________________
२ निरुध्यते ततश्च तत्त्वचिन्तने एकाग्यं सिद्ध्यति । यैश्च योगिभिरेष मार्ग आसेवितोऽस्ति । 5 तेषामनुसरणेन तान् प्रति बहुमानभावोऽपि समुद्भवति ।
(६) दंशमशकादि कायेऽवगणय्य-पद्मासनाद्यासनस्थः सन्नपि यदि दंशम-ॐ Fory शकादीन् सम्यग् न सहेत तर्हि वारंवारं तत्त्वचिन्तने विक्षेपो जायते । तांश्च जीवान् प्रति Aचित्तं द्वेषकलुषितं भवति । दंशमशकादिसहनेन तु सामर्थ्य जागर्ति, तत्त्वचिन्तनमार्गे च NO ॐ प्रगतिरपि भवति येनेष्टफलसिद्धिः सुकरा भवति ।
(७) तद्गतचित्तेन-रागादीनां विषयभूतानां पदार्थानां तेषां च क्षणभङ्गरतादिभावानां 12 तत्त्वस्य तद्गतचित्तेन तत्त्वचिन्तनेन विषयाणां यथार्थावबोधो जायते । तेन च योगमार्गे
प्रगतिमिच्छन् साधको निमित्तैरपि विचलितो न भवति । सकललब्धीनां प्राप्तौ कारणभूतो - 4) यः साकारोपयोगस्तद्रूपत्वादेतदिष्टसिद्धेः-भावनानिष्पत्तेः प्रधानमङ्गमस्ति ।
र एवं चोपरिनिर्दिष्टेन विधिना कृतादभ्यासात् तत्त्वं चित्ते परिणमति, तेन च । सद भवान्तरेष्वनुगामि-उत्तरोत्तरं भवेषु दृढं दृढतरं वा सम्पत्स्यमानम्, पारम्पर्येण च मोक्षसुखस्य का 1 संसाधकं प्रधानं चित्तस्थैर्यं प्राप्यते ।
एतस्य तत्त्वज्ञानस्य प्राधान्यं ज्ञापयतिएयं खु तत्तणाणं असप्पवित्तिविणिवित्तिसंजणगं । थिरचित्तगारि लोगदुगसाहगं बेंति समयण्णू ॥६६।।
एतदेव तत्त्वज्ञानमसत्प्रवृत्तिविनिवृत्तिसञ्जनकम् ।। Lस्थिरचित्तकारि लोकद्वयसाधकं ब्रुवते समयज्ञाः ॥६६॥]
भावनामयज्ञानस्वरूपममृतमयं यदेतत्तत्वज्ञानं तदसत्प्रवृत्तेरात्मानं निवर्तयति, चित्ते पर तर स्थैर्यं जनयति, उभयलोकगतं हितमपि साधयति ।
तत्त्वचिन्तनं ह्यज्ञानपटली भित्त्वा सदसतोर्बोधं प्रकटयति, मिथ्याबोधवशाच्च । ॐ कृतात् क्रियमाणाच्चाऽसत्प्रवर्तनान्निवर्तयति । यथा यथा चाऽसतो निवृत्तिर्भवति तथा O तथा चित्ताद् व्याकुलताऽपसरति, निष्प्रकम्पता स्थैर्य वोद्भवति । चित्तस्थैर्येण ONGC चौत्सुक्यनिवृत्तिः कुशलानुबन्धश्च जायते । ततश्चेहपरोभयलोकहितं प्राप्यते-इति समयविदः ।
-सिद्धान्तज्ञा वदन्ति ।
६४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org