SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ - - - योगशतकदोहनम् मुनिरत्नकीर्तिविजयः । भूमिका ___ योगशतकनामाऽयं ग्रन्थोऽपि सूरिपुरन्दरैः पूज्याचार्यचरणैः श्रीहरिभद्रसूरिभगवद्भिः * सन्दृब्धोऽस्ति । प्राकृतगाथानिबद्धोऽयं ग्रन्थः । ग्रन्थेऽस्मिन् योगस्य पैश्चयिक-व्यावहारिके- १) त तिप्रकारद्वयस्य स्वरूपं वर्णितमस्ति । निश्चययोगस्य कारणत्वाद् व्यवहारयोगोऽत्र विस्तरेण वर्णितोऽस्ति । योगमार्गस्याऽधिकारिणः के ? अर्थात् किंस्वरूपायां भूमिकायां प्रवर्तमानानां न जीवानां प्रवृत्तिोगत्वेन ख्याप्यते-इत्यस्य वर्णनमस्ति । पूर्णज्ञानिभिश्चैव ज्ञेयमिदमधिकारित्वं र वयमपि यथा जानीयाम तथा तत्तदधिकारिजीवानां लक्षणान्यप्यत्र दर्शितानि सन्ति । न तदनु च तेषां भूमिकाभेदं विज्ञाय किंरूप उपदेशस्तेभ्यो दातव्यो येन ते माग 5 स्वस्वभूमिकानुरूपं विकासं साधयेयुः ? इत्युपदेशाधिकारोऽप्यत्र विशदं वर्णितः । 2) पश्चाच्च प्राप्तेऽस्मिन् योगमार्गे कथं स्थैर्य सम्पादनीयम्, स्वयोग्यतां च सम्यक् परीक्ष्य र व कथं नवं गुणस्थानं प्रापणीयम्, कर्मवशाच्च रागादिदोषाणां समुद्भवे तेषां स्वरूपादिचिन्तनं । als कथं करणीयं येन तेभ्यो रक्षणं स्यात्,-इत्याद्यनेकविधो योगमार्गसहायको विधिरत्र - 6 निरूपितोऽस्ति कारुणिकेन श्रीमताऽऽचार्यवर्येण । अन्ते च योगस्य महाफलं संदर्य 30 15 ग्रन्थस्योपसंहारः कृतोऽस्ति ।। ON एतस्य ग्रन्थस्य पठनेनैतत्सिद्धं भवति यद्यदि मनुष्यो योग्यतां प्राप्नुयात् स्वकीयाया 4D भूमिकाया विकासं च साध्नुयात् तर्हि व्यवहारजीवने प्रवर्तमानः सन्नपि व्यावहारिकं fo योगित्वं प्राप्नोत्येव । तदेव च व्यावहारिकं योगित्वं तं क्रमेण निश्चययोगस्य र 20 शिखरमारोहयति। एवं च ग्रन्थोऽयमत्यन्तमुपादेयः पठनीयो मननीयश्च । विषयबोधसौकर्यार्थं FO ग्रन्थान्तर्गता गाथा व्युत्क्रमेणाऽप्यत्र दोहने प्रस्तुताः सन्ति, तज्ज्ञेयम् । ग्रन्थस्याऽस्याऽध्ययनेन सर्वेऽपि योगित्वं लभन्तामिति शुभाशयः । इति शम् । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy