________________
No
M
| तस्मै श्री गुरवे नमः
डॉ. महेश्वरः रमानाथः द्विवेदी __न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
गीता. अ-४/३८ सत्यमेव कथितं यत् - ज्ञानसदृशं पवित्रं न किञ्चिदपि । यदा ज्ञानचर्चा भवति तदा on ज्ञानवाहकयोर्द्वयोः पात्रयोर्गुरुशिष्ययोर्विचारणां विना चर्चेयमपूर्णैव।
अद्य गुरुपूर्णिमासदृशः पवित्रदिवसः, गुरुपूजनस्य दिवसः । स्वाभाविकतया पर स्वजीवने प्राप्ता गुरुजनाः स्मृतिपथे आयान्ति । मनसा स्वगुरून् वन्देम । का अस्माकं शास्त्रकारैस्तु गुरवे ईश्वरतुल्यं कदाचित्तु ईश्वरादप्यधिकतरं स्थानं प्रदत्तम् । र अनेन ज्ञायते यत् – मानवजीवने कीदृशं महत्त्वं गुरुजनानाम् ! श्रीमद्भगवद्गीतायामपि भगवता से श्रीकृष्णेनाऽर्जुनसमीपे स्वकीयं गुरुरूपं प्रकटितमस्ति ।
कथितं च तत्र- शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ।
ईश्वरस्तु सर्वोच्चस्थानारूढः, तथापि स केन कारणेन गुरुर्भवितुमीप्सितवान् ? अनेनैन विचारेण स्पष्टीभवति यत् - गुरोः स्थानमीश्वरादप्यधिकतरमस्तीति ।
कबीरोऽपि कथयति
कबीरा ते नर अन्ध है, गुरुको कहते और ।
हरि रूठे गुरु ठौर है, गुरु रूठे नहीं ठौर ।
यो मन्यते यत् - गुरोः स्थानमीश्वरान्न्यूनं स अन्धोऽस्ति । यतः - यदा ईश्वरो विमुखो 3 * भवति तदा तस्योपायो गुरुसमीपेऽस्ति । परन्तु यदा गुरुर्विमुखो भवति तदा नास्ति कोऽप्युपायः । अत ईश्वरादप्यधिकतया गुरुराराधनीयः ।
___ यदा गुरुजनानां गुरु-शिष्यसम्बन्धस्य च वार्ता भवति तदा स्वाभाविकतया प्राचीना • अर्वाचीनाश्च गुरवः स्मृतिपथे आयान्ति । प्राचीनकाले श्रीकृष्णः सुदामा च सांदिपनि-आश्रमे
समानरीत्यैवाऽभ्यासं कुरुतः स्म। श्रीकृष्णस्तु राजपुत्रः, सुदामा दीनब्राह्मणः । तथापि शिक्षायां
Jain Education International
७६ For Private & Personal Use Only
www.jainelibrary.org