________________
एवं च रागादिदोषाणां जयार्थमेको विधिस्तत्त्वचिन्तनरूपो दर्शितः । अथ विध्यन्तरं RA) दर्शयति -
अहवा ओहेणं चिय भणियविहाणाओ चेव भावेज्जा । सत्ताइएसु मेत्ताइए गुणे परमसंविग्गो ॥७॥ सत्तेसु ताव मेत्तिं तहा पोयं गुणाहिएसुं ति । करुणामज्झत्थत्ते किलिस्समाणाऽविणेएसु ॥७९।।
अथवौघेनैव भणितविधानादेव भावयेत् । सत्त्वादिषु मैत्र्यादीन् गुणान् परमसंविग्नः ॥७८।। सत्त्वेषु तावन्मैत्री तथा प्रमोदं गुणाधिकेष्विति ।।
करुणा-मध्यस्थत्वे क्लिश्यमानाविनेययोः ॥७९॥ अथवा तु सामान्येनोपरिनिर्दिष्टेन 'आज्ञया-विविक्तदेशे' इत्यादिविधिनैव परमसंविग्नो-लब्धिपूजाख्यात्याद्याकाङ्क्षारहितो भूत्वा सत्त्वादिषु मैत्र्यादिभावनां भावयेत् । ५) तत्र जीवमात्रमधिकृत्य मैत्री भावयेत्, न किन्तु प्रत्युपकारस्याऽपेक्षामावहेत् । ये चार र स्वस्माद् गुणाधिकास्तेषु प्रमोदभावं भजेत् । प्रमोदोऽयं बहुमानाशयस्वरूपोऽस्ति । गुणान् द 1) गुणिजनांश्च प्रति पक्षपाते सत्येवैष शक्यः । जगति चाऽस्मिन् बहवो दुःखिनो दुर्गताश्चम १२ जना विद्यन्ते, तेषु कारुण्यं धारयेत् । ये चाऽविनेया अप्रज्ञापनीयास्तेषु माध्यस्थ्यं
भावयेत् । यदुक्तं तत्त्वार्थसूत्रे भगवता श्रीउमास्वातिवाचकेन-"मैत्री-प्रमोद-कारुण्यमाध्यस्थ्यानि सत्त्व-गुणाधिक-क्लिश्यमाना-ऽविनेयेषु" ७/६ इति । एवं च मैत्र्यादिभावना7 भिरपि रागादिदोषाणां जयः शक्यः ।
एतादृशानां योगमार्गप्रवृत्तानामाहारः कीदृशो भवति तद् दर्शयतिसाहारणो पुण विही सुक्काहारो इमस्स विणणेओ । अण्णत्थओ य एसो उ सव्वसंपकरी भिक्खा ॥८१।। वणलेवोवम्मेणं उचियत्तं तग्गयं निओएण । एत्थ अवेक्खिअव्वं इहराऽयोगो त्ति दोसफलो ॥८२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org