SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ अथ योगावस्थायाः फलं दर्शयतिएत्तीए एस जुत्तो सम्म असुहस्स खवगमो णेओ । इयरस्स बंधगो तह सुहेणमिय मोक्खगामि त्ति ||८५॥ एएण पगारेणं जायइ सामाइयस्स सुद्धित्ति । तत्तो सुक्कज्झाणं कमेण तह केवलं चेव ॥१०॥ एतयैष युक्तः सम्यगशुभस्य क्षपको ज्ञेयः । L इतरस्य बन्धकस्तथा सुखेनैव मोक्षगामीति ॥८५॥ एतेन प्रकारेण जायते सामायिकस्य शुद्धिरिति । । ततः शुक्लध्यानं क्रमेण तथा केवलं चैव ॥१०॥ एवं च योगमार्गप्रवृत्तानां कृते योगवृद्ध्यर्थमनेकप्रकारको विधिदर्शितः । यथाविधि - 5 प्रवर्तमानस्य योगिनो योगवृद्धिरवश्यंभाविनी । तया च योगवृद्धयाऽशुभकर्मणां, पुनर्यथा HD न बध्यन्ते तथा, क्षयो भवति । तथाऽसौ योगी शुभकर्मणां बन्धको भवति, अर्थाद ) विशिष्टदेश-कुल-जात्यादीनां निमित्तभूतानां पुण्यकर्मणां बन्धको भवति । एवं चाऽशुभकर्मणां क्षयेण शुभकर्मणां चोपार्जनेनैष योगी सुखपरम्परां प्राप्य क्रमेण मोक्षगामी भवति । A तथा योगमार्गस्य स्वस्वभूमिकानुरूपमुपरिनिर्दिष्टविधिना प्रवर्तनेन सामायिकस्यर आत्मनो मोक्षकारणभूतस्य समत्वपरिणामस्य शुद्धिर्भवति, अर्थात् समता विशेषेण निर्मला 0 र निर्मलतरा निर्मलतमा भवति । तया च शुद्ध्या शुक्लध्यानं जायते, क्रमशश्च केवलज्ञानं प्राप्यते । अर्थतत्सामायिकं-समतैव प्राधान्येन मोक्षाङ्गमस्तीति दर्शयतिवासीचंदणकप्पं तु, एत्थ सिटुं अओ च्चिय बुहेहिं । आसयरयणं भणियं अओऽण्णहा ईसि दोसो वि ॥९१॥ [वासी-चन्दनकल्पमेवाऽत्र श्रेष्ठमत एव बुधैः ।। Lआशयरत्नं भणितमतोऽन्यथेषद्दोषोऽपि ॥९१॥ । एतत्सामायिक-समत्वं वासीचन्दनकल्पमस्ति । वासीचन्दनकल्पं नाम सर्व-ॐ Jain Education International For Privas Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy