________________
जोगाणुभावओ च्चिय, पायं ण य सोहणस्स वि अलाभो । लद्धीण वि संपत्ती इमस्स जं वण्णिया समए ॥८३।। रयणाई लद्धीओ अणिमादीयाओ तह य चित्ताओ । आमोसहाइयाओ तहा तहा जोगवुड्डीए ॥८४॥ | साधारणः पुनर्विधिः शुक्लाहारोऽस्य विज्ञेयः । L अन्वर्थतश्चैष पुनः सर्वसम्पत्करी भिक्षा ॥८१।। व्रणलेपौपम्येनोचितत्वं तद्गतं नियोगेन । अत्राऽपेक्षितव्यमितरथाऽयोग इति दोषफलः ॥८२॥ योगानुभावत एव प्रायो न च शोभनस्याऽप्यलाभः । लब्धीनामपि सम्प्राप्तिरस्य यद् वर्णिता समये ॥८३॥ रत्नाद्या लब्धयोऽणिमाद्यास्तथा च चित्राः । 1
आमर्पोषध्याद्यास्तथा तथा योगवृद्धः ॥८४॥ -
योगस्य कस्यामप्यवस्थायां वर्तमानस्याऽऽत्मन आहारः शुक्लाहार एव भवति । 7 यः शुद्धानुष्ठानेन साध्यः, शुद्धानुष्ठानस्य हेतुभूतः, स्वरूपेण शुद्धश्च भवति स शुक्लः । 11 एतस्य शुक्लाहारस्यैवाऽपरं नामाऽस्ति 'सर्वसम्पत्करी भिक्षा' इति । सर्वसम्पत्करणशीला
या भिक्षा सा सर्वसम्पत्करी भिक्षा । सा च दातृग्रहीतॄणामुभयलोकहिताय भवति । दाता
ह्यत्र सुपात्रं प्रति भक्त्या प्रेरितः सन्नाकाङ्क्षादिरहितो भूत्वा ददाति, ग्रहीता चाऽपि 4 'स्वसाधनायां सहायभूतस्य देहस्य रक्षणार्थमेवाऽऽहारं गृह्णामि' इति बुद्ध्यैव गृह्णाति न । तु लोलुपो भूत्वा । एवं चोभयोरपि कल्याणमेव भवति ।
अत्रोचितभिक्षाया हविःपूर्णादिकाया लाभो योगप्रभावादेव भवति । शोभनाऽपि NS भिक्षा योगानुभावात् सुलभा भवति । यतो 'योगिनां रत्नादिलब्धयः, अणिमाA महिमादिलब्धयः, आमर्पोषध्यादिलब्धयश्चाऽपि योगवृद्धः कारणाद् भवन्ति' इति सिद्धान्ते
उक्तमस्ति । येषां कृते एतादृश्यो लब्धयोऽपि सुलभास्तेषां कृते शोभनस्योचितस्य । चाऽऽहारस्य का वार्ता ?
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org