________________
A वीतरागान् प्रति च बहुमानोऽपि न स्यात्तदा तुल्याऽपि क्रिया कर्मक्षयाय न प्रभवति । A अतोऽत्र 'आज्ञया' इति प्रथममुक्तमस्ति ।
(२) विविक्तदेशे - एकान्तप्रदेशे तत्त्वचिन्तनं करणीयम् । तथाकरणेन च । O योगाभ्यासे प्रवर्तमानस्य विक्षेपो-व्याघातो न भवति, योगवशिता-योगाभ्याससामर्थ्य चाऽपि HD
प्राप्यते । विधिप्रवृत्तिवशात् तत्राऽसदाग्रहस्याऽभावो वर्तते, तेन च सा योगवशिता 40 प्रशस्ता भवति । नित्यं च सामर्थ्यस्य वृद्धिरपि भवति ।।
(३) सम्यगुपयुक्तः - उपयोगस्त्वाध्यात्मिकक्षेत्रे प्राणभूतोऽस्ति । उपयोगो AN नाम जागृतिः । उपयोगशून्यायाः कस्या अपि कीदृश्या अपि क्रियाया मूल्यं किञ्चिदपि र
न भवति । यदुक्तम् "अनुपयोगो द्रव्यम्" इति - यस्यां क्रियायां जागृतिः-उपयोगो 1 नास्ति सा क्रिया द्रव्यक्रियैव भवति न भावक्रिया । तस्याश्च फलमप्यत्यन्तमल्पं सामान्य
र वैव प्राप्यते । अत एव उपयोगस्तु सर्वत्राऽनिवार्यः । उपयोगो नाम समीपयोगः, अर्थाद र योगसिद्धेः प्रत्यासन्नयोगो नामोपयोगः । एष उपयोग आगमविहितक्रियासु सर्वत्राऽवितथभावस्वरूपोऽस्ति ।
(४) गुरुभ्यो देवताभ्यश्च प्रणम्य - गुरु-देवान् प्रणम्य तत्त्वचिन्तनं । पर करणीयमिति चतुर्थो विधिः । तथाकरणेन तेषामनुग्रहो जायते येन च स्वेष्टमार्गे विघ्नभूता र anta अन्तरायाः क्षीयन्तेऽधिकृतस्य च तत्त्वचिन्तनस्य सिद्धिरपि भवति ।
सामान्यतस्तु देवा वा गुरुवो वा माध्यस्थ्यमेव धारयन्ति, अतः प्रत्यक्षेण । FA नाऽनुग्रहादि कुर्वन्ति । किन्तु साधकस्य विनेयस्य वा चित्ते यस्तान् प्रति बहुमानभावो ) 4G वर्तते तेनैव तस्याऽन्त्यरायाः क्षयं यान्ति कार्यसिद्धिश्च भवति-एष एवाऽनुग्रहो नाम । - एष एवाऽनुग्रहो 'देवस्य गुरोश्चाऽय'मित्युच्यते ।
_ यथा मन्त्र-रत्नादिकं प्रत्यक्षेण न किमप्युपकुर्यात् किन्तु यथाविधि तत् र सेवमानस्याऽभीष्टफलप्राप्तिरूप उपकारो भवति, स च मन्त्र-रत्नादिकस्यैवेत्युच्यते तद्वदत्राऽपि व विज्ञेयम् ।
(५) पद्मासनादिस्थानेन-पद्मासन-सिद्धासन-वीरासनाद्यासनेभ्योऽन्यतमे स्थित्वा . 30 तत्त्वचिन्तनं कार्यम् । एतेन च कायनिरोधो भवति, बाह्यविषयेष्विन्द्रियाणां भ्रमणं च 5
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org