________________
एवं हेवाकवेगादतनुत जगतां नाथ एनां नवीनां वाणीं सद्वाक्यवेणीमभिनवरसिकश्रेणिवीणायमानाम् । क्याचित्कैः पौनरुक्त्यैरनुचितवचनैरप्रबुद्धप्रयोगैर्दूरोत्सार्येयमार्यैरपि ननु नुतये नूतनी नव्यधीनाम् ॥
प्रागैवैतादृशीं यद्यपि कृतिमकरोद् ज्ञः “कर् शेष"* नामा व्याहारैश्चित्तचोरैः सहृदयसुभगैः कन्नडोक्तीरनूद्य ।। एषोऽस्यां मे विशेषो विशदमनुकृता रीतिराभाणकानां प्रासप्राधान्यमान्या जडबुधमधुरा नव्यया यत् पदव्या ॥
विश्वं क्वाभाणकानां झटिति जडधियामप्यशेषस्फुटानां क्वापि न्यायक्रमोर्वी प्रखरतमतिज्ञेयगाम्भीर्यगुर्वी ? इत्थं मत्वादिमोत्थं स्तबकमकरवं प्रायशः प्रीणनार्थं धन्यानां नूतनाध्वन्यपरमविरलं पद्धतौ पण्डितानाम् ॥
अब प्रात्तां प्रयोक्तुं सुवचनसरणिं सम्यगन्यापदेशः पन्थाः सेव्यः सुधीभिः सकुतुक्मतिभि विभिः काव्यकारैः । एतावत्येव तावद् भवति कृतिरियं प्राय एतादृशीति भ्रान्तिः कार्या न चायैरनवधिरुदयो यद् वचोवैभवानाम् ॥
उद्यानेषु क्रीडता मर्कटेन क्रोधोद्वेगं नैति पद्मी कदाचित् । ध्वाक्षे रूक्षं ध्वाङ्क्षति, च्छिन्नपक्षो विक्षिप्तः सन् किं पिको रारटीति ? ॥
(★ दिवङ्गतेन विदुषा करुशेषाचार्येण एतादृशी काचिद् रचना “लौकिकगाथाचतुश्शती"
नाम्नी रचिता महाराजसंस्कृतमहापाठशालापत्रिकायां प्रकाशितपूर्वा च । तत्र प्रासो नाऽऽसीत् । कन्नडाभाणकानाम् अनुवादमात्रा सा ।।
३४ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org