ २/१८८ २/१९२ २/१९३ २/२०० २/२०१ २/ २०३ २/२०५ २/२०६ २/२०८ २/२०९ २/२१५ २/२१६ २/२२८ २/२३३ ११ ११ ११ ११ ११ १२ १२ १२ १२ १२ अतिजगती १३ अतिजगती १३ अतिजगती १३ अतिजगती १३ अतिजगती १३ अतिजगती १३ अतिजगत १३ अतिजगती १३ अतिजगती १३ १४ १४ शक्वरी शक्करी ८१ersonal Use Only Page #95 -------------------------------------------------------------------------- ________________ रा १५ की छन्दोनाम लक्षणम् वृत्तिः पादवर्णाः छन्दोऽनुशासनम् (सन्दर्भग्रन्थः) ४१- इन्दुवदना भजसनलगाः शक्करी १४ २/२३८ ४२- शरभललितम् । नभनतगगाः शक्करी २/२३९ का ४३- चन्द्रलेखा ररमययाः अतिशक्वरी २/२५१ ER ४४- गौ ननभभराः अतिशक्करी २/२५७ So ४५- भोगिनी । ननरययाः अतिशक्करी १५ २/२५८ on ४६- शिशुः तजसाः सयौ अतिशक्करी १५ २/२५९ ४७- केतनम् भयसाः सयौ अतिशक्चरी १५ २/२६० • ४८- मृदङ्गम् तभजा जरौ अतिशक्करी १५ २/२६१ • ४९- कामुकी मौ मौ मगौ अष्टिः २/२६६ ५०- कामुकी सौ सौ सगौ अष्टिः २/२६७ ५१- चलधृतिः नौ नौ नगौ अष्टिः २/२६८ ५२- सुरतललिता ___मनसतरगाः अष्टिः २/२८० ५३- वाणिनी नजभजा जगौ गः अत्यष्टिः २/२९९ ५४- चित्रलेखा मतनया यौ धृतिः २/३०३ ५५- भङ्गि भौ भौ तयौ धृतिः २/३१९ ५६- बुबुदः सजसजतराः धृतिः । २/३२० ५७- मुग्धक: यमौ नौ रौ गः अतिधृतिः २/३२९ ५८- तरुणीवदनेन्दुः सौ सौ सौ गः अतिधृतिः २/३३३ ५९- सद्रत्नमाला . मनसनमयलगाः कृतिः २/३४० ६०- मत्तक्रीडा ममतनननसाः प्रकृतिः २१ २/३४८ ६१- चपलगतिः भमसभनननलगाः विकृतिः २३ २/३६३ . do ६२- सुभद्रम् भौ भौ भौ भौ संकृतिः २४ २/३६८ ६३- चपलम् नजजयननननगाः अभिकृतिः २५ २/३७५ mo०० mm ८२ Page #96 -------------------------------------------------------------------------- ________________ पा क fe छन्दोनाम लक्षणम् पादवर्णाः छन्दोऽनुशासनम् (सन्दर्भग्रन्थः) दण्डकाः ६४- मालावृत्तम् मतौ तौ नौ यौ यः २/३८१ ६५- पन्नगः१४ नतौ तौ तौ तौ तगौ २/३९० ६६- प्रमोदमहोदयः मययतनननरसलगाः २/३८२ ६७- दम्भोलिः नतौ तौ तौ तौ तौ गः २/३९० ६८- हेलावलिः नततततततततततगाः २/३९० ६९- मालती नतौ तौ तौ तौ तौ तौ गः ३७ २/३९० COD ७०- केलिः नतौ तौ तौ तौ तौ तौ तगौ ४० २/३९० ७१- ककेल्लिः नतौ तौ तौ तौ तौ तौ तौ गः ४३ २/३९० ७२- लीलाविलासः नतौ तौ तौ तौ तौ तौ तौ तगौ ४६ २/३९० र ७३- उत्कलिका यथेच्छं केऽपि पञ्चमात्रगणा:१५ (असीमितवर्णाः) २/४०१ अर्धसमवृत्तानि ७४- मकरावलिः नभभराः, नमभभराः १२, १५ ३/१२ ७५- करिणी मससगाः, सभभसाः १०, १२ ३/१३ - मानिनी मरनजनलगाः, नजभजनसाः १७, १८ ३/१९ ७७- कामिनी रः, जरलगाः ३/२० ७८- शिखी रः, जरजराः ३/२१ ७९- नितम्बिनी रः, जरजरजगाः ०३, १६ ३/२२ ८०- वारुणी रः, जरजरजरलगाः ०३, २० ३/२३ ८१- वतंसिनी रः, जरजरजरजराः ०३, २४ ३/२४ ८२- वानरी जरलगाः, रः ०८, ०३ ३/२५/१ वृत्तिः हेमचन्द्रेण पन्नगलक्षणं (नगौ रौ रौ रौ रौ)कृतं, यत् पिङ्गलानुसारेण (नतौ तौ तौ तौ तगौ) भवति । यगणस्तगणो रगणश्च पञ्चमात्रगणा भवन्ति । For Privatpersonal Use Only Page #97 -------------------------------------------------------------------------- ________________ areer ११ र छन्दोनाम लक्षणम् पादवर्णाः ___ छन्दोऽनुशासनम् (सन्दर्भग्रन्थः) ८३- शिखण्डी जरजराः, रः १२, ०३ ३/२५/२ वृत्तिः 00८४- सारसी जरजरजगाः, रः १६, ०३ ३/२५/३ वृत्तिः का ८५- अपरा जरजरजरलगाः, रः २०, ०३ ३/२५/४ वृत्तिः ८६- हंसी जरजरजरजराः, रः २४, ०३ ३/२५/५ वृत्तिः ८७- हला सलगाः, सससलगाः । ३/२६ ८८- मृगाङ्कमुखी . सलगाः, सौ सौ सौ सौ ०५, २४ ३/२७ द्विपदमात्रावृत्ते 0८९- अतिरुचिरा २७ ला:+गः, २७ लाः+गः २८, २८ ३/३१ ९०- अतिरुचिरा २८ ला:+गः, २८ ला:+गः २९, २९ ३/३२ चतुष्पदमात्रावृत्तम् Ge, ९१- पद्धतिः ४ चतुर्मात्रगणा६ १५,१५,१५,१५ ३/७३ अन्ते च जो नो वा o आचार्यहेमचन्द्रसूरेः ६२५संस्कृतच्छन्दस्सु ९१संस्कृतच्छन्दांसि स्वतन्त्ररूपेण लक्षितानि सन्ति । शेषाणि ५३४ संस्कृतच्छन्दांसि, यानि छन्दोऽनुशासने हेमचन्द्रेण 105 कर लक्षितानि सन्ति, तानि पूर्ववर्तिच्छन्दोलक्षणकारभरत-पिङ्गल-पुराणकार-कालिदास जनाश्रय-जयदेव-स्वयम्भु-नन्दिताढ्य- भट्टोत्पल-जयकीर्ति-विरहाङ्क-राजशेखर-क्षेमेन्द्र केदारभट्ट-रत्नमञ्जूषाकाराणां नाट्यशास्त्र-छन्दःसूत्राऽग्निपुराण-श्रुतबोध-च्छन्दोविचितिOD जयदेवच्छन्दः-स्वयम्भुच्छन्दोगाथालक्षण-बृहत्संहितावृत्ति-च्छन्दोऽनुशासनॐ वृत्तजातिसमुच्चय-छन्दःशेखर-सुवृत्ततिलक-वृत्तरत्नाकर-रत्नमञ्जूषादिग्रन्थेषु प्राप्यन्ते । अतो की हेमचन्द्रस्य संस्कृते ९१ स्वतन्त्रलक्षितानि छन्दांसि सन्ति । ER १६. जगणो भगणः सगणश्च चतुर्मात्रगणा भवन्ति । शब्द-प्रमाण-साहित्य-च्छन्दोलक्ष्मविधायिनाम् । श्रीहेमचन्द्रपादानां प्रसादाय नमो नमः ।। (श्रीरामचन्द्रसूरिः गुणचन्द्रसूरिश्च) NOK ८४ Page #98 -------------------------------------------------------------------------- ________________ पत्रम् नमो नमः श्रीगुरुनेमिसूरये ॥ आत्मीयबन्धो ! चेतन ! धर्मलाभोऽस्तु । तव कुशलं कामये । दक्षिणप्रदेशस्य विविधानुभवान्वितां दीर्घं विहारयात्रां समाप्य गूर्जरदेशे आगतवन्तो वयं सर्वेऽपि । तस्यां विहारयात्रायां मयैकदा लघुः कासारो दृष्टः । तत्र पङ्कस्थितमपि स्फटिकवदुज्ज्वलं रमणीयं च पङ्कजं मयाऽदर्शि । तस्य सौन्दर्यं निरीक्ष्य चित्ते प्रसत्तिः सञ्जाता । दशक्षणान् तत्रैव स्थितवानहम् । पङ्कजस्य वैचित्र्यं वीक्ष्योत्पत्तिः कुतः ! स्थानं कुत्र ! एवं सत्यपि तस्य स्वरूपं जीवनं च कीदृशं सुन्दरं खलु ? इति मनस्यूहापोहो जातः । मुनिधर्मकीर्तिविजयः बन्ध ! अस्माकं जीवने प्रकृतिर्न केवलं सहयोगिनी, अपि तु सा बोधदायिनी चित्ताह्लादकारिणी चाऽप्यस्ति । चन्द्रस्तारकं वृक्षो मेघः पुष्पं फलं विद्युच्चेत्यादीनि सर्वाण्यपि प्रकृतेरङ्गानि सन्ति । अस्माकं परमसौभाग्यं यद्, जगति सर्वतस्तान्यङ्गानि विराजन्ते । प्रतिक्षणं तान्यस्मभ्यमानन्दं बोधं च ददन्ति, यदि विकसिता गुणग्राहिणी च दृष्टिः स्यात् । नगरवासिनां त्वादृशानां जनानां कृते कदाचित् कारुण्यमुत्पद्यते यतो भवन्तो धनैकलक्ष्याः सुखप्राप्तिमात्रप्रयत्नाश्च प्रकृतेः सौन्दर्याद् विमुखीभवन्ति । प्रकृतेदर्शनमपि केभ्यश्चिदेव रोचते तथा येभ्यो रोचते, तेषां जीवनमपि प्रकृतेः सौन्दर्यवद् विविधरङ्गयुतं रमणीयं दर्शनीयं शान्तियुतं च भवति । अहमपि तत् पङ्कजं दृष्ट्वा शान्तिमानन्दं चाऽनुभवन् स्वस्थानं गतवान् । तदा मार्गे येऽनेके विकल्पाः सञ्जाताः, तान् वर्णयामि । ८५ Page #99 -------------------------------------------------------------------------- ________________ किं त्वया पङ्कस्थितं पङ्कजं दृष्टं खलु ? पङ्काज्जायते इति पङ्कजमिति तस्य शब्दस्य व्युत्पत्तिरस्ति । तस्मिन् पङ्कजविषये परामर्शे कृते सति सकौतुकमाश्चर्यं भवति यत्, पङ्के जन्म, तत्रैव स्थानम्, निरन्तरं दुर्गन्धिजल- कर्दम- क्षुद्रजन्तुभिस्सहैव सङ्गतिश्च । एवं सत्यपि तत् पङ्कजं जनेषूत्तमसुरभि प्रसारयति, जनानां चित्तं प्रसादयति, तथा सर्वपुष्पजातिषु सर्वोपरितया प्रवर्तते । आ निर्धनेभ्यः चक्रवर्तिपर्यन्तं सर्वैरप्युपासमानाया लक्ष्मीदेव्यास्तदासनतया राजते । अहो ! पङ्के जनित्वाऽपि तेन पङ्कजेन कीदृशं माहात्म्यं प्राप्तम् ! यदि पङ्कजमेवं चिन्तयेद् यत्, "पङ्के मम जन्म, तत्रैव वासः, तथा कर्दमक्षुद्रजन्त्वादिभिः सहवर्त्तिभिर्यत् क्रियते आचर्यते च तदेव मयाऽपि करणीयमाचरणीयं च, यद्यहं तन्न कुर्यां तर्हि ते सहवर्त्तिनो मां निन्देयुरिति । तर्हि किं तत्पङ्कजमेतादृशीं महत्तामेतावच्च सन्मानं प्राप्तुं शक्नुयात् खलु ? अशक्यम् । किमप्येतादृशमचिन्तयित्वा तेन पङ्कजेन केवलमूर्ध्वं गन्तुमेव विशेषः प्रयत्नः कृतः । स्वकीयेन पुरुषार्थेन समीप स्थितं मलिनं वातावरणमावरणं बन्धनं दुष्टजन्तूनां संगतिं च विच्छिद्य जीवने नावीन्यं प्रकटीकृतं तेन । तथा जीवनेऽन्धकारमपास्य प्रदीप्तप्रकाशस्य प्रादुर्भावः कृतः । एवं च वातावरणे एतादृशः सुगन्धः प्रसारितो यतो दूरं वसन्तो भ्रमरा अपि तद्गन्धादाकृष्टाः पङ्कजस्य सामीप्येऽटाट्यन्ते । पङ्के स्थितौ सत्यामपि निर्लेपतया यद्वसनं तत्त्वाश्चर्यमेवास्ति । एव शास्त्रेषु महामुनेरुपमानरूपेण तस्यैव निर्लेपता वर्ण्यते । वाचकः पूज्यश्रीउमास्वातिमहाराज आह- "यद्वत् पङ्काधारमपि पङ्कजं नोपलिप्यते तेन" । (प्रशमरतिप्रकरणम् - १४०) बन्धो ! अस्मान् परितो वर्तमाना स्थितिरपि पङ्कजजन्मस्थलसदृश्येवाऽस्ति । इदानीं वयमपि दुष्टवातावरणे एव वसामः । वर्तमानं सामाजिकं वातावरणं नितरां प्रदूषितं क्लेशमयं सङ्घर्षमयं चाऽस्ति । वातावरणेऽस्मिन् धर्मश्रद्धायाः सद्गुणानां च रक्षणं दुःशकमस्ति । प्रमाणिकता - सत्यनिष्ठा - सारल्यौदार्यपूर्वकं जीवने सन्मार्गे गमनं लोहचणकचर्वणवदतीव कठिनमस्ति । पूर्वं समाजे धर्मनिष्ठस्य मर्यादास्थितस्य च माहात्म्यं वर्तते स्म । तेषां वचनमादेशरूपमिव भाव्यते स्म । अद्य स्थितिर्विपरीता विद्यते, अतो धर्मनिष्ठावान् ८६ Page #100 -------------------------------------------------------------------------- ________________ मूढः, सिद्धान्तमनुसरन् जनो जडः परम्परावादी वा, मर्यादास्थितो मूर्खः, सरलश्च धृष्टः कथ्यते । साम्प्रतं समाजे प्रामाणिकता सत्यनिष्ठा चाऽस्तङ्गतेत्याभाति । अधुना तु दम्भासत्यप्रपञ्च-क्लेश-राग-द्वेषाहङ्कारादिदुर्गुणानां तथा तेषां पोषकस्यैव समाजे स्थानं दृश्यते । अद्य जनैः स्वयोग्यतानुरूपं प्रतिष्ठितं पदं न लभ्यते किन्तु दुष्टकार्यकरणे निपुणः, दम्भप्रपञ्चद्वारेण स्वरचितमायाजालेऽन्येषां पातने कुशलः, पदे पदे रक्तनेत्रश्च तत्पदस्य योग्याधिकारी मन्यते । अर्थाद् यावद्येषु दुर्गुणानां प्रमाणमधिकं तावती समाजे प्रतिष्ठितपदस्य कृते तेषां योग्यताऽधिकेत्यनुभूयते । अस्माकं दुर्भाग्यं यत्, प्रामाणिकता सात्त्विकता सारल्यमौदार्यं चेति शब्दा एव यैर्न श्रूयन्ते ते एव देशे समाजे च श्रेष्ठस्थानेषु विराजमाना दृश्यन्ते । ते प्रतिष्ठितपदाधिकारिणो न समाजोत्कर्षकराणि कार्याणि कुर्वन्ति, कुर्वतां च परेषां विघ्न एवोत्पादयन्ति । तैरेकमेव सूत्रं रचितं "दुष्टं कार्यं कुर्वन्तु उत दुष्टकार्याणि कुर्वतोऽस्मान् साहाय्यं च कुर्वन्तु" इति । आश्चर्यं त्वेतद् यदेतेऽधिकारिणः सामान्यजनेभ्यः सकाशादस्य सूत्रस्याऽवश्यंतया पालनं कारयन्ति । यदि नाम ये केऽपि तस्य विरोधं कुर्युस्तहि ते तान् पीडयन्ति, कदाचित्तु मारयन्ति चाऽपि । अत्र वस्तुतः सामान्यजना न धृष्टा दुष्टाश्च सन्ति । किन्त्वस्माकं सामाजिक स्थितिरेतादृग्जनानां च मलिनं वर्तनमेव जनान् धृष्टान् करोति । यदैते प्रतिष्ठितपदाधिकारिणः स्वदृष्टिबिन्दुनैवाऽन्यान् पश्यन्ति, तथाऽवश्यंतया तदनुरूपमेव वर्तनं कारयन्ति तदैते सामान्यजना अनन्यगतिकतया परम्परया च धृष्टतामाचरन्ति । एवमेतन्नीतेशाद् विद्वांसः सज्जनाश्च निरन्तरं पीड्यन्ते तथैते निरक्षरा दुष्टाश्च प्रमोदन्ते। नैतत् काल्पनिकं किन्तु वास्तवं नग्नसत्यं चाऽस्ति । वयं सर्वे एतां स्थिति प्रतिदिनमनुभवाम एव ।। पश्यतु, राजकीयक्षेत्रे किं प्रवर्तते ? येऽधिकारवशात् सामान्यजनान् पीडयन्ति, लुण्टन्ति, व्यभिचारं कुर्वन्ति तथा लोकहितस्य व्याजेन कोटिशो रूप्यकाणि स्वोदरे बिभ्रति ते एवाऽस्माननुशासति खलु । एषैव स्थितिर्विविधासु संस्थास्वप्यनुभूयते । यथा कार्यस्याऽकरणं, संचालनेऽराजकता, धनस्य चौर्यम्, पदस्य कृते पदाकर्षणम्, परस्परं - ८७. Page #101 -------------------------------------------------------------------------- ________________ संघर्षश्च, तत्राऽन्यत् किं प्रवर्तते ? हन्त ! अस्मिन् क्लेशमये सामाजिके वातावरणे सत्यपि पापभीरूणां श्रद्धालूनां जीवानां कृते धर्मस्थानमेकमेवोत्तमालम्बनमासीत् । किन्तु कियत्कालादेतेषु निर्मलेषु धर्मस्थानकेष्वपि वातावरणस्याऽस्य प्रभावो विशेषतोऽनुभूयते । अद्यैतेषु स्थानेष्वपि कियन्तः सज्जनवेशधारिणो दुष्टजनाः प्रविष्टाः सन्ति । ते निरन्तरं मिथ्याभिमानाहङ्कारेामहत्त्वाकाङ्क्षादिभिः पीडिताः सन्ति । ते मायाविनः स्वमहेच्छापूर्त्यर्थं धर्मस्य व्याजेन समाजे क्लेशं संघर्षं चोत्पाद्य जनानज्ञानरूपान्धकारे एव रमयन्ति । यतस्ते जानन्ति. यत्, यावज्जना अज्ञानिनः स्युस्तावन्निराबाधं वयं यां कामपि पापलीलां कर्तुं समर्थाः । सज्जनवेशधारिण एते दम्भिनो मायाप्रपञ्चद्वारेण मुग्धजनान् वञ्चयित्वा समाजे स्वमहत्तां स्थापयितुं निरन्तरं प्रयतमानाः सन्ति । अद्याऽत्राऽपि ये दम्भादिकमाधिक्येन विरचयितुं शक्ताः, तेषां समाजे विशेषतो माहात्म्यमनुभूयते । किञ्च- सङ्कचितबुद्धीनामस्माकं मानसं विचित्रमस्ति । अद्य यदि कश्चित् सामाजिकी विचित्रां नीति, स्वविकासे विघ्नरूपं बन्धनं, दुष्टरूढिं मान्यतां चाऽपाकृत्याऽऽत्मिक विकासस्य कृते शुद्धमार्गमनुसरेत्, वैशिष्ट्यं धारयेच्च तर्हि कैश्चिद् दुर्विदग्धजनैमूखैश्च "एष समाजद्रोही पलायनवादी चेति कथ्यते, किन्तु तन्नोचितम् । समाजे प्रवर्तमानां दुष्टप्रणालिकामपास्य सत्यस्य मार्गे यद् गमनं तन्न द्रोहो न च पलायनवादः । वस्तुतः स्वेच्छापूर्त्यर्थमशुभप्रणालिकायाः स्थापनम्, असत्यस्य मार्गस्याऽनुसरणं, सामान्यजनानामुन्मार्गे नयनमेव समाजद्रोहोऽस्ति । आश्चर्यं त्वेतदस्ति यत्, ह्यो यः समाजप्रेमी प्रामाणिकश्च कथ्यते स्म स क्षणमात्रेणैव समाजद्रोही दुष्टश्च भवति । यत एतेन स्वजीवने एकान्ते कृतानि नैकानि पापानि दुष्टाचरणानि च ज्ञातानि । ततः कदाचित् स तानि पापानि प्रकटिष्यन्तीति भीत्यैव सामान्यजनान् तिरस्कुर्वन्त्येते जनाः, तथा "द्रोही दुष्टः" इत्युक्त्वा समाजे तेषामवमाननं विधाय स्वकीयां पापलीलामाच्छादयितुं प्रयतन्ते । अत्र न सत्यस्याऽसत्यस्य वा प्रश्नोऽपि तु स्वप्रतिष्ठायाः प्रश्नोऽस्ति । अत एवैते दुष्टा एवं विपरीतं वर्तन्ते । एषा दुर्दशाऽस्माकं समाजस्याऽस्ति । एतादृश्यां स्थितौ सद्भावनाया रक्षणं ८८ Page #102 -------------------------------------------------------------------------- ________________ नितरां कठिनमस्ति । तथापि पङ्कजवदस्मिन् मलिने वातावरणे दुष्टालम्बनमध्ये च स्थित्वैवाऽस्माभिः सन्मार्गे गन्तव्यं, लक्ष्यं प्रापणीयं च, तथा सद्गुणरूपसुगन्धमयं जीवनं करणीयमस्ति । अस्मिन् वातावरणे स्वचिन्तनमात्मकल्याणचिन्तनं चैव श्रेयस्करमस्ति, तदर्थमुचितविवेक आवश्यकः । विवेकमग्रे कृत्वैव सर्वमपि कार्यं करणीयम् । कस्मिन्नपि कार्यकरणे एतन्मे हितकरमुचितं चाऽस्ति न वेति विचिन्त्य सविवेकं व्यवहरणीयम् । प्रतिक्षणं जागृतेन भवितव्यम् । एवं त्वं निरीक्षणशक्तिं विचारधारां च दृढय । यदि, स्वजना मित्राणि च स्वार्थतया दुष्टाचरणं कुर्युः ततो मयाऽपि तदेव करणीयमिति नाऽवश्यकम् । किन्तु यत्र कुत्रचिदपि शुभकथनं सगुणांश्च पश्ये: तहि ते ग्रहणीयाः । तथा दृष्टिपथमायान्तो दुर्गुणा उपेक्षणीयाः । न कदाचिदपि केभ्यश्चिदपि तेषां तदुर्गुणाः कथनीयाः, तथा तान् जनान् प्रति नाऽरुचिट्टेषश्च करणीयः, किन्तु "कर्मणो गहना गतिरि"ति विचिन्त्यम् । अन्यथा परदोषदर्शनेन तेषां यत्किमपि स्यात्, किन्त्वस्माकं त्वात्मिकदृष्ट्या हानिर्भवत्येव । कर्मराजस्य सत्तायां हस्तक्षेपमकृत्वा केवलं साक्षिभावेनैव सर्वं दर्शनीयम् । अन्येषां दुर्गुणाः स्वचित्ते यदि चिन्त्यन्ते तर्हि मनसि कालुष्यमुद्भवति, किन्तु यदि नाम ते दुर्गुणा उपेक्ष्यन्ते तर्हि का चिन्ता ? कथं मनो मलिनं स्यात् ? अतो दुर्गुणेभ्यो दुर्गुणिजनेभ्यो दूरत एवाऽञ्जलिर्देया । किञ्च-अस्मिन् वातावरणे सज्जनानां संयोगो दुःशकोऽस्ति । ततस्त्वयैवैतादृशं वातावरणं विरचनीयं यद्, एतस्य मलिनवातावरणस्य दुष्टजनानां च प्रतिच्छायैव चित्तवृत्तौ न पतेत् । ततो नाऽऽवश्यकं न शक्यं च वातावरणस्यैतेषां दुष्टजनानां च परिवर्तनं किन्त्वावश्यकं शक्यं चैतदेव यत् - "स्वदृष्टेः परावर्तनम्" । अस्माकं मान्यताकदाग्रह-चातुर्यभान-कलाभिमानेत्यादिकमेव वस्तुतोऽस्माकं विकासे बन्धनरूपमस्ति । अतस्तत्सर्वं बन्धनं विच्छिद्योर्ध्वं गन्तुमेव प्रयतितव्यम् । पश्य, निरभ्रं गगनम् । तस्य न किमपि बन्धनमावरणं चाऽस्ति । तथैव त्वमपि बन्धनादिकं विहायाऽन्यानदृष्ट्वैव सात्त्विकतया प्रामाणिकतया च सत्यमार्गेण गच्छ । त्वं तव जीवनस्य स्वाम्यसि । अतो निष्ठया त्वं सत्यस्य मार्गे प्रयातुं स्वतन्त्रोऽसि । ८९ For Private Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ 'स्वच्छन्दता' इति न स्वतन्त्रस्याऽर्थः करणीयः । यतोऽद्य स्वतन्त्रस्य व्याजेन केचिज्जनाः स्वच्छन्दतया कुलीनतां पदोचितमर्यादां चोल्लङ्घ्य निन्दनीयमशोभनीयं वा सर्वमपि कुर्वन्ति । अद्य समाजे दुराचारस्य मलिनतायाश्च यत् ताण्डवं प्रवर्तते तत् स्वच्छन्दिनामेतादृशानां जनानां पापमस्ति, इत्यपि चिन्तनीयम् । अतः स्वच्छन्दतामपाकृत्याऽस्माकं स्वभावः सरल उदारश्च करणीयः, सर्वैः सह मैत्रीपूर्णतया व्यवहरणीयम् । तव स्वभावो व्यवहारश्चैवैतादृशः स्याद् येन यथा पङ्कजं प्रति भ्रमरास्तथैव जनास्त्वां प्रत्याकर्षणमनुभवेयुः। तथा तव सांनिध्यमवाप्य ते जनाः स्वजीवने शान्ति समाधि च प्राप्नुयुः, एतदेव जीवनस्य सार्थक्यमस्ति । अन्ते, त्वमपि पङ्कजवज्जगति सद्गुणानां सुगन्धं प्रसार्य निर्मलो भवेत्याशा । लेखकेषु निवेदनम् १. सर्वेऽपि लेखका: संस्कृत-प्राकृतमयं सर्वविधं गद्यं पद्यं वा साहित्यं प्रेषयितुमर्हन्ति । २. अङ्गीकृतं साहित्यं यथावसरं प्रकाशयिष्यते । ३. साहित्यं पृष्ठस्यैकस्मिन्नेव पार्श्वे सुवाच्यैरक्षरैलिखितं स्यात् । Computer prints अपि स्वीक्रियन्ते । ४. कृपया Xerox प्रतिर्न प्रेषणीया । ४२ ( NWAR EIN २० Page #104 -------------------------------------------------------------------------- ________________ था ॥ सन्तोषान्न परं सौख्यम् ॥ मुनिरत्नकीर्तिविजयः 'हेन्रीफोई' इत्येष ख्यातः कारयानोद्योगस्य स्थापक आसीत् । प्रत्येकं शुक्रवासरे सन्ध्यासमये स्वकार्यालयात् प्रत्यागच्छन् स एकस्य पुष्पविक्रेतुरापणात् पत्न्यै उपायनीकर्तुं मनोहरं शोभनं पुष्पगुच्छं क्रीणाति स्म । एष तस्य क्रम आसीत् । सततं सर्वत्र च विकासमेव लक्ष्यीकृत्य विचारयन् हेन्रीफोमहाशय एकदा तदापणस्य वृद्धं स्वामिनं स्वविचारमुक्तवान् यत्- "आ बहोः कालादहं भवत आपणात् क्रममनुल्लध्य प्रत्येकं शुक्रवासरे सन्ध्यासमये पुष्पगुच्छं क्रीणामि । भवतः पुष्पाणि प्रत्यग्राणि सुवासितानि च भवन्ति । तथा भवनिर्मितः पुष्पगुच्छोऽप्याकर्षको मनआह्लादकश्च भवति । अतोऽहं विचारयामि यद् भवतोऽस्याऽऽपणस्य काचिदन्याऽपि शाखा स्याद् येनाऽधिको धनलाभः स्याद्" इति । एतच्छ्रुत्वाऽऽपणस्य स्वाम्यवदत् - 'सत्यमुक्तं भवता, किन्तु ततः परं किम् ?' 'अहो ! तदनु डेट्रोइट्राज्येऽपि प्रतिस्थानं भवता शाखाः स्थापनीयाः । तेन तु धनस्याऽऽयस्ततोऽपि वृद्धिं गमिष्यति' - स उवाच । 'पश्चात् ?' - वृद्धोऽप्रश्नयत् ।। For Private Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ 'पश्चादन्येष्वपि राज्येषु शाखाप्रतिशाखानां स्थापनां कृत्वा पुष्पविक्रयणोद्योगं वर्धापयतु नाम । सम्पूर्णेऽप्यमेरिकादेशे उद्योगान् स्थापयतु । तेन च भवतो धनराशिरपि पर्वतोपमाना भविष्यति' - इति सोऽवक् । पुनरपि वृद्धस्तमेव प्रश्नमुपास्थापयत् - 'क्षाम्यन्तु महाभागाः ! किन्तु तदनु किम्?' हेन्रीफोर्ड्स उवाच - न किञ्चित् ! तावदेव । एवं कृत्वा पश्चात् भवान् विश्रान्तिसुखमनुभविष्यति । सत्यं खलु ? ।'. __एतदाकर्ण्य स वृद्धः प्रत्युदतरत् - 'महोदय ! तत्त्वहमधुनाऽप्यनुभवाम्येव । तदर्थं चेयत्करणीयस्याऽऽवश्यकतामेव न पश्यामि । यदप्यस्ति तत्तु पर्याप्तमेव, तेन च सुख्येवाऽहम्'। एतेन च प्रत्युत्तरेण हेन्रीफोमहोदयो लज्जामनुभूतवान् । ये विजितात्मनो नयनिष्ठाः जाग्रति लोकं रक्षितुकामाः । स्याग्लियतं तेषां वसुधेयं रुक्मवती मृन्मय्यपरेषाम् ॥ (छन्दोनुशासने श्रीहेमचन्द्राचार्यः) >>>>MIL ९२ Page #106 -------------------------------------------------------------------------- ________________ कथा (दृष्टिदोषः) मुनिधर्मकीर्तिविजयः "वातायनस्य काचं स्वच्छं करोतु" इति स्वामिनाऽऽदिष्टः किङ्करः । किङ्करेणाऽपि तथैवं कृतम् । स्वामी प्राऽऽह- रे ! मालिन्यं तु पूर्ववदेवाऽस्ति । किमेतादृशः काचोऽपि निर्मलः कथ्यते ? गच्छतु, अधुनैव पुनर्जलार्द्रितवस्त्रेण मालिन्यं दूरं करोतु ।। सेवकेन पुनर्जलातिवस्त्रेण काचः प्रोञ्छितः । तथाऽपि स्वामिना पूर्ववदाक्षिप्तः । किङ्करेण स्वसर्वशक्त्या पुनर्मालिन्यमपाकर्तुं प्रयत्नः कृतः । तदैव सः काचो । भग्नः । तन्निरीक्ष्य कोपाविष्टेन तेन स्वामिना सः किङ्करस्ताडितः । सेवकस्तु हसति । साश्चर्यं स्वामिना पृष्टम् - रे ! क्षतिं कृत्वाऽपि त्वं हससि ? सेवक उवाच- "प्रभो ! अन्यत् किं कुर्याम् ? हास्यास्पद एवाऽयं वृत्तान्तः। ) वातायनस्य काचे न मालिन्यं, किन्तु भवत उपनेत्रस्योपरि मालिन्यमस्ति । अतो भवान् प्रथमं भवत उपनेत्रं स्वच्छं करोतु, काचस्तु स्वयमेव स्वच्छो भविष्यति" । तच्छ्रुत्वैव..... यद्यन्येषु दुर्गुणा दृश्येयु तात्मन्येव दुर्गुणाः स्युरिति ज्ञेयम् । ९३ Page #107 -------------------------------------------------------------------------- ________________ कथा कार्पण्यम् मुनिधर्मकीर्तिविजयः SSSSS कस्मिंश्चिद् ग्रामे एकः श्रेष्ठी वसति स्म । सोऽतीव कृपण आसीत् । तस्य देहस्य प्रत्यङ्ग कृपणत्वं प्रसृतमासीत् । एकदा ललाटे हस्तं संस्थाप्य स उदासतयोपविष्ट आसीत् ।। पत्नी सहजतयाऽपृच्छत् - कथं भवानुदासो दृश्यते ? किं मार्गे . किमपि विस्मृतमुत किं कस्मैचिदजानता दत्तं भवता ? कृपणो जगाद - नहि, नहि । नाऽहं कदाऽप्येतादृशमपराधं करोमि । किन्तु यदाऽहं मार्गे गच्छन्नासं तदा मया दानं ददन्नेकः श्रेष्ठी दृष्टः । ततस्तस्य धनस्य निरर्थकं व्ययं वीक्ष्य मे मनः खिन्नमभूत् । दैवखातं च वदनमात्मायत्तं च वाड्मयम् । > श्रोतारः सन्ति चोक्तस्य निर्लज्जः को न पण्डितः ? | (श्रीसिद्धसेनदिवाकरसूरिः) . . ९४ Page #108 -------------------------------------------------------------------------- ________________ ASINIST मङ्गलकलश: मुनिकल्याणकीर्तिविजयः अस्ति किलेह भरतखण्डे सर्वेषां मानवीय-सामाजिक-राष्ट्रियव्यवहाराणां प्रथमतया प्रवर्तकानां प्रथमतीर्थकर-परमेष्ठिप्रवरश्रीआदिनाथभगवतां सुतस्य श्रीअवन्तिवर्धनस्य नाम्ना विश्रुतोऽवन्तीजनपदः । तत्र च सकलपुराधिपत्यं बिभ्राणा राजते उज्जयिनी नाम नगरी। या च-वापी-तटाकोद्यानैर्मण्डिता, हट्ट-प्रपा-सभादिभिर्विराजिता, तथा परनरालङ्घितया का स्वच्छभावया महासतीसदृक्ष्या खातिकया वेष्टिता, तथा, उत्तुङ्गेन सुवृत्तेन परोपद्रवहारिणा सज्जनेनेव शुद्धेन प्राकारोत्तमेनाऽलङ्कृता शोशुभ्यते । तां च - वैरिकरिणां सिंह इव वैरिसिंहो नृपावतंसः शास्ति । तस्य च सौम्य5 तया चन्द्रिकेवाऽस्ति चन्द्रमुखी शीलशालिनी सोमचन्द्रा नाम राज्ञी । अथ तस्यां नगर्यां नृपाभिमतः पूर्णगुणालयो विनीत उपशान्तमानसो शीलयुतो धार्मिको जिनेन्द्र-साध्वाराधनतत्परो धनदत्तो नाम श्रेष्ठी वसति । तस्य च शील-सत्य नयोपेता सुरूपा चारुभाषिणी सर्वत्रोचितकर्तव्यरता सत्यभामा नाम भार्याऽस्ति । धन3. कनक-सुवर्णमणि-मुक्तादिभिर्धान्य-भवन-वाहनादिभिश्चैश्वर्यशालिनोरपि तयोर्मध्यमे वयस्यपि अपत्यसुखं नाऽस्ति । यद्यपि भगवति धर्मे प्रारब्धे च पूर्णश्रद्धावन्तौ तौ सहजतया जीवतस्तथाऽप्येकस्यां निशि श्रेष्ठिनश्चिन्ता जाता यद् - 'अस्माकं सर्वमपि वैभवं पुत्रेण विना निरर्थकम् । को भवष्यिति सर्वस्यैतस्य भोक्ता ? को वा वार्धक्ये पालयिष्यति नौ ?' अनया चिन्तया तस्य निद्रा नाऽऽयाति । - चिन्ताकुलं तं दृष्ट्वा सत्यभामा पृच्छति-स्वामिन् ! किमिति भवान् राज्यभ्रष्ट २५ Page #109 -------------------------------------------------------------------------- ________________ राजपुत्र इव, यन्त्रबद्धमदमत्तमतङ्गज इव, द्यूतपराजितमहाद्यूतकार इव, विद्याभ्रष्टविद्याधर इव, परिक्षीणायुर्देवेन्द्र इव शोकाकुलः परिलक्ष्यते ? किं केनाऽपि मुषितो वा ? राज्ञाऽपमानितो वा ? महाजनो वा पराङ्मुखः ? निधानं वाऽङ्गारे पर्यस्तम् ? बालिकया * वा कयाऽपि चित्तं चोरितं भवतः ? यदि नाऽनाख्येयं तर्हि कथ्यताम् । भोः ! तवाऽप्यनाख्येयं किञ्चिदस्ति वा मम ? तथा नाऽन्यत् किञ्चित् दुःखमपि विद्यते मम । केवलमेकैव चिन्ता चित्तं पीडयति यत् - क एतस्य वैभवस्य भोक्ता भविता ? तथा को नौ वार्धक्ये पालयिता ? इति । अनयैव चिन्तया चिन्तितोऽहं । * नाऽन्यत् किञ्चिदपि चिन्तयितुं पारये-इति श्रेष्ठिना कथितम् ।। एतच्छ्रुत्वा तयोदितं यत् - स्वामिन् ! यद्यप्यावां पुण्यशालिनौ तथाऽपि कस्यचित् पुरा कृतस्य पापस्यैतत् फलं येनाऽऽवयोरपत्यसुखं नाऽस्ति । अतस्तस्य पापस्य शुद्ध्यर्थं नौ जिनोदितधर्माराधनं, जिनेश्वराणां पूजादिविधानं, गुरुभक्तिकरणं तथा सार्मिकवात्सल्यं, दीनानाथादिभ्यो दानं, प्रशस्तपुस्तकलेखनमित्यादि-शुभकार्येषु स्वीयधनमुपयोयुज्यावहे। एवंकरणेन पापशुद्धिस्तावद् भविष्यत्येव । ततो धर्मप्रभावेन यदि सुतो भावी तदा शोभनम् । अन्यथाऽपि पुण्यप्राग्भारस्तु वर्धिष्यत्येवेति न काऽपि हानिः । निशम्य स्वभार्यायाः सुवचांसि श्रेष्ठी ह्यत्यन्तं प्रसन्नो जातः । स तदुक्तं सर्वमपि विशेषेण कर्तुमारब्धः । विशेषतो जिनपूजार्थं स मालाकारान्तिकं गत्वा तस्मै च प्रभूतं धनं दत्त्वा प्रत्यहं भूयांसि सुगन्धीनि सुन्दराणि च पुष्पाण्यवचेतुं कथयति स्म । तेनाऽपि * प्रतिपन्नम् । ततः प्रत्यहं प्रातःसमये स पुष्पभाजनं गृहीत्वाऽऽरामं गत्वा मालाकारेणोच्चितानि मनोहराणि पुष्पाण्यानयति स्म । स्वकीये गृहजिनालये चाऽतीव भक्त्या जिनेश्वराणां पूजां करोति स्म । तदनु यथाविधि चैत्यवन्दनादि करोति स्म । ततो निवृत्तो गुरुभगवदन्तिकं गत्वा गुरुवन्दनं करोति स्म प्रत्याख्यानं च गृह्णाति स्म । ततो धर्मकथां श्रुत्वा गृहं गत्वा काले सुपात्रदानं दीनादीनामनुकम्पनं कृत्वा पश्चादेव भोजनं करोति स्म। वाणिज्यव्यवहारादिकमपि नीतियुक्तं करोति स्म । एवं यद् यच्छोभनं सुकृतं च, तत् सर्वं प्रसन्नमनसा करोति स्म । एवं करणेन तस्य पापकर्म विगलितम् । पुण्यपुञ्जः स्फूर्तिमगच्छत्, , तेन च तुष्टा शासनदेवता 'पुत्रस्ते भविष्यती'ति वरं ददाति स्म । ९६ Page #110 -------------------------------------------------------------------------- ________________ तस्यां रात्रौ सुखनिद्रया सुप्ता सत्यभामा नानामङ्गलमण्डितं पुष्पहार-कुङ्कमादिभिः शोभितं निर्मलजलपूर्णकलशं स्वप्ने पश्यति स्म । स्वप्नं दृष्ट्वाऽत्यन्तं हृष्टा सा जागृता . पत्ये स्वप्नवृत्तं कथयति स्म । श्रेष्ठ्यपि तच्छ्रुत्वा प्रमुदितस्तस्यै उत्तमपुत्रस्य लाभं ** कथयति स्म । ततः सा शकुनग्रन्थि बद्ध्वा प्रकटितेषु गर्भचिह्नेषु प्रसन्नमनसा पूर्णश्रद्धया 8 च यथोचितं गर्भपालनं करोति स्म । परिपूर्णे काले सा निराबाधं निरामयं च सुन्दरं पुत्ररत्नं प्रसूतवती । हृष्टः श्रेष्ठी प्रभूतधनव्ययेन तस्याऽनुत्तमं वर्धापनं करोति स्म, दीनदुर्गतेभ्यश्च याचिताधिकं दानं दत्ते स्म । प्राप्ते च द्वादशाहे स्वजन-महाजनसमक्षं स्वप्नानुसारेण तस्य नाम मङ्गलकलश इति स्थापयति स्म । द्वितीयकलायुतचन्द्रमा इव वर्धमानः स मातापित्रोः पूर्णप्रीतिभाजनं क्रमेणाऽष्टवार्षिक: सञ्जातः । अत्यन्तं सुरूपः, सौम्यः, प्रियदर्शनः, सर्वलक्षणसंयुक्तः स पूर्वसंस्कारबलेन * बाल्येऽप्यत्यन्तं विनयी मधुरभाषी चाऽऽसीत् जिनेश्वरकथिते धर्मे च पूर्णश्रद्धालुरासीत् । * एकदा प्रभाते पुष्पाण्यानेतुं गच्छन्तं पितरं दृष्ट्वा पृष्टवान् स गमनप्रयोजनम् । कथिते च प्रयोजने साग्रहं पितरं कथयति स्म यद्-अहमपि भवता सार्धमागमिष्यामि। निषिद्धेऽपि पित्रा सोऽतीवनिर्बन्धेन पितरं विज्ञपयति स्म । पिताऽपि तस्य हठं ज्ञात्वा तं स्वसाधु नयति स्म । आरामे गत्वा श्रेष्ठी मालिकेनाऽवचितानि पुष्पाणि गृहीत्वा यावत् प्रतिनिवृत्तस्तावता तेन पृष्टं- स्वामिन् ! क एषोऽत्यन्तं वल्लभो बालकः ? श्रेष्ठिनाऽपि -मामकीनः सुतोऽयमिति कथितम् । हृष्टो मालाकारो बालकाय फलादि ददाति स्म । ॐ सोऽपि गृहीत्वा पित्रा सार्धं गृहं गतः सन् मात्रे तत् सर्वं दत्तवान् । अथ द्वितीयदिने प्रातःकाले स पितरं कथयति स्म यद् - इतः परं * पुष्पानयनायाऽहमेकाक्येव गमिष्यामीति । तद्विनयेनाऽतीव तुष्टोऽपि पिताऽनिष्टाशङ्कया वारयति स्म । किन्तु तस्य निश्चयं दृष्ट्वा स मालाकारं सूचितवान् यद्- इतः परमस्मै पुष्पाणि देयानीति । ततः प्रभृति प्रत्यहं स एव पुष्पेभ्यो गच्छति स्म । तथाऽन्तराले किञ्चित् कलाविज्ञानादिकं धर्मतत्त्वादिकं च मातापित्रोः सकाशात् शिक्षते स्म । एवं कश्चित् कालो व्यतीतः । अत्र च तावदेवम् । इतोऽत्रैव भरतवर्षेऽङ्गदेशेषु प्रधाना चम्पा नाम नगरी राराजति । तस्यां सुर ९७ Page #111 -------------------------------------------------------------------------- ________________ सदृशसुन्दरः सुरसुन्दरो राजाऽऽधिपत्यं प्रतनोति स्म । तस्य नैकराज्ञीषु विशिष्टगुणानामावल्या 0 शोभमाना गुणावली नाम पट्टमहिषी आसीत् । राज्ञस्तावतीषु राज्ञीष्वपि अपत्यं नाऽऽसीत् । * अन्यदा गुणावली राज्ञी रात्रौ निद्रायमाणा स्वप्ने सुन्दरपुष्प-फलादिभिः समाकुलां कल्पवल्ली * दृष्ट्वा प्रबुद्धा सती नृपाय तत् कथितवती । तेनाऽपि विचार्य प्रसन्नेन कथितं यत्तव नानागुणगणालङ्कृता रूपलावण्यशालिनी पुत्री भविष्यतीति । एतन्निशम्याऽतीव प्रमुदिता सा सोल्लासहृदयेन गर्भपालनं करोति स्म । क्रमेण कालमासे साऽत्यन्तं मनोज्ञस्वरूपां तेजस्विनी पुत्री सषवे । दासीद्वारा तज्जन्मवार्ता लब्ध्वा हृष्टमानसो राजा महोत्सवपर्वकं " वर्धापनकं कारयामास । नगरजना अपि निरपत्यनृपगृहेऽद्य सुताजन्मोऽभवदिति हर्षाकुलचित्ताः समेऽपि गायन्ति नृत्यन्ति राज्ञे च विविधान्युपायनानि ददति स्म । राजाऽपि समस्तपौरजनान् भोजयामास, सत्कारादिना च प्रीणयामास । प्राप्ते च द्वादशे दिने सकलसभासमक्षं स तस्या नाम ‘त्रैलोक्यसुन्दरी'ति स्थापयामास । साऽपि बालिकाऽत्यन्तं रूपवती स्वमातॄणां हस्ताद्धस्तं संक्रममाणा कला-सौम्यता-कान्ति-लावण्यादिभिश्च वर्धमाना क्रमेण यौवनस्था जाता । अत्यन्तं विनयिनी मञ्जुलभाषिणी कुशाग्रबुद्धिमती च सा राज्ञः सर्वासां राज्ञीनां चाऽतीव वल्लभाऽऽसीत् । अथैकदा प्रधाननेपथ्यालङ्कारशालिनी तां विलोक्य राज्ञो मनसि चिन्तोत्पन्ना ' यत्- "कोऽस्याः पुण्यशालिन्या वरो भविष्यतीति ?" अनया चिन्तया व्याकुलचित्तं नृपं * दृष्ट्वा सर्वा अपि राज्यस्तं पृष्टवत्यस्तच्चिन्ताकारणम् । राज्ञाऽपि यथाचिन्तितं कथितम्। तच्छ्रुत्वैकेन स्वरेणैव सर्वा अपि ताः कथितवत्यो यत् - "मैवं वदतु भवान् ! अस्माभिस्तद्वियोगो नैव सहिष्यते ।" राजा कथयति स्म यत् - "कन्या तु भर्तृगृहे एव शोभते, नैव कदाचित् पितृगृहे ।" एतन्निशम्य वस्तुस्थितिमवबुध्य च ताभिश्चिन्तितं यत् केनोपायेन साऽस्मत्सविध एव वसेत्- इति । विचिन्त्य च राज्ञे कथितं यत्- "तर्हि एवं क्रियतां, यदत्रैवाऽस्माकं राज्यस्य महामन्त्रिणः सुबुद्धेः पुत्राय सा दीयतां येन प्रत्यहं तां दृष्ट्वा तृप्ताः सुखिन्यश्च भवेम" इति । श्रुत्वैतत् प्रमुदितो राजा । प्रतिपन्नं च - तेनैतत् । द्वितीयदिने स मन्त्रिणमाहूय तत्पुत्रेण त्रैलोक्यसुन्दर्या विवाहं कर्तुमन्वरुणत् । * मन्त्रिपुत्रस्तु त्वग्-रोगी आसीत् । अतो मन्त्री राजानं विज्ञप्तवान् - "प्रभो ! क्व भवतः 8 Page #112 -------------------------------------------------------------------------- ________________ कुलम् ? क्व च मम ? समानकुलयोः सम्बन्ध एव जगति प्रशस्यते । सिंही- शृगालयोः सम्बन्धस्त्वप्रशस्तो निन्दितश्चैव । अतो नैतत् कर्तुं योग्यम् ।" राजा तु परमार्थमजानानस्तमत्यन्तमाग्रहीत् । प्रान्ते च स्वदेहशपथेन तं शप्तवान् यद् "निर्विकल्पं ममाऽऽदेशः कर्तव्यः” इति । किंकर्तव्याकुलो मन्त्री तूष्णीमेव तदभ्युपगम्य गृहं गतवान् । बहुधा विचिन्त्याऽपि अलब्धमार्गोऽनन्यग िकतया कुलदेवतामाराद्धुं निर्णीतवान् । सायंकाले पुष्प-फल-कुङ्कुमादि सर्वं सामग्र्यं गृहीत्वा कुलदेवतासदनमगमत् स: । आडम्बरेण तत्पूजां विरचय्य दर्भमये संस्तरे देवीपादमूल एव सुप्त्वा तज्जपं करोति स्म । जपप्रभावेन देवताऽऽगता । असावपि तत्पादयोः प्रणतिं विधाय साञ्जलि स्थितः । तयाऽऽकारणप्रयोजने पृष्टे कथयामास यत् - " मम सुतं नीरोगं कुरु" । तया ज्ञानेन विज्ञाय कथितं यत् - " तन्नैव शक्यम् । रोगकृत् कर्म तेनाऽवश्यं भोक्तव्यमेव । " अनेन विचार्य कथितं यत् " तर्हि कञ्चिद् भाटकेनाऽऽनीयाऽत्रोपस्थापय यो राजकन्यां परिणीय मत्पुत्राय ददाति ।" देव्योक्तं " भवतु । तव भक्त्या प्रसन्नाऽहं करिष्यामि तवाऽभिमतम् ।" ततो ज्ञानाभोगेन विलोक्य कथितं "श्वः परश्वो वा पुराद् बहिः स्थानपालानां पार्श्वे शीतार्त्तः परिश्रान्तोऽग्निना तप्यमानश्च बालकस्त्वया प्रच्छन्नं गृहमानायितव्यः । पश्चाद् यथेप्सितं कुर्या: ।" विनयावनतेन मन्त्रिणा सर्वं तत् प्रतिपन्नम् । प्रणामाञ्जलिपुरस्सरं स देवीं स्तुतवान् । ततो देवी अन्तर्हिताऽसावपि गृहमागतः सन् हृष्टमानसः सर्वां विवाहयोग्यां सामग्रीं प्रगुणीकरोति स्म । तत एकं स्थानपालं पूर्वपरिचितमाहूय किञ्चिद् धनं दत्त्वाऽऽदिदेश यत् " सुरूपः कश्चिद् बालो यदा नगराद् बहिरागच्छेत् तदा तं प्रच्छन्नमत्राऽऽनये" ति । सोऽपि "यथादिष्टं करिष्ये" इति कथयित्वा गतः । - इतो मङ्गलकलशो नित्यक्रमेण प्रातःकाले पुष्पाण्यानेतुं मालाकारगृहं गच्छति स्म । तदा देव्याऽऽकाशे स्थित्वोक्तं "एष दारको भाटकेन सुकन्यां परिणेष्यति, न सन्देहः" इति । अनेन तन्निशम्य तद्भावार्थमजानता चिन्तितं यत् पितरमाख्यायोपलप्स्ये ऽस्य भावमिति । किन्तु गृहं गतः स विस्मृतवान् तत् । अन्यदिनेऽपि देव्या तदेवोच्चरितम् । श्रुत्वा तत् अद्य तु पित्रे कथयितव्यमेवैतदिति निश्चित्य यावद् गच्छति तावद् देवीप्रभावेन महावायुनोन्नीतः सन् स आकाशमार्गेण चम्पान्तिकेऽटवीं - ९९ ရဲ 86 8F dးး သား စား စား ခွဲစား ၊ ခွဲစိ . Page #113 -------------------------------------------------------------------------- ________________ प्राप्तः । एतेनाऽतीव विस्मितः स मार्ग शोद्धं सर्वत्राऽटव्यामटितवान् । किन्तु क्षुत्तृषं परिश्रान्ति च विना न किञ्चित् प्राप । अतो वृक्षाणां फलैः सरसो जलेन च तन्निवार्य यावद् विश्रान्तस्तावता सूर्योऽपि विश्रान्तिमनुभवितुमस्ताचलं प्रस्थितवान् । सन्ध्या सन्निहिता । क्रमशस्तमसः साम्राज्यं प्रसर्तुमारब्धम् । शृगाल-चिल्ल-निशाटनादिनिशाचराणां शब्दाः श्रूयन्ते स्म । अनेन भीतो मङ्गलकलशः समीपस्थं वटवृक्षमारुह्य सर्वत्र विलोकयति स्म । अथोत्तरस्यां दिशि तेन प्रज्वलदग्निर्दृष्टः । अतो द्रुतमेव वृक्षादवतीर्य स उत्तराभिमुखं प्रचलितः । तदा च शीतकालो वरीवर्ति स्मेति हिमकणमिश्रितो वायुर्वावायते स्म । अत्यन्तं शीतलः स पवनस्तस्य देहं कम्पयति स्म, आरण्यकाः शब्दा आरावाश्च हृदयं 16 कम्पयामासुः । परिहितवस्त्राद् ऋते न किञ्चित् प्रावरणं तत्पावें आसीत् । अतो हस्तावाकुच्य दन्तवीणां च वादयन् स शनैः शनैस्तत्र प्राप्तः । तत् स्थानं तु चम्पानगर्या वप्ररक्षकाणामासीत् । बहवो यामिकास्तत्र सम्मील्य काष्ठानि प्रज्वाल्य वह्निना शीतं, मिथो वार्ता-परिहासादिभिश्च निद्रामपाकुर्वाणास्तत्रोपविष्टा आसन् । असावपि शीतातः सन् तत्रैवाऽग्निसविधं गत्वा देहं तापयति स्म । तं बालकं दृष्ट्वा सर्वेऽपि ते यामिकास्तमेव परिहासविषयं कृत्वा हसितुमारब्धाः । तावता केनचित् स दण्डेन प्रणुद्य पीडितः । एतेन * तन्मुखात् सहसा 'आह्' इति शब्दो निर्गतः । निशम्य तत् सर्वेऽपि क्रमशस्तं दण्डेन पीडितुमारब्धाः । तदसहमानस्य तस्य नेत्राभ्यामश्रूणि निर्गतानि । यामिकास्तु तथाऽपि तं पीडयित्वोपहसन्ति स्मैव । तावता मन्त्रिनिर्दिष्टः स्थानपालस्तं दृष्टवान् । अतो यामिकेभ्यस्तं मोचयित्वाऽन्यत्र नीतवान्, काष्ठानि ज्वालयित्वा शीतमपाकृत्य च तं सान्त्वयति स्म । प्रत्यूषे जाते सोऽन्यान् स्थानपालान् वञ्चयित्वा प्रच्छनतया नगरान्तर्गत्वा मन्त्रिगृहं प्रापितवान् । मन्त्र्यपि सुरूपमाभिजात्ययुतं च तं दृष्ट्वाऽत्यन्तं हृष्टः स्वकीयप्रासादस्य सप्तमतले नीत्वा तं रक्षितवान् । ततः स्वयमेव तं स्नानादिकं कारयित्वोत्तमवसनानि परिधाप्य च सरसं भोजनं भोजितवान् । ततो विविधैर्वार्तालापैदिनं यापितवान् । एवं प्रत्यहं करोति स्म । किन्तु तं कुत्राऽपि गन्तुं नाऽनुमन्यते स्म । यदा च स्वयं गच्छति 88 स्म तदा तदपवरकं तालयित्वैव गच्छति स्म । मङ्गलकलशेन चिन्तितं - "किमर्थमयमेवं 8 १०० Page #114 -------------------------------------------------------------------------- ________________ करोति ? पृच्छामि तावत् ।" अतस्तेन मन्त्रिणे पृष्टम् - "महोदय ! किंनामैतत् : पत्तनम् ? को वा भवान् ? किमर्थं च ममैतादृशं गौरवमातिथ्यं च करोति ? किमिति मां बहिर्गन्तुं नाऽनुमन्यते भवान् ?" मन्त्रिणोक्तं - "शृणु । इयं चम्पा नगरी अस्ति । अहं चाऽत्र सुबुद्धिर्नाम महामात्योऽस्मि । तव गौरवमातिथेयं च स्वकार्यार्थं करोमि । तेनैव च त्वां बहिर्गन्तुं नाऽनुमन्ये ।" "किं पुनर्भवतः स्वकार्यम् ?" इति तेन पृष्टे मन्त्री तं त्रैलोक्यसुन्दरीवृत्तं राजादेशं च कथयित्वा निर्दिष्टवान् यत् -"मम स्वकार्यं त्वत्रैकमेव - त्वया राजकन्या * परिणीय मत्पुत्राय दातव्या, यतो मम पुत्रस्त्वग्दोषेण दूषितोऽस्तीति ।" . मङ्गलकलशस्त्वेतच्छ्रुत्वा स्तब्धमना विषण्णश्च सञ्जातः । तेनोक्तं - "कथमेतत् संभवेत् ? सर्वथा नीतिविरुद्धमेतत् कार्यम् । अहं हीदं सर्वथा न करिष्ये ।" मन्त्रिणा . & पुनः पुनः साग्रहं स बोधितः किन्तु तेन तत् सर्वथा निषिद्धम् । अनेन कुद्धो मन्त्री । खड्गं गृहीत्वा तं हन्तुमुद्यतः । तावता तत्परिजनेन कथमपि तं निवार्य मङ्गलकलशाय * कथितं - "भोः ! किमर्थमकारणमरणमाकारयसि ? विना प्रतिकारं तदुक्तमङ्गीकुरु येन तवाऽपि मुक्तिर्भवेत् तस्याऽपि कार्यं भवेत् ।" एवं मङ्गलकलशं विविधप्रकारैर्बोधयित्वा मन्त्रीवचनं स्वीकारितः । सोऽपि सर्वं विचिन्त्य तदर्थमनुमन्यते स्म कथयति स्म च Poयत् - "विवाहकाले मण्डलेषु राजा यद् दास्यति तत् सर्वमपि निर्विकल्पं मे ॐ दातव्यमुज्जयिनीमार्गे च रथसहितं स्थापयितव्यम् । विवाहनन्तरं च ममोज्जयिनीं गन्तुं P न कोऽपि निषेद्भुमर्हति" इति । मन्त्रिणस्तन्निशम्याऽतीव हर्षः सञ्जातः । स तदुक्तं सर्वमपि यथातथमङ्गीकृत्य नृपसमीपं गतवान् । राज्ञा सह विवाहदिनविषयं चर्चयित्वा राजपुरोहितमाकार्य च प्रधानं 8 दिनमुत्तमं च मुहूर्तं गणयितुं विज्ञप्तवान् । राजपुरोहितेनाऽपि स्वगणितानुसारमुत्तमं लग्नं निर्णीय कथितम् । ततो राजा मन्त्रिणं मुहूर्तानुसारं प्रगुणीभवितुं निर्दिष्टवान् । स्वयमपि च स्वानुचरानाहूय विवाहार्थमुपयोगिनी सामग्री मेलयितुमादिष्टवान् स्वस्याऽन्तःपुरेऽपि च * तदर्थमाज्ञापितवान् । इतो मन्त्र्यपि प्रसन्नमनसा गृहमागत्य सर्वा अपि विवाहसामग्री: सम्मेल्य : | मङ्गलकलशायाऽपि तदर्थं सन्नद्धमादिष्टवान् । ततः प्राप्ते विवाहदिवसे मन्त्री मङ्गलकलशं 8 १०१ Page #115 -------------------------------------------------------------------------- ________________ सुगन्धितजलेन स्नपयित्वा चीनांशुकाद्युत्तमवस्त्राणि परिधाप्य बहुमूल्यैराभरणैविभूष्य 8. चोत्तुङ्गहस्तिस्कन्धे समारोपितवान् । ततः सकलस्वजन-परिजनसमाकुलो विहायो* भेदितूर्यनिनादपुरस्सरं सरभसचलज्जनव्रजं सुवासिन्यारब्धमङ्गलगानं क्रमशो राजप्रासादद्वारं प्राप्तो मन्त्री मङ्गलकलशसहितः । तत्र च कृतकौतुकमङ्गलो मङ्गलकलशो राज महिषीभिर्मातृगृहे प्रवेशितः । अतीव सुरूपं सौन्दर्यशालिनमाकृत्यैवाऽऽभिजात्यविराजितं को मुखमुद्रया जनमनोमोहकं च तं दृष्ट्वैव त्रैलोक्यसुन्दरी - ईदृशो मे भर्ता भावीति हृष्टा, सखीभिरभिनन्दितेति लज्जिता, कथं तेन सह वार्तालापादि करिष्ये इति चिन्तया भयभीता, * अत्यन्तं पुण्यवत्यहमिति गौरविता च सञ्जाता । अथ प्राप्ते च लग्नकाले, पुरोधसा पुण्याहमिति उद्दष्टे, सम्प्राप्ते विशिष्टशकुनसम्पाते, प्रवादितेषु च मङ्गलरवकारिनन्दीवादित्रेषु, प्रज्वालिते च घृतमधुकर्पूरादिभिर्वह्नौ विधिपूर्वकं 8 मङ्गलकलश-त्रैलोक्यसुन्दर्योः करमेलनं जातम् । ततो वधूसमेतोऽसावग्नेः प्रदक्षिणां करोति स्म । तत्र प्रथमे मण्डले राज्ञा महा_णि वस्त्राणि, द्वितीये रत्नादिखचितानि * भूषणानि, सुवर्ण-रजतादिघटितानि च स्थालादिभाण्ड-भाजनानि, तृतीये प्रभूतं सुवर्ण मणि-मुक्तादि द्रव्यं तुर्ये च रथादीनि वाहनानि मङ्गलकलशाय समर्पितानि । ततः करमोचनसमये नृपः करं मोचयति स्म । असौ न मुञ्चति स्म । “किमन्यदिच्छसी" HB ति पृष्टेऽनेन पञ्चोत्तमास्तुरङ्गा याचिताः । "अहो ! मुधा मुक्तोऽहं त्वये" ति वदन् राजा 18 दत्ते स्म तुरङ्गान् । ततः समाप्ते विवाहविधौ सवधूः सकलोपायनसमूहयुतश्च मङ्गलकलशः सतूर्यनिनादं , मन्त्रिगृहं गन्तुमुधुक्तः । तं दर्श दर्श युवत्यस्तादृशं वरं प्रार्थयति स्म, स्त्रियस्त्रैलोक्यसुन्दर्यै ईय॑न्ति स्म तद्भाग्यं च प्रशंसन्ति स्म, प्रौढास्तु तस्या अखण्डितसौभाग्यार्थं प्रार्थयन्ते स्म, वृद्धाश्च तां हार्दिकानाशीर्वादान् समर्पयन्ति स्म । प्रत्यक्षं मदनस्वरूपं मङ्गलकलशं रूपनिर्जितरत्या त्रैलोक्यसुन्दर्या सह विलोक्य नागरा युवानोऽपि नितरां स्तब्धचित्ताः सञ्जाताः । असावपि दीन-दुर्गतेभ्यो दानं ददत्, अभिनन्दनानि स्वीकुर्वन्, प्रशंसावाक्यानि 8 शृण्वंश्च गच्छति स्म । साऽपि त्रैलोक्यसुन्दरी नागरीणां विविधानुल्लापान् श्रुत्वा लज्जां, BOX गौरवमाह्लादं, हास्यमित्यादीन् मिश्रितान् भावान् सहैवाऽनुभवन्ती गच्छति स्म ।। १०२ Page #116 -------------------------------------------------------------------------- ________________ मङ्गल - सत्कारादिपूर्वं गृहं प्रवेशितः सवधूर्मङ्गलकलशः क्रमेण वासगृहे प्रविष्टः । द्वावपि पर्यङ्क उपविष्टौ । तावता मन्त्री तमिङ्गितेन ततो निर्गन्तुमादिशति स्म । असावपि सङ्केतं लब्ध्वा मुखादिक्षालनमिषेण बहिर्गन्तुं प्रवृत्तः । तदा साऽपि राजकन्या तदनुपदमेव सुवर्णालुकं जलपूर्णं गृहीत्वा सहैवाऽऽगता । मुखादि प्रक्षाल्य स पुनरपि तया सार्धं वासगृहं प्राप्तः । ततो बहिर्गमनायोपायमन्विष्यन्तं व्यग्रचित्तं तं दृष्ट्वा तया पृष्टं “प्रिय ! किं त्वां क्षुद् बाधते ।" रहस्यमकथयता तेनाऽपि " आम्" इत्युक्तम् । अतोऽनया स्वमातृगृहाद् मोदका आनाय्य तस्मै परिवेषिताः । ततो द्वावपि तत् खादितवन्तौ । आचमनं कुर्वताऽनेन स्वं ज्ञापयितुं "उत्तमा इमे मोदकाः, किन्तु उज्जयिनीनीरयुता यदि स्युस्तदा शोभनतरम्" इति कथितम् । साऽप्यकाण्डं तत् श्रुत्वा मनस्येव हसित्वा चिन्तितवती यत् "प्रायोऽस्या मातुलगृहमुज्जयिन्यां भवेत्, अथवा बाल्ये स तत्र पर्यटितः स्यात् इति स एवं कथयति ।" ततस्तयाऽनुरागातिरेकेण मधुरवचनानि भणन्त्या तस्मै ताम्बूलं दत्तम् । यावदसौ तच्चर्वयन् तया सह संलापं करोति स्म तावत् सुबुद्धिना तत्परिजनैश्च पुनरपि तस्य ततो निर्गन्तुं सञ्ज्ञा कृता । तदभिलक्ष्य किञ्चिद्विचिन्त्य च मङ्गलकलशस्तां कथयति स्म यद् "अहं देहचिन्तार्थं गच्छामि, त्वं क्षणानन्तरं सेवकेन सह जलं प्रेषये" ति । एवमुक्त्वा द्रुतमेव स मन्त्रिगृहान्निर्गत्य तदनुचरैः सह राजदत्तं वस्तुसमूहं रथतुरगादिकं च यत्र स्थापितमासीत् तत्र प्राप्तः । स तस्माद् वस्तुजातात् सारतरं रथे संगोप्य तुरगानपि रथे संयोज्य शेषं द्रव्यादिकममात्याय देयमिति सूचयित्वा रथमारूढः । ततो मन्त्रिनरात् स्वनगरस्य मार्गं ज्ञात्वा तुरगान् प्रेरितवान् । वायुवेगा जात्याश्च तेऽश्वाः स्तोकदिनैरेव तमुज्जयिनीं प्रापितवन्त: । - उज्जयिनीं प्राप्य मङ्गलकलशः सत्वरं स्वगृहं गत्वा सरथो यावदन्तः प्रविशति स्म तावद् वस्त्रालङ्कारादिभिर्भ्राजिष्णुं तं दृष्ट्वाऽनुपलक्षितवती तन्माता तं कञ्चिद्राजपुत्रं मत्वा कथितवती - " भो राजपुत्र ! अत्र नाऽस्ति कश्चिन्मार्गः । कथमन्तः प्रविशसि ? " स तु " अत्रैव मार्गोऽस्ति ।" इति कथयन् हठादन्तः प्रविष्टः । अतः सा द्रुतं श्रेष्ठिनमाहूय - " असौ कोऽपि निवारितोऽपि अस्मद्गृहे प्रविशति" इति कथयति स्म । तावताऽसावपि रथादुत्तीर्य पित्रोः पादपतनं कृत्वा पितुश्च कण्ठे विलग्य गाढं रोदिति स्म । ततः पिताऽप्येनमुपलक्ष्य गद्गदकण्ठो रोदितवान् । साऽपि तन्मातोच्चै रुरोद । १०३ စားသား Page #117 -------------------------------------------------------------------------- ________________ ထိုင်းပိုင်း တိုင်း ပိုင်း अतीव हृष्टास्त्रयोऽपि ततो गृहान्तर्गताः । तदनु मङ्गलकलशेन सर्वं राजदत्तं वस्त्रद्रव्यादिकं गृहान्तर्मुक्त्वा रथादश्वा वियोजिताः । ततः स्वीयानुचरान् गृहं परितः प्राकारं रचयितुमादिश्य रक्षार्थमश्वपालनार्थं च स्थानपालमश्वपालं च नियोजितवान् । एवं सर्वमपि सुस्थं कृत्वा निवृत्तचित्तः स पित्रोः समीपं गत्वोपविष्टः, ताभ्यां पृष्टश्च देववाण्यादिभाटकविवाहपर्यन्तं वृत्तान्तं कथितवान् । तन्निशम्याऽहो ! महापुण्यवानेषः इति श्रेष्ठी चिन्तयति स्म । तत्पश्चात् मङ्गलकलशः कथयति स्म यत् - "पित: ! अहं किमपि विद्या-कलादिकं न जानामि । अतोऽहं कस्यचिद् विद्यागुरोः समीपे तत् सर्वं शिशिक्षिषे । " तदा पित्राऽपि तदनुमत्य गृहान्तिक एवोपाध्यायपार्श्वे कलादिकं शिक्षितुं व्यवस्था कृता । चम्पायां मन्त्रिगृहे राजकन्या देहचिन्तानिवृत्त्यर्थं गतं स्वपतिं प्रतीक्षते स्म । तावता मन्त्रिणा त्वग्दोषदूषितः स्वपुत्रस्तस्याः समीपे प्रेषितः । सा तु तं दृष्ट्वा "क एष सरोगः ?" इति यावत् चिन्तयति स्म तावत् स तां स्प्रष्टुमुद्यतः । एषा तु तं तिरस्कृत्य झटिति वासभवनाद् बहिर्निर्गत्य दासीभिः समं सुप्ता । प्रातश्चोत्थाय स्वमातुः पार्श्वे गता - तद्वृत्तं च कथयित्वा तत्रैवोषिता । इतो मन्त्र्यपि घटितं सर्वं विलोक्याऽत्यन्तं विषण्णो बहु विचिन्त्य राजानं द्रष्टुं गतः । सविनयं प्रणम्योपविष्टं तथाऽपि विषण्णं मन्त्रिणं दृष्ट्वा राजा तं पृष्टवान् 'भो ! किमित्यद्य विषण्णो दृश्यते भवान् ? तोषस्थले विषादः किमर्थम् ?" मन्त्री उवाच– “किं वक्तव्यं प्रभो ! मम तु जिह्वैव सीवितेव न प्रचलति । अन्यथा चिन्तयतां नोऽन्यथैव जातम् । भवतु, अस्माकमेव कर्मपरिणतिर्विचित्राऽस्ति । तत्र किमर्थमन्यस्य दोषो द्रष्टव्यः ?" "तथाऽपि वदतु । यत्किञ्चिदप्यस्तु - वदतु भवान् ।" इति राज्ञा सनिर्बन्धं पृष्टे मन्त्री कथयति स्म "प्रभो ! यद्यप्यश्रद्धेयं ममेदं वचो भविष्यति तथाऽपि कथयामि । ह्यो रात्रौ मम पुत्रेण यदा भवतो दुहितुः स्पर्शः कृतः ततः प्रभृति स महाकुष्ठी दृश्यते । न जानामि किं तत्र कारणं स्यात् ? इति ।" - एतत् श्रुत्वाऽतीव क्रुद्धो राजाऽऽचुक्रोश "अहो ! पापिनी सा कथं जन्मनः पूर्वमेव न मृता ? ईदृशस्य नररत्नस्य विनाशिन्यलक्षणा सा इतः परं मम दृष्टिपथे नैवाऽऽनेतव्या । नाऽहं तस्याः पापिन्या मुखमपि द्रष्टुमिच्छामि ।" तदा त्रैलोक्यसुन्दर्या मात्रैवाऽन्तःपुरमहालयस्य कुत्रचिदपवरके धारिता सा यत्र कश्चिदपि तां द्रष्टुं तया सह १०४ Page #118 -------------------------------------------------------------------------- ________________ वक्तुं च न पारयेत् । अनेन त्रैलोक्यसुन्दरी चित्ते सुदुःखिता सती चिन्तयति - "दुर्विषह्यं कलङ्कमेतन्मम दैवदोषादुपस्थितम् - किमत्र कर्तव्यम् ? जीवितं त्यजामि ? अनशनं वा करोमि ? * नैव नैव । विवेकिनां नैतादृशं दुष्कर्म शोभते । यादृशी तादृशी वा परिस्थितिः । स्वकर्मणैवोपस्थिता सती विवेकेन धैर्येण च सम्मुखीकृत्य पारंगमनीया । तर्हि किं करवाण्यहम् ? आम्- स्मरामि तद्रात्रौ प्रियेण मोदकादनानन्तरं भणितं यत् - उत्तमा इमे मोदकाः किन्तु उज्जयिनीनीरयुता यदि स्यु-रित्यादि । कदाचित् स उज्जयिन्यां भवेत् । मम ज्ञापनार्थमेवैतादृशं गदितं स्यात् तेन । मया स्वयमेव तत्र गत्वा तच्छुद्धिः कर्तव्या।" अतः सा मातरं- "एकदा पितृदर्शनं कारये" ति याचते स्म । किन्तु * मात्राऽवज्ञयोपेक्षितं तत् । साऽपि तदपमाननं सहमाना समतया वर्तते स्म । अथाऽन्यदा स्वपितृतुल्यः शान्तमूर्तिर्गुणालयः सिंहनामा सामन्तराजस्ततो गच्छन् तया दृष्टः । सा तमाहूय विज्ञप्तवती यत् "कृपया केवलमेकवारं पितृदर्शनं कारयतु । भवान् हि मम * तातभूतः । पित्रे ममैकं वचनं श्रावयितुमवसरं कल्पयतु । ततोऽहं तूर्णमेव निर्गमिष्ये।" * सोऽपि तदुक्तमूरीकृत्य राजानं गत्वा विज्ञपयति स्म यत् - "प्रभो ! भवतः पुत्री * केवलमेकवारमेव भवद्दर्शनं कर्तुं भवते एकं वचनं च श्रावयितुमिच्छति । कृपया तस्यै वराक्यै एकमवसरं कल्प्यताम् । साऽन्यत् किमपि नेच्छति ।" एतच्छ्रुत्वा वल्लभाया दुहितुः स्मरन् राजाऽत्यन्तं करुणार्द्रहृदयो जातः । द्रुतमेव च प्रतिहारद्वारा तामाहूय पृष्टवान् - "वद पुत्रि ! किमिच्छसि त्वम् ?" तदा तयोक्तं - "तात ! कृपया मे कुमारवेषं प्रदेहि विश्वस्तभटांश्च कांश्चिदर्पय मत्साहाय्यार्थम् ।" श्रुत्वैतद् विस्मितो राजा सिंहं पृच्छति स्म- "भोः ! किमर्थमेषा कुमारवेषं भटांश्च याचते ?" सिंहेनोक्तं - "प्रभो ! राजकुलीयानां परम्परैषा यद् - यदा किञ्चिद् गुरुकार्यमापतति तदा राजकन्या राज्ञी वा पुरुषवेषेण तस्य कार्यस्य निर्वाहं करोति पारं च गच्छति । एषाऽपि कस्यचित् कार्यस्य निर्वाहार्थं भवन्तं कुमारवेषं याचते । कृपया *: तत्साहाय्यार्थं भटान् कुमारवेषं च तस्यै अर्पयतु भवान् ।" राज्ञा किञ्चिद् विचिन्त्य तत् । र स्वीकृतम् । उक्तं च - "भोः सिंह ! तस्या वचनानुसारमेषोऽहं तस्यै सर्वामपि सामग्री १०५ Page #119 -------------------------------------------------------------------------- ________________ 06:06:35:85:06:16:00: ददामि । किन्तु त्वयाऽपि तया सहैव गन्तव्यम् । यथा च मम वंशे दूषणं नाऽऽयात् तथा कर्तव्यम् ।" सिंहेन सविनयं तदङ्गीकृतम् । साऽपि वेषं प्राप्य हृष्टा सतो तत्क्षणमेव पितुः सकाशादुज्जयिनीं गन्तुमाज्ञां याचते स्म । पित्रा तत् स्वीकृत्य कथितं - "पुत्रि ! यथेष्टं स्थलं गत्वा निजकार्यं साधय, किन्तु नः कुले कलङ्कलेशोऽपि यथा न लंगेत् तथा वर्तेथाः ।" एवं पित्रा बोधिताऽऽज्ञप्ता च सा तूर्णमेव सिंहनृपेण सहाऽन्यैश्च भटैः परिवृता राजपुत्रवेषधारिणी उज्जयिनीं प्राप्ता । इत उज्जयिन्या राज्ञा- 'चम्पाया राजकुमार आयाति' इति श्रुत्वा तस्य सत्कारार्थं सर्वसामग्रीसंयुतेनाऽभिमुखं गतम् । महता वैभवेन तस्य नगरीप्रवेशं कारयित्वा विशेषप्रतिपत्तिं च कृत्वा तं सपरिवारं विटगृहे निवासयति स्म । तत्रोषिता स्वभर्तु - रन्वेषणार्थमुपायं चिन्तयन्ती सा स्वानुचरानाकार्य "यत्र स्थले स्वादु शीतलं च जलं भवेत् तादृशं स्थलं निरूपयन्तु " इत्यादिदेश । तेऽपि तदनुचराः सर्वत्र नगरीपरिसरे भ्रामं भ्रामं निरूपितवन्तो यन्नगराद् बहिः पूर्वस्यां दिशि विद्यते तादृशं स्थानम् । ततस्तैर्विज्ञप्ता सा स्वयमेव तत्र गत्वा गृहयोग्यं प्रदेशं विलोक्य च राजास्थानं प्राप्ता । राजानं प्रणम्य सा तत्र स्थले गृहनिर्माणार्थं विज्ञपयति स्म । तदा राजा सूत्रधारानादिश्य क्षिप्रमेवैकं सप्तभूमिकं महालयं कारयामास धन-धान्यादिसामग्ग्रा च पूरयामास । ततः शुभे दिने सपरिजनं कुमारं तत्र प्रावेशयत् । असावपि प्रत्यहं गवाक्षे निषण्णा जलवर्तनीं तत्सविधवर्तिप्रदेशं च विलोकयति स्म । 1 अथैकदा पञ्च वराश्वान् नीरपानार्थमागतान् दृष्ट्वा - 'अहो ! पितृसत्का इमेऽश्वास्तदात्वे च पित्रा करमोचनाय प्रियतमाय दत्तपूर्वा:' इति ऊहमाना सा 'मम भर्ताऽत्रैव नगरे कुत्रचिन्निवसती 'ति विनश्चितवती । ततः स्वभृत्यान् अश्वपालेभ्यस्तदश्वविषयिक पृच्छां कर्तुमादिष्टवती । तेऽपि सर्वं प्रपृच्छ्य तां निवेदितवन्तो यथा ‘“चम्पानगरीत आनीता एतेऽश्वाः । तथा धनदत्त श्रेष्ठिनो युवपुत्रस्येमेऽश्वाः । साधु कलाचार्यस्य पार्श्वे विद्या: शिक्षते" इत्यादि । ततः सा सिंहसामन्तमाहूय तदश्वक्रयणोपायं पृष्टवती । तेनाऽपि च सुतरां विचिन्त्य " प्रथमं तावत् स- कलाचार्यं सान्यच्छात्रं च श्रेष्ठिसुतं भोजनार्थमामन्त्रयतु " इति विज्ञप्तम् । साऽपि च तत् प्रतिश्रुत्य सर्वान् भोजनार्थमाकारितवती । - १०६ 000 000 000 000 000 000 000 000 000 Page #120 -------------------------------------------------------------------------- ________________ राजकुमारामन्त्रणं प्राप्य हृष्ट उपाध्यायः सर्वैश्छात्रैः सह निश्चिते दिवसे तद्गृहं प्राप्तः। अनयाऽपि सर्वा भोजनसामग्री प्रगुणीकृता । तत आगतान् सर्वान् सत्कारयन्ती सा श्रेष्ठतं दृष्ट्वोपलक्षितवती यदयमेव मे भर्तेति । ततोऽन्यान् सर्वान् भोजनार्थमुपवेश्य परिजनाय परिवेषणार्थमादिष्टवती, इमं च स्वीये आसन एवोपवेश्य छत्रादि धारयित्वा च स्वीये स्थाले स्वयमेवोत्तमाहारं परिवेषितवती भोजितवती च । भोजनानन्तरं च सम्माननार्थं भाण्डागारिकद्वारा सर्वेभ्यो यथोचितं वस्त्रालङ्कारादि दापितवती, अस्मै च स्वीयवस्त्रादि स्वयमेव दत्ते स्म । एतद् विलोक्य 'अहो ! अनेनैकेन वयं सर्वेऽप्यपमानिता:' इति चिन्तयन्तश्छात्रा विमनस्का: सञ्जाताः । ' तावताऽनयोपाध्यायाय निवेदितं यद् “एतेभ्यश्छात्रेभ्यः कश्चिद् यदि रम्यं कथानकं श्रावयेत् तदा वरम् ।” उपाध्यायेनाऽपि छात्रेभ्यः कथितं कथानककथनाय । असूयाप्रेरितैश्छात्रैश्च मङ्गलकलशमेव अग्रेकृत्य कथितं यद् - " अयमेव कथयतु कथानकं यतोऽस्यैवाऽऽदरोऽत्र क्रियते ।" अत उपाध्यायेनाऽऽज्ञप्तो मङ्गलकलशः कुमारनेपथ्यां तां पृष्टवान् यत् “चरितं कथयेयं कल्पितं वा ?" तयोदितं "चरितमेव कथय, किं कल्पितेन ?" तस्याः साभिप्रायं वचः श्रुत्वा चम्पाया आगतोऽयमिति च स्मृत्वा शङ्काकुलो मङ्गलकलशस्तां सम्यङ् निरूप्याऽवगतवान् यद् 'एषा सैव नृपकन्या या मया चम्पायां विवाहिताऽऽसीत् । केनाऽपि कारणेनेहाऽऽगताऽनेन रूपेणे'ति । 'भवतु यः कश्चिदपि सः । कथयामि मत्कथानकं येन सर्वमपि स्वयमेव स्फुटीभविष्यति' इति विचिन्त्य च स पुष्पानयनगमनत आरभ्य विवाहानन्तरमुज्जयिनीगमनपर्यन्तं सर्वमपि स्वीयवृत्तान्तं सरसं वर्णितवान् । तन्निशम्य सा कृत्रिमकोपं प्रदर्श्याऽऽ ऽ चुक्रोश " रे ! रे ! गृहाण गृहाणेममसम्बद्धप्रलापिनम् । किं नश्चम्पायामप्येतादृशं घटेत ? किमस्माकममात्य ईदृशस्याऽकार्यस्य विधाता ? गृहाणेमं मृषाभाषिणम् ।" तच्छ्रुत्वा भटा द्रुतमेव तद्ग्रहणार्थमागताः । तांश्च दृष्ट्वा मङ्गलकलशं मुक्त्वा भयद्रुत उपाध्यायश्छात्रैः सह सत्वरं ततो निर्गतः । एषाऽपि भटान्निवार्य तं प्रासादस्योपरितने तले नीतवती प्रधानसिंहासने च गौरवेणोपवेशितवती । ततः सिंहनृपमाहूय “तात ! एष स येनाऽहं चम्पायामूढा । तदनु यद् घटितं तत्तु भवता श्रुतमेव । ततो मया तिरस्कृते मन्त्रिपुत्रे मन्त्रिणा ममोपरि कलङ्कमारोपितम् । अधुना भवतोऽग्रे सर्वमपि स्फुटमस्ति । अतो भवानेव मम यत्कर्तव्यं निरूपयतु येन मे - - १०७ ********* Page #121 -------------------------------------------------------------------------- ________________ कलङ्कमपनीयेत सर्वमपि सुस्थं च भवेत् ।" इति विज्ञप्तवती । सिंहेनोक्तं "वत्से ! येन सार्धं त्वं विवाहिता स एव न्यायानुसारं ते भर्ता । अतः प्रकाशितेऽस्मिन् वृत्ते न कोऽपि दोषः स्यादिति मे मतिः ।" "तर्हि शीघ्रमेवाऽस्य गृहं गत्वा तातप्रदत्तं सर्वं स्थालादिकं विलोकयतु भवान् येन वयं सर्वथा निःशङ्का भवेम" इति कुमार्या निवेदितम् । सिंहः शीघ्रमेव श्रेष्ठिगृहं प्रति प्रस्थितः । __इतश्छात्रैः पूर्वमेव गत्वा धनदत्ताय कथितमासीत् यत् “त्वत्पुत्रेण तादृशं किमपि कथितं येन रुष्टः कुमारस्तं गृहीतवान् । वयं तु ततो निष्क्रान्ताः किन्तु तस्य किं जातमिति न जानीमहे ।" श्रुत्वैतदत्यन्तमाकुलीभूतः श्रेष्ठी राजपाश्र्वं गन्तुमुद्यतो यावत् प्राभृतादि प्रगुणीकरोति तावत् सिंहस्तत्र प्राप्तः । आकुलं श्रेष्ठिनं यथावृत्तकथनेन सान्त्वयित्वा स "स्थालादिदर्शनायाऽहमागतः" इति कथितवान् । श्रेष्ठिनाऽपि दर्शिते स्थालादिवस्तुजाते चम्पापतिनामाङ्कितं तद् दृष्ट्वा हृष्टः सिंहः श्रेष्ठिनमभिनन्दितवान् - "धन्योऽसि त्वं श्रेष्ठिन् ! यतस्तव पुत्रो गुणालयोऽस्ति । अधुना तु स महता कारणेन तत्राऽऽस्ते । अतो मा खियेथाः । शीघ्रमेव स सवधूरत्र समेष्यतीति रहस्यमपि ते कथयामि ।" अनेन श्रेष्ठी नितरामाश्वस्तो जातः । ततः सिंहो राजपुत्रीसमीपं गत्वा "सर्वं त्वदुक्तमवितथमेव पुत्रि !" इति * कथयामास । अतो हृष्टा सा कुमारवेषं त्यक्त्वा निजवेषेण मङ्गलकलशपादयोः पतिता विनिवेदितवती च - "हा नाथ ! केनाऽपराधेनाऽहं भवतैवं मुक्ता ? इदानीमपि मां सर्वथा क्षमयित्वा मयि दीनायां नाथत्वं कुरु । स्वामिन् ! त्वद्वियोगे मया यद्दारुणं दुःखं । सोढं तत्तु शत्रोरपि मा भूत्। अतः परं कदाऽपि मां मा त्याक्षीः ।" तेनोक्तं - "प्रिये ! किं करवाण्यहम् ? यतस्तदा तादृश्यां परिस्थितौ एवंरीत्यैव । मम त्वयोद्वाहः सञ्जातः । तदनन्तरं च त्वां मुक्त्वा मया गन्तव्यमापतितम् । साम्प्रतं तु सर्वमपि शोभनं यथा स्यात् तथैव करिष्ये । विषादं परित्यज । तथा तदाऽपि तव ज्ञापननिमित्तमेव मयोज्जयिनीनीरयोग्या मोदका - इति साभिप्रायं वचः कथितमासीत् । BF त्वया च तत् सम्यक् स्मृत्वोपयुक्तं येनाऽऽवयोः संयोगो जातः । अद्यप्रभृति तु न * १०८ Page #122 -------------------------------------------------------------------------- ________________ - - कदाऽपि नौ वियोगो भविता ।" __ ततो द्वावपि सिंहान्वितौ नृपास्थानं गतौ सभासमक्षमेव च सर्वमपि स्वीयवृत्तान्तं * निवेदितवन्तौ । तद्वृत्तं श्रुत्वा राजा सकला पर्षच्चाऽत्यन्तं विस्मिता जाता "अहो ! दैवस्याऽचिन्त्या गतिः !" इति कथितवन्तश्च । तदा मङ्गलकलशेन - "अग्रे आवाभ्यां किं कर्तव्यम् ? अहमेव तस्या भर्ता स वा ?" इति राज्ञे पृष्टम् । राज्ञाऽपि सर्वैर्मन्त्रिसामन्तादिभिर्विमर्श कृत्वा - "एषा तवैव पत्नी" इति समनुज्ञातम् । तामपि च त्रैलोक्यसुन्दरी - "वत्से ! अयमेव ते दैवप्रदत्तो भर्ता । अनेनैव सह त्वं पुण्यसौख्यमनुभव" इति अनुरुद्धवान् । तयाऽपि "महान् प्रसादो भवता"मित्यङ्गीकृतम् । ततो राज्ञा सा स्वसुतात्वेन प्रतिपद्य वस्त्राभरणादिभिर्भूषिता । मङ्गलकलशमपिपुण्यवान्-इति श्लाधित्वा वस्त्रादिभिः सत्कृतवान् । तावता धनदत्तेनाऽपि पुत्रवधूं गृहं नेतुं राज्ञे प्रार्थितम् । राज्ञा सहर्षं तदनुमत्य कथितं "भोः ! इदमपि नूतनं गृहं - अस्या निमित्तं कारितमधुना तवैव । अतस्तत्रैव सकुटुम्बः संवस ।" तेनोक्तं - "भवदादेशः प्रमाणम् । किन्तु मङ्गलकार्यार्थमधुना स्वगृह एव नयामि ।" ततो धनदत्तान्वितौ तौ गृहं गतौ । श्रेष्ठिनाऽपि तयोः प्रवेशनिमित्तं वर्धापनकं ॐ कृतम् । हृष्टया सत्यभामयाऽपि महताऽऽडम्बरेण वधू-वरौ गृहं प्रवेशय्य कौतुकमङ्गलादि कृतम्। ततः सर्वेऽपि राजप्रदत्ते सप्तभूमिके प्रासादे संवसितुं गतवन्तः । अथ त्रैलोक्यसुन्दरी सिंहसामन्ताय कुमारवेषं सैन्यं च प्रत्यर्प्य ससन्देशं पितृसकाशे : चम्पां प्रेषितवान् । सोऽपि सबाष्पनयनो गद्गदहृदयश्च तदाज्ञां गृहीत्वा चम्पां प्रति प्रस्थितः प्राप्तश्चाऽनवरतप्रयाणै राजसकाशे । आस्थाने स्थितं चिन्ताकुलं राजानं प्रणम्य वेषादिकं 8 समर्प्य च सर्वमपि तस्या वृत्तान्तं कथयामास । श्रुत्वा तत् हर्षाकुलो राजा तां प्रशंसति , स्म- "अहो ! तस्या बुद्धिमाहात्म्यं विज्ञानकौशलं क्षान्तिः शीलरक्षणं भर्तृभक्तिर्दोषभयं च । न सा मम कन्या किन्तु मूर्तिमती समुज्ज्वला कीर्तिः । तादृश्यां मम दुहितरि किं किं न सम्भाव्यते ? भोः सिंह ! त्वं पुनरपि उज्जयिनीं गत्वा सत्वरं भर्तृसमेतां तामत्र समानय ।" सिंहः पुनरपि उज्जयिनी प्रति प्रस्थितः । कतिचिद्दिनस्तत्र प्राप्य कुमार्यै पितुराज्ञां ** १०९ Page #123 -------------------------------------------------------------------------- ________________ 06:06:05 06:05:00:20:00:00:0 श्रावयित्वा च स-धवां तां चम्पां प्रति निनाय । मङ्गलकलशयुतां त्रैलोक्यसुन्दरीं दृष्ट्वा परमसन्तुष्ट राजा मन्त्रिणे कुपित: "अहो तस्य सुबुद्धेरीदृशी कुबुद्धिः ? तेनाऽनार्येणैतादृशं निष्पापं निर्दोषं च मिथुनं वियोजितम् ? अहो तस्याऽदीर्घदर्शिताऽत्यन्तमूढता निर्भयं चित्तं पापप्रसक्तता निर्दयकारिता दुष्टचित्तता च !! तदकार्यस्य फलमधुनैव तस्मै दर्शयामि । अरे भटाः ! तं पापकर्माणं निर्दयं बद्ध्वाऽऽनयताऽत्र येन स्वयमेवाऽहं तस्य शिरो लुनामि ।" तदादेशानुसारं शीघ्रमेव भटाः सुबुद्धिगृहं गत्वा रज्जुपाशैस्तं बद्ध्वा चाऽऽनीतवन्तो नृपसमीपे, यावन्नृपः किञ्चिद् वक्तुमुद्युक्तस्तावता मङ्गलकलशस्तस्य पादयोः पतित्वा विज्ञपयति स्म - "देव ! अयं मे ताततुल्यः । अनेनैव चम्पायामानीयाऽहं भवतः कन्यया विवाहितः । तथा तत्पूर्वमपि मम सर्वाऽपि प्रतिपत्तिस्तेनैव कृता । अतः कृपया कृपालुहृदयो भवानेनं मुञ्चतु ।" तन्निशम्याऽतीव प्रसन्नो राजा सुबुद्धिमुवाच " पश्य भो निर्घृणचित्त ! त्वयाऽस्येदृशमपकृतं, त्रैलोक्यसुन्दर्यपि कलङ्कारोपणेनाऽत्यन्तं दुःखीकृता तथाऽप्ययं तव हितमेवेच्छति । इदमेव दुर्जन- सुजनयोरन्तरम् ।" ततो मङ्गलकलशमाह - " वत्स ! न युक्ताऽनुकम्पाऽस्मिन् निष्कृपे दुष्टे । तथाऽपि त्वत्प्रार्थनं नैव लङ्के । नाऽहमेनं मारयिष्ये । किन्तु दण्डस्त्वस्मै दातव्य एव ।" “भो ! यतस्तव नामाऽपि नो श्रूयेत तत्र प्रदेशे व्रजाऽन्यथा तव जीवितं नाऽस्ति" इति भणित्वा च सुबुद्धिमन्त्रिणं स्वदेशतो निर्वासितवान् । ततो राज्ञाऽऽस्थान एव सर्वा अपि स्वभार्या आहूताः । तास्त्वागत्य यावद् मङ्गलकलशसमन्वितां त्रैलोक्यसुन्दरीं पश्यन्ति तावत्तत्र हर्षबाष्पदुर्दिनं संवृत्तम् । सर्वा अपि तास्त्रैलोक्यसुन्दरीं स्नेहस्निग्धवात्सल्यरसैः स्त्रपयन्ति स्म । तावपि सर्वा अपि ता प्रणमतः स्म । सर्वोऽपि परिसरः सौख्येनाऽऽ - नन्देन - हर्षेण च सम्बभार । ततो मङ्गलकलशविज्ञप्त्या तन्मातापितरावपि चम्पायामेवाऽऽनायितौ । सर्वेऽपि ससुखं सानन्दं च राजप्रासादे निवसन्ति स्म । - अथाऽन्यदा राजा स्वीयामात्य - सामन्तादीनाकार्य कथयति स्म "महाभागाः । मम कुलं वंशं चोद्धर्तुं साम्राज्यं च वोढुं समर्थः पुत्रो नाऽस्ति । अत एनं मङ्गलकलशमेव ११० - *99*99*99*99*99*998 1998 1996 1995 1996 ပွဲစား Page #124 -------------------------------------------------------------------------- ________________ मम पट्टेऽलङ्कर्तुमिच्छामि । स एव मम कुलमुद्धरिष्यति राज्यभारं चाऽऽभिजात्येन निर्वोढा । अतोऽत्राऽर्थे भवतामभिप्रायं शुश्रूषामि ।" तैः सर्वैरपि राज्ञोक्तं सर्वमपि निर्विरोधं स्वीकृतम् । ततो नृपेण दैवज्ञमापृच्छ्योत्तम दिनं ज्ञात्वा शुभे लग्ने महोत्सवपूर्वकं मङ्गलकलशश्चम्पानगर्या राजसिंहासने नृपत्वेनाऽभिषिक्तः । अभिषेकान्ते च राज्ञा सर्वेभ्यः प्रजाजनेभ्यो मङ्गलकलशस्याऽऽज्ञां पालयितुं समादिष्टं, स्वीये शासनकाले च कृतानां दण्ड-शिक्षानुशासनादीनां क्षमायाचनं कृतम् । ततः सभासमक्षं सोल्लासं भावयति स्म यद् - "यदि कोऽपि सद्धर्मकोविदो गुरुवर्य आगच्छेत् तर्हि सर्वथाऽसारं संसारमेतत् त्यक्त्वा तत्पादपद्मयोर्जीवनं समर्प्य प्रव्रज्यां चाऽङ्गीकृत्य स्फुरत्पताकाञ्चलचञ्चलं मनुजजीवितं सफलीकरोमि ।" एतावता नगरबहिःष्ठस्योद्यानस्य रक्षक आगत्य विज्ञप्तवान् - "प्रभो ! अद्याऽस्माकमुद्याने मरौ कल्पतरुरिव रोरकरे चिन्तामणिरिवाऽपारे पारावारे च द्वीपमिव दिव्यज्ञानी परमतेजोमयो भास्वरैः शिष्यनक्षत्रतारागणैः परिवृतो मुनिनिशाकरः श्रीयशोभद्रसूरिः ॐ समागतोऽस्ति" । निशम्यैतत् सुप्रसन्नो राजोद्यानपालकाय प्रभूतं धनं दत्त्वा पुत्री जामातृमन्त्रिसामन्तादिभिः सह गुरुवन्दनार्थं गतवान् । यथाविधि प्रदक्षिणां वन्दनं च : कृत्वा गुरुभगवन्तं स्तोत्रैः स्तौति स्म, स्तवनैः स्तवीति स्म स्तुतिभिश्च स्तुवीति स्म । ततो गुरुमुखनिर्झराद् वैराग्यरसस्राविणी देशनां श्रुत्वा राजा निवेदयति स्म "प्रभो ! असारसंसारात् त्रस्तोऽहं परमसुखदायिनी प्रशमसुखकारिणी च प्रव्रज्यामङ्गीकर्तुमिच्छामि। कृपया भवतः पूज्यचरणयोः स्थानं दत्त्वा मम भवनिस्तारणं करोतु ।" गुरुभगवताऽपि नृपस्य प्रव्रज्याग्रहणयोग्यतां नितान्तपवित्रतामन्तस्तलनिर्मलतां च 8 स्वज्ञानेन विज्ञाय तस्मै भवोदधितारणतरीतुल्या प्रव्रज्या साधुवेषश्च समर्पितौ । दीक्षाग्रहणानन्तरं राजर्षिः स्वकर्मगहनं शीघ्रतया ज्वालयितुमिवोग्रतपश्चरणं तीव्रभावेन च संयमानुष्ठानं करोति स्म । इतो मङ्गलकलशोऽपि भाग्यवशात् संप्राप्तं राज्यं न्यायानुसारं पालयन् पुण्यफलानि भुङ्क्ते स्म । तदा तं जन्मना वैश्यं ज्ञात्वा प्रतिवेशिराजानो सम्मील्य तद्राज्यभ्रंशार्थं * चम्पानगरीमास्कन्दन्ते स्म । एषोऽपि प्रबलपुण्योदयान्वितः प्रचण्डसामर्थ्येन तैः सह घोरं १११ Page #125 -------------------------------------------------------------------------- ________________ सङ्ग्रामं कृत्वा सर्वानपि तान् विजित्य स्ववशे स्थापितवान् । एवं तस्य राज्यं विस्तीर्णं, शत्रवोऽपि तन्महत्त्वमङ्गीकृत्य मित्रायिताः । - अन्यदा त्रैलोक्यसुन्दर्यपि शुभस्वप्नसूचितं तेजस्विनं सुरूपं च पुत्रं प्रासूत । तनाम जयशेखर इति स्थापितम् । तदनु सभार्यो मङ्गलकलशो धर्मकार्येषु सूद्यमं करोति स्म । स बहून् जिनालयान् कारयित्वा तत्र जिनप्रतिमाः प्रतिष्ठापयामास । नैकेषु जिनमन्दिरेषु विविधप्रकाराः पूजा रचयामास । नगरे रथयात्राः कारयामास । आगम* शास्त्रपुस्तकानि लेखयामास । मुनिभ्यः सुपात्रदानं करोति स्म कारयति स्म च । तथा 8 साधर्मिकानामुचितप्रतिपत्ति दीनादिभ्यश्चाऽनुकम्पादानं करोति स्म । तथा नैजे शासने 3 सर्वा अपि प्रजाः पुत्रवत् पालयति स्म । नीतेरुल्लङ्घनं कथमपि न सहते स्म । अनेन 3. सर्वत्र राज्ये सौख्यं शान्तिश्च नितरां प्रसरति स्म । अथैकदाऽतिशायिज्ञानी तपस्तेजसा भ्राजमानो नैकसाधुगणसमन्वितः श्रीजयसिंहसूरिस्तत्र समागतः । तदागमनं ज्ञात्वा मङ्गलकलशोऽपि सपुत्रकलत्रो मन्त्रिसामन्तादिपरिवृतः ON सन् तान् वन्दितुं गतः । वन्दित्वा स्तुत्वा च गुरुसम्मुखं धर्मदेशनां श्रोतुं निषण्णः । सूरिवर्योऽपि समुद्रमन्थनसमगभीररवेण देशयति भव्यान्, यथा - "असारोऽयं संसारः । सर्वेऽपि संयोगा विद्युत्पुञ्ज इव लोलाः क्षणक्षणं च दृष्टनष्टाः । सुखं हि दुःखकक्षीकृतम्। कुशाग्रजललवचञ्चलं जीवितम् । कोऽपि जीवो निरन्तरं सुखं न प्राप्नोति । मानभ्रंशप्रियविप्रयोगादिदुःखानि वारं वारं लभते । निरन्तरं भ्रंशरहितं च सुखं धर्मादेव प्राप्यते । अतो जनैः सदा धर्मकार्येषु प्रयत्नशीलैर्भाव्य"मित्यादि । देशनान्ते राजा पृच्छति स्म - "भगवन् ! पूर्वत्र मयाऽनया च तादृशं किं कर्म - कृतं - येनेहाऽऽवामेवं विडम्बितसुखितौ ?" तदा गुरुवर्यस्तयोः पूर्वजन्मवृत्तं कथायामास - "पुरा किल क्षितिप्रतिष्ठितनगरेऽबहुधनोऽपि सुबहुगुणो जने प्रमाणभूतो निर्मलान्तःकरणश्च सोमचन्द्र-नामा कुलपुत्रो निवसति स्म । शीलशालिनी पवित्रहृदया च श्रीदेवी नाम तद्भार्याऽऽसीत् । तत्रैव नगरेऽत्यन्तं पापभीरुरनवद्यकारी जिनेश्वरभक्तियुक्तचित्तो नितरां धर्माचरणासक्तो जिनदेवा* भिधः श्रावकः सोमचन्द्रस्य परममित्रमासीत् । अन्यदा सोऽधिकं धनमर्जयितुं देशान्तरं * .११२ Page #126 -------------------------------------------------------------------------- ________________ जिगमिषुमित्राय दश दीनारसहस्राणि समर्प्य 'मनाम्ना धर्मे व्ययं कुर्याः' इति निर्दिश्य च गतवान् । अयमपि तन्निर्देशानुसारं जिनेश्वरान् पूजयामास, साधुभ्यो दानं दत्तवान्, सङ्घभक्तिं 8 दीनादिप्रतिपत्तिं च करोति स्म । एवमन्यान्यपि धर्मकार्याणि प्रवर्तयामास । एवं कुर्वता तस्य हृदयेऽपि भावोल्लासः प्रकटितः । अतः सोऽत्यन्तं प्रसन्नचित्तेनैतत् सर्वं करोति स्म। तद् दृष्ट्वा श्रीदेव्या तत्कारणे पृष्टे सर्वमपि कथयामास । तच्छ्रवणेन च तस्या अपि भाव उल्लसितः । ततो द्वावपि मिलित्वा धर्मकार्याणि कुरुतः स्म । इतस्तनगरे एव श्रीदेव्याः सखी भद्रा नाम निवसति स्म । तस्या विवाहो देवदत्तनाम्ना श्रेष्ठिपुत्रेण सञ्जातः । स कदाचित् कर्मवशात् त्वग्दोषी सञ्जातः । तच्च भद्रया श्रीदेव्यै कथितम् । तदोपहासपूर्वं - 'तव स्पर्शादेवैवं सञ्जात'मिति श्रीदेवी जल्पति स्म । एषा तन्निशम्य विच्छायवदना दुःखिता चाऽभूत् । तदा तज्ज्ञात्वा श्रीदेवी क्षमा याचित्वा तां सान्त्वयामास । अथ तन्नगरोपान्ते रमणीयोद्यानेऽन्यदा पञ्च दुर्दान्ता नरा मदनमञ्जर्या वेश्यया सह क्रीडारता आसन् । तावता तेषु परस्परं संकथा प्रचलिता यत् - सोमचन्द्रः श्रीदेवी च शीलव्रतात् चालयितुं न शक्यौ केनाऽपि । तदा मदनमञ्जर्या कथितं - 'अस्मिन् जगति तादृशः पुरुषो नाऽस्ति यो नार्या नेत्रकटाक्षेण चलितो न भवेत् ।' 'अहमेव तं सोमचन्द्रं शीलव्रतात् यथाकथमपि चालयिष्ये ।' इति प्रतिज्ञातं च । तदा तेषु पञ्चसु अन्यतमः कामाङ्करनामा पुरुषोऽपि एवंरीत्यैव श्रीदेवीशीलखण्डनाय सगर्वं प्रतिज्ञां गृहीतवान् । तावता सोमचन्द्रस्तदुद्यानपर्यन्तवर्तिना मार्गेणैव ग्रामाद् बहिर्गच्छन् तैर्दृष्टः । तं * दृष्ट्वा सत्वरं सा वेश्या तत्पाश्र्वं गता । तत्र सर्वथा विजने मार्गे एकाकिन्येव सा सोमचन्द्रं स्वां प्रत्याक्रष्टुं विविधान् हावभावान् कृतवती । किन्त्वयं तदपश्यन्नेव ततो गन्तुं # प्रवृत्तः । तदाऽनया तत्सम्मुखमेव गत्वा प्रलपितम् । यथा - 'त्रायस्व भो ! रक्ष मां ॐ कृपया ।' सोमचन्द्रो झटिति तत्पार्वं गत्वा पृष्टवान् - 'कस्त्वां पीडयति भगिनि !?'। सोक्तवती - 'मा मां भगिनीति वद । कामशरा मां पीडयन्ति । कृपया तेभ्यो मे रक्षां' कुरु । ममाङ्गे प्रज्वलितं कामाग्नि स्वाङ्गसङ्गदानेन निर्वापय ।' तेनोक्तं - 'मा मैवं वद . भगिनि ! । कुलीना दृश्यसे त्वम् । परपुरुषं प्रत्येवं वचनमपि पापकारि । किं नाऽस्ति | ११३ - Page #127 -------------------------------------------------------------------------- ________________ तव कुलकलङ्कभयम् ? तवैतत् कथनं सर्वथाऽयोग्यमेव । गच्छ गृहे । पातिव्रत्यं च पालय ।' इति एवंरीत्या तेन निराकृताऽसौ 'यदि त्वं मां न स्वीकुर्यास्तदाऽहमत्रैवाऽऽत्मघातं करिष्ये तेन च तव स्त्रीहत्यापातकं भविष्यति' इति कथितवती । तदाऽनेनोक्तं - ‘भवतु मे स्त्रीहत्यापातकं, प्रलयो वा कल्पान्तो वाऽप्यागच्छतु । अहं तु प्राणात्ययेऽपि पापाचरणं नैव करिष्ये ।' एतन्निशम्य लज्जिता साऽवदत्- 'कृपया मां क्षाम्यतु । अहं मदनमञ्जरीनाम वेश्या भवतः शीलव्रतं परीक्षितुमागताऽऽसीत् । किन्तु भवान् लेशमात्रमपि न विचलितः । नूनं भवानेव वास्तवेन शीलव्रतधारी । कृपालुर्भवान् मेऽपराधमवश्यं मर्षयिष्यते ।' ततस्तं प्रणम्य सा ततो निर्गता तान् पञ्च नरान् कथितवती स्वपराजयवृत्तम् । एतत् सर्वं श्रुत्वा कामाङ्करोऽभिमानेनाऽवक् - 'मदने ! यद्यपि त्वं हारिता भ्रष्टा च प्रतिज्ञया । किन्तु अहं तां श्रीदेवी नूनं शीलवतखण्डनाय प्रेरयिष्यामि ।' ततः स शीघ्रमेव सोमचन्द्रगृहं गतः । 'अहं सोमचन्द्रमित्रमस्मि' इत्युक्त्वा गृहान्तर्गतः स श्रीदेवीमुक्तवान् - 'हे सुतनो ! तव रूपाग्नावहं शलभीभवितुमागतोऽस्मि । नवं वयः, सुन्दरं रूपं, प्रबलं यौवनं, ईप्सितं च विजनं - सर्वाऽपि सामग्री विद्यमानाऽस्ति । आगच्छ, अस्याः सामग्र्याः सार्थक्यं भजेवहि । ईदृशोऽवसरो न पुनरपि प्राप्स्यते । मादृशो युवाऽपि महाभाग्येनैव लब्धस्त्वया । सर्वमप्येतदुपयुज्य सौख्यसीमानमुल्लङ्घावहै।' तस्य मुखादीद्वंशि वचांसि श्रुत्वा स्तब्धा श्रीदेवी द्रुतमेव स्वस्थतां प्राप्य तं प्रतिबोधयितुं कथितवती - 'बन्धो ! किमित्येतादृशं पापप्रेरकं वचनं वदसि ? नैतद् योग्यं भवादृशामुत्तमकुलप्रसूतानाम् । मा मनसाऽप्यनाचारं सेवस्व बन्धो ! येन मा नरकेऽयोमयीं तप्तां नारी श्लिक्षिष्ठाः । तथोज्ज्वलं कुलयशो मा मषीकूर्चकैः कलङ्कितं कुरु । - ईदृशाकार्यकरणेनेह परत्रोभयत्राऽपि दुःखं विना नाऽन्यत् किञ्चित् प्राप्येत ।' एवं प्रतिबोधित: * कामाकरो लज्जानम्रशिरास्तां स्वागमनहेतुं कथयित्वा क्षमयित्वा च ततः प्रतिनिवृत्तः । एवं श्रीदेव्यपि शीलव्रतपरीक्षायामक्षततयोत्तीर्णा । ततः सोमचन्द्रः श्रीदेवी चाऽभ्यधिकं धर्मरतौ सञ्जातौ । कदाचित् साधूनामुपदेशं प्राप्य द्वाभ्यामपि प्रधानं तपोनुष्ठानं कृतमुत्तमा भावना च भाविता । एवमेव निरन्तरं .. * धर्मकार्यरतौ तौ श्रावकधर्ममङ्गीकृत्य द्वादशाऽणुव्रतानि प्रतिपन्नौ । निरतिचारतया तानि *: ११४ Page #128 -------------------------------------------------------------------------- ________________ प्रपाल्य तौ सौधर्मकल्पे पल्योपमपञ्चकायुष्कौ देवौ सञ्जातौ । तत्र निरन्तरं सौख्यमुपभुज्याऽऽयुःक्षये च च्युत्वा भवन्तौ द्वौ सञ्जातौ । तत्राऽपि मङ्गलकलश ! त्वया परद्रव्येण धर्मव्ययः कृत आसीदत एषा त्वया भाटकेन परिणीता । अनया च त्रैलोक्यसुन्दर्या हास्येनैव सख्यै दूषणं दत्तमासीदतोऽत्रैषा शुद्धाऽपि कलङ्किता क्षमा च याचितेति सद्यस्तत कलङ्कादुत्तीर्णा । तथाऽखण्डशीलत्वात् द्वयोरपि युवयोरत्र पुनरपि सङ्गमो जातः" । एवं गुरुभगवन्मुखात् स्वीयपूर्वभववृत्तश्रवणेनोहापोहं कुर्वतोर्द्वयोरपि जातिस्मरणं * सञ्जातम् । अल्पमपि दुष्कृतमनिष्टफलदायि भवतीति ज्ञात्वा द्वावपि भृशं खिन्नौ । तदा ॐ सूरिस्तौ सान्त्वयति स्म यद् - "भो ? मा खेदमनुभूतम् ! अद्याऽपि न किञ्चिद् विनष्टम् ।" तदा ताभ्यां पृष्टं- "प्रभो ! कथमीदृशं दुष्कर्म क्षयं प्राप्यते ?" गुरुणोक्तं"संसारसागरोत्तरणतरी प्रव्रज्यां श्रयथः । तस्या आश्रयणेन वज्रतुल्यमपि कर्म सर्वथा चूर्णीभूय विनंक्ष्यति । अयमेवैक उपायोऽस्ति कर्मक्षयार्थम् ।" तदा मङ्गलकलशोऽपि "यथाऽनुशास्ति भगवान्" इत्युक्त्वा नगरं गतः । तत्र मन्त्रि-सामन्तादीनापृच्छ्य स्वपुत्रं जयशेखरं राज्येऽभिषिक्तवान् । ततो गुरुसमीपं गत्वा द्वाभ्यामपि मङ्गलकलशत्रैलोक्यसुन्दरीभ्यां विज्ञप्तिः कृता - "प्रभो ! प्रव्रज्यादानेनाऽनुगृह्णात्वावाम् । येन द्रुतमेव सर्वकर्मणां क्षयं कृत्वा शाश्वतं सौख्यं भजावहै ।" गुरुणाऽपि यथाविधि दीक्षा प्रदत्ता ताभ्याम् । ततो द्वावपि निरतिचारं व्रतानि पालयित्वाऽऽयुःक्षये पञ्चमे कल्पे देवौ सञ्जातौ । ततो भवत्रयपर्यवसाने मोक्ष प्राप्स्यतः ।। (श्रीदेवचन्द्रसूरिविरचितस्य प्राकृतभाषामयस्य ‘सिरिसंतिनाहचरिय'स्स आधारेण सङ्कलितैषा कथा ।) ११५ Page #129 -------------------------------------------------------------------------- ________________ गम् नम्र - चित्रशिक्षकः मयोक्तं खलु यत् तृणं भक्षयतोऽश्वस्य चित्रं कुरु ? किमर्थं तन्न कृतं त्वया ? विद्यार्थी मया कृतं तद् गुरो ! । - शिक्षकः यदि कृतं तर्हि कागदे किमर्थं तन्न । दृश्यते ? कुत्राऽस्ति तृणम् ? तत्त्वश्वोऽभक्षयत् ! शिक्षकः । तर्हि कुत्राऽस्त्यश्वः ? का विद्यार्थी र विद्यार्थी अधिकारी ह्यो मध्याह्न त्वमेवमुक्त्वाऽवकाशं प्राप्तवान् की यद् 'अहं दन्तचिकित्सकं मीलितुं गच्छामि' ! जनः आम्, सत्यम् ! अधिकारी किन्तु ह्यस्तु वानखेडे स्टेडियम् - इति NCE स्थलात् स्पर्धासमाप्त्यनन्तरमेकेन मित्रेण सह बहिरागच्छन् त्वं मया दृष्टः । जनः स एव मम दन्तचिकित्सकः । ११६ Page #130 -------------------------------------------------------------------------- ________________ पत्रकारः (निवृत्तं राजकीयपुरुषमुद्दिश्य) भवतः कार्यकालस्य किमप्युज्ज्वलं पक्षं - वदतु । राजकीयपुरुषः असत्प्रवृत्तिं कुर्वनहं न कदाऽपि केनाऽपि दृष्टो गृहीतो वा ! - नरेशः अहं परदेशीयवस्तुनोऽतीव विरोध्यस्मि । दिनेशः कथं तर्हि त्वया धूम्रपानं क्रियते ? सा धूम्रवर्तिकाऽपि परदेशीयवस्त्वेवाऽस्ति खलु ! नरेशः "अत एव सा मया दग्धा" !! - मितेशः महेशः भो ! तव कार्यालयस्य कार्य कथं प्रवर्तते ? अहो ! अतीव सुन्दरम् । अहमेकादशवादने TV प्रविशामि, पश्चाच्चायपानम्, ततः परस्परं ! वार्तालापः, पश्चाद्भोजनम्, तदनन्तरं किञ्चित्कालात पुनः चायपानम्.... इति । तर्हि भवता कार्य कदा क्रियते ? "द्वितीयदिने"। हो मितेशः महेशः ११७ Page #131 -------------------------------------------------------------------------- ________________ 5 अपूर्वः भो ! रथ्यावसाने वसन् मणिकान्तः किं भवतः स्वजनो वा ? अद्वितीयः आम् स मे स्वजन एव, किन्तु दूरस्वजनः । अपूर्वः कथं दूरस्वजनः ? एक अद्वितीयः पश्यतु, गृहे वयं द्वादश भ्रातरः स्मः, तेषु ज्येष्ठोऽहम्, अयं च कनिष्ठः । ।।। चञ्चला (प्रातिवेश्मिी ) वयमागामिनि सप्ताहे नूनगृहे tale उषितुं गमिष्यामः । तत्र चाऽस्माकमत्यन्तं शोभनाः प्रतिवेशिनः प्राप्स्यन्ते । मङ्गला अस्माकमपि शोभनाः प्रतिवेशिनः प्राप्स्यन्त र इत्याशासे । चञ्चला किं भवन्तोऽपि गृहपरिवर्तनं करिष्यन्ति ? मङ्गला नैवम् । वयं ह्यत्रैव वत्स्यामः, किन्तु भवतः स्थानेऽवश्यं केचिदागमिष्यन्त्येव खलु ? .PAN रमा (पति) भवतः शिरसि खलितिः प्रारब्धाऽस्ति, शीघ्रं चिकित्सां कारयतु । रमणः विचारशीलानां चिन्तकानां च केशा अल्पीयस्येव न वयसि क्षरन्ति । रमा एतादृशीं तर्कविहीनामुक्ति नाऽहं विश्वसिमि । रमणः ममाऽप्यत्र विश्वासो नैवाऽऽसीत् । परन्तु तव सुन्दरान् , मृदूनायतांश्च कुन्तलान् दृष्ट्वा प्रत्ययो जातः । ६VLE ११८ Page #132 -------------------------------------------------------------------------- ________________ - - - - HINo. HIVAN NA , अमेरिकादेशीयः कश्चिद् भारतदेशस्य प्रवासार्थं प्रथममेवाऽऽगत आसीत् । मुम्बाईनगरे 'क्राफर्ड्स मार्केट' - स्थलस्य समीपे एकत्र फलविक्रेतुर्निकटं स्थित्वा कदलीफलं प्रत्यङ्गुलिनिर्देशेन पृष्टवान् - किमेतत् ? कदलीफलम् । एतादृशं कदलीफलम् ? अस्माकं देशे तु मीटप्रमाणं कदलीफलं भवति । भवतु, एतच्च किम् ? एपलफलम् । ईदृशम् ? । अस्माकं देशे त्वेतदेकैकमपि पञ्चकिलोमानं जायते ।। एतत्पुनः किम् ? (तरस्बुजफलं (Watermelon) प्रत्युद्दिश्य पृष्टवान्) द्राक्षा ! विक्रेतोक्तवान् । एतच्छ्रुत्वैव विलक्षो भूत्वा स ततो निर्गतः । ११९ Page #133 -------------------------------------------------------------------------- ________________ මල්ක රෑවේ abo 'प्राकृतविभागः कथा परदुहभंजग - सिरिविकुमाइच्चययस्स परपुरप्पवेसो मुनि कल्याणकीर्तिविजयः एत्थ चेव जंबुद्दीवे दीवे सिरिभरहखित्ते अवंतिजणवओ अत्थि । तस्स य पुहईमहिलाए कण्णाहरणसमा उज्जेणीनयरी नाम रायहाणी अत्थि । जा य अब्भंलिहपासायसिहरफुरंतकोडिधयाण आडंबरेण सुरपुरीमवि उवहसइ पिव । Acano तत्थ य नियविक्कमक्कंतसयलनरिंदो असमसत्तविणिज्जियवेयालमइंदो सुवन्नपुरिससिद्धिपणासियभुयणदालिद्दो परदुहभंजणे य सया वि निन्निदो विक्कमराया रज्जं करेइ । सव्वत्थ जणवए सव्वेसि पि जणाणं पीडाओ अवहरेउं निच्चतसरो सो अन्नया कयाइ एवं चिंतेउं पवत्तो जहा मज्झं सेन्नाई ताव जाणंति एक्कं परपुरप्पवेसं, अहं पुण दुइज्जं पि तं जाणेउं इच्छामि । जइ वि मए अणेयाओ सिद्धीओ पाविया किंतु इमा परपुरप्पवेसविज्जा अज्ज वि अयाणिया चेव विज्जइ । ता कहमवि सा विज्जा जाणिव्वा चेव, नऽन्नहा हिययनिव्वुई मज्झ । तओ सो रज्जसुत्थं काउं मंति- सामंताण य अणुसासिऊण निययसचिवेण सह पुहविं भमिउं पयट्टो, जह कह वि कस्सइ सिद्धपुरिसस्स संजोगो हवेज्ज सो य परपुरप्पवेसं सिक्खावेज्ज । कइवयदिणाई भमिउं सो अण्णया पट्ठाणनयरं पत्तो । तत्थ नयरसीमंते दिट्ठो एगो जोगी । दरिसणेण चेव अईव महिमावतं तं दट्ठूण णेण चिंतियंनूणं एसो सिद्धपुरिसो । जइ एयं सेवेमि तो निच्छयं ममाहिलासो फलेज्ज । तओ सो सचिवबीओ तं सेविउं आढत्तो । पइदिणं तस्स सव्वमवि कज्जं १२० Page #134 -------------------------------------------------------------------------- ________________ - करेइ। एयं दट्ठण तेण सिद्धेण पुच्छिअं - भो! को सि तुमं? किमत्थं वा मं सेवेसि ? - १६ तया रण्णा वि निययवुत्तंतो निययाहिलासो य कहिओ । सिद्धो कहेइ- जाणामि अहं + एयं विज्जं । तुमं च तं सिक्खेउं जोग्गो । परं न एसो तुज्झ सहाओ तारिसो त्ति सो १ चिट्ठउ । जओ - होइ अणत्थफलं चिय क्यं कुपत्ते परेण सुकयं पि । परिणमइ विसत्तेणं दिन्नं दुद्धं पि सप्पस्स ॥ तया रन्ना वुत्तं - अहं एयं सहायं ति काऊण आणीयवंतो ता कहं वंचेमि १९ 6 एयं? । तया सिद्धेण वि नियइ त्ति काऊण दोण्ह वि परपुरप्पवेसविज्जा सिक्खविया। 6 सिक्खंते सिद्धपुरिसं पणमिऊण आपुच्छिऊण य राया ससहाओ तत्तो निग्गओ । कमेण पत्तो नियनयरबाहिं । तत्थ य तंमि चेव दिणे पट्टहत्थी केणइ कारणेण विवन्नो आसी। are तस्सरीरं रत्ना दिटुं । तओ किंचि आलोचिऊण तेण सचिवस्स भणियं - भो ! अहं * अज्ज तं विज्जं परिक्खेउं इच्छामि त्ति तुमं मह सरीरं रक्खेज्ज । तओ पच्छा हं पुणन सावि मज्झ सरीरं अहिदाइस्सं । तेण वि कहियं - जहारुइयं करेउ देवो । अहं तम्ह पल १६ सरीरं रक्खिस्सामि । तओ राया कत्थ वि मढे गंतूण तत्थ एवं सचिवं नियदेहरक्खगत्तणेण ठाविऊण य नियदेहाओ निग्गओ समाणो पविट्ठो हत्थिदेहं । एएण पट्टहत्थी उट्ठिओ वियरिउं च 80 पयट्टो । एत्थ य अणेण वि सढसचिवेण नियसरीरं चइऊण रायसरीरं अहिट्ठियं । तओ a चियं रइऊण तत्थ नियसरीरं पज्जालियं । तओ य जाणावियं मंति-सामंताणं जहा राया : आगओ त्ति । तेहिं वि एवं जाणिऊण हरिसिएहिं गरुअरिद्धीए पवेसिओ सो नयरमज्झे। र एसो वि रायपासायं गंतुं मंतीहि समं रज्जं करेइ । तओ अंतेउरं पि गओ सो देवीहि र १९ समं कोलइ मणोविणोयं च करेइ । किंतु सरीरेण रायसरिसं पि चरिएहिं अन्नारिसं तं 38 ६ दट्ठण देवीहिं तस्स फासो निसिद्धो । इओ य राया वि हत्थिदेहत्थो नियसरीरपविढे सइवं दट्ठण चिंताउलो 'अहो सिद्धवयणं सच्चं' ति चितंतो नगराओ निग्गंतूण गओ अडवि । तत्थ य कस्सइ60 सरवरस्स तीरे कंचि पुरिसं रुक्खगए सउणे सरप्पओगेण विणासंतं दट्ठणं तेण किंचि 910 sbes5QAbo २२७१७२२रररररररररर besb05050sbesbCRbCb0b0b0505050b0b 1096696964 १२१ Page #135 -------------------------------------------------------------------------- ________________ चिंतियं । तओ एगं विवन्नजच्चकीरसरीरं पविसिऊण सो गयणे उड्डिओ । ओ गणत्थो चेव सो तं पुरिसं कहिउमारद्धो भो ! जइ मह वयणं करेसि ता पभूयं दव्वं पाविहिसि । तेणावि वुत्तं - जं भणेसि तं काहं । कीरेण वुत्तं - मंघित्तूण नयरं वच्च । तत्थ य बहुअदव्वेण मं विक्किणेसु, जेण पाविएण तुमं ईसरो भविस्ससि । सो वि ‘एवं करिस्सं' ति कहिऊण नियकरयलं समागयं सुगं धित्तूण उज्जेणि नयरिं गओ । तत्थ य चट्टए ठिओ सो तं विक्किणेउं पयट्टो । एत्थंतरे तत्थाऽऽगयाए गणियाए दिट्ठो सो कीरो । अच्वंतं मणोहरं मणुस्सभासाजंपिरं च तं दट्ठूण विम्हियमणाए तीए भणिओ सो वाहो जं देसु मे दव्वेण एयं कीरं । तेण वि 'गह पंचहिं सएहिं' त्ति वृत्तं । इत्थंतरे तत्थ नयरसिट्ठिसुओ आगओ । तेण वुत्तं - देसु मे छहिं सएहि । ताहे गणियाए कहियं - भो ! तुमए पुव्वं चि मम दिनो एसो त्ति मा देसु इमस्स । तया सो कहेइ - एसो मे अहिगं मुल्लं देइ त्ति तस्स दाहं । एवं तेसिं मज्झे कलहो आरद्धो । तो तलारेण एयं दट्ठूण ते रायउलं नीया सव्वे वि । मग्गमज्झे य देवयापणमणत्थं निग्गयाए पट्टमहिसीए दिट्ठो कीरो । अईव मणोहरं भणिओ तीए तलारो जहा दट्ठूण 'एयस्स जंमग्गियं मुल्लं दाऊण मम चेव समप्पेसु कीरं 'ति । तेणावि तहेव कयं । महादेवीए वि सुओ निययनिकेयणं नीओ । अइवल्लहो त्ति निरंतरं तेण समं चेव कीलए सा । जइ वि एस चेव राय त्ति न मुणइ देवी तह वि तंमि चेव सा लहइ रई । जओ तं - - दुद्धं ति अमुणियं पि हु पीयं दुद्धं कुणइं तुट्ठि । इओ राया वि ' सइवेण एवंपयारेण छलिओ हं' ति लज्जाए नो पयडेइ अप्पाणं । जओ एयं चेव सज्जणाण सज्जणत्तणं । सो य महादेवि विविहेहिं मणोहरेहिं कलाकलावेहिं निरंतरं तोसेइ । सा वि य एवं तुट्ठा तस्सुवरिं तहा णेहाणुबंधिणी संजाया जहा कीरं पयंपए - 'जीवामि तइ जीवंते, मरमाणे पुण निच्छएण जीवियं चइस्सामि' त्ति । इओ सइवो वि जहा कहमवि महादेवि तोसेउं पयत्ते कुणइ । ता अण्णया कयाइ देवीए सयणभुवणे एगा गिहकोइला सेज्जाए उवरिं संचरंती का वि चेडीए दिठा । तं दट्ठूण मणा परुट्ठाए तीए लट्ठिप्पहारेण आहया सा तक्खणं १२२ Page #136 -------------------------------------------------------------------------- ________________ - चेव अहे पडिया मया य । एयं दट्ठण किंचि चिंतिऊण रण्णा कीरसरीरं मोत्तुं तीए - घरकोइलाए निच्चेटुं सरीरं अहिट्ठियं, वेगेण य कहिं पि विवरंमि पविट्ठो सो । ताहे ) १ निज्जीवं कीरसरीरं दट्ठण अच्चंतविसायभरेण दुखिया देवी विलवइ जह - 'हा १० * वल्लह ! मणहरदेह ! महुरभासग ! कत्थ पत्तो सि कीर ! ? किंति पडिवयणं न देसि ? - तुह वयणाणि असुणंती खणं पि जीविउं न सक्काऽहं' ति । मंती-सामंत-रायाईहिं बहु - १६ विनविया वि सा झूरिऊणं एवं भणइ- कड्ढह चंदणागरुकट्ठाई, रयावेह य चियं जओ to मए एएण कीरेण सह "मए मरियव्वं" ति पडिवन्नं आसी । तन्निव्वाहणत्थं अवस्सं र साहिस्सामि जलणं । एयं दट्ठण रायसरीरट्ठिएण सइवेण चिंतियं जह 'एस चेव अवसरो त्थि एयाए - तोसेउं' । तेण कहियं - देवि ! मेल्लसु मरणग्गहं, जं तुज्झ रुच्चइ तं सव्वं पि काहं । ) 8 तीए वि वुत्तं सग्गहाए जह - जइ एसो न जीवेइ तो नाऽहं जीविउमिच्छामि । ताहे 90 तेण भणियं - जइ कहमवि एवं जीवावेमि तो मरणग्गहं मेल्लसि ? ममं च अणुकूला - भविस्ससि ? तीए कहियं - 'आम' ति । तो णेण 'एत्थ कस्स वि पवेसो न दायव्वो'त्ति पाइक्के आइसिऊण पल्लंके य पर १९ ससरीरं मोत्तूण कीरसरीरे अप्पा संकामिओ । एयं दट्ठण अईव हरिसिया महादेवी । १६ Re एत्यंतरे रण्णा वि ‘एस चेव पत्थावो'त्ति गिहकोकिलादेहं मुत्तूण निययसरीरं १ म अहिट्ठियं भणियं च - 'अहो कयग्घत्तणं सइवस्स, अहो ! निग्घिणत्तणं, अहो ! निठुरया!' । पर एयं सुणेउं विम्हियमणाए देवीए विनवियं - 'किमेवं भणह ?' रण्णा वि AR सव्वो वि परपुरप्पवेसविज्जासाहणपमुहो निययवुत्तंतो निवेइओ पसंसियं च अंतेउर- १९ 7 वग्गस्स सीलपालणं । तओ कयावराहो वि कीरसरीरत्थो सइवो रण्णा जीवंतो चेवन ॐ विमुक्को जओ - 'देव्वनिहएसु सप्पुरिसा कइया वि पोरुसं न कुणंति। 'त्ति ।। _ (संकलिया एसा कहा - सिरिसोमप्पहसूरिविरइयकुमरवालपडिबोहो-गंथाओ ।) ११ (परपुरप्पवेसो ति परसरीरप्पवेसो) Ho Dde9d9829d9d9829deedbeddddddd9829 १२३ Page #137 -------------------------------------------------------------------------- ________________ Page #138 -------------------------------------------------------------------------- ________________ नूतनं प्रकाशनम् हास्यमेव जयते सब्सनम कीर्तित्रयी नन्दनवनकल्पतरुप्रकाशनम-१ हास्यमेव जयते (सचित्राणां हास्यकणिकानां सङ्कलनम्) सङ्कलनम् - कीर्तित्रयी प्रकाशनम् - श्रीभद्रोदय शिक्षण ट्रस्ट, गोधरा मूल्यम् - 60 रूप्यकाणि प्राप्तिस्थानम् - श्रीविजयनेमिसूरीश्वरजीस्वाध्यायमन्दिरम्। 12, भगत बाग, शेठ आणंदजी कल्याणजी पेढी पासे, पालडी, अहमदाबाद -380007 दूरभाष - 079-26622465