________________
योगशतकदोहनम्
णमिऊण जोगिणाहं, सुजोगसंदंसगं महावीरं । वोच्छामि जोगलेसं, जोगज्झयणाणुसारेणं ॥१॥
नत्वा योगिनाथं, सुयोगसंदर्शकं महावीरम् ।
[
']
अत्राऽऽचार्यवर्यः शिष्टसमयपरिपालनार्थं विघ्नोपशान्तये च मङ्गलादिकं कुर्वन् योगकथनं प्रतिजानीते - “ योगिनाथं सुयोगसंदर्शकं श्रीमहावीराख्यमन्तिमं तीर्थकृतं नत्वा सिद्धान्तप्रसिद्धं योगाध्ययनमनुसृत्य योगस्य लेशं वक्ष्ये" इति ।
अथ प्रतिज्ञानुसारेण योगं विवृणोति । इह योगो द्विविधो भवति - निश्चयतो व्यवहारतश्चेति । तत्र निश्चयतो नाम ?
Jain Education International
निच्छयओ इह जोगो, सण्णाणाईण तिन्ह संबंधो । मोक्खेण जोयणाओ, णिद्दिट्ठो जोगिनाहिं ॥२॥ सणाणं वत्थुगओ बोहो, सद्दंसणं तु तत्थ रुई । सच्चरणमणुट्ठाणं, विहिपडिहाणुगं तत्थ ॥३॥
निश्चयत इह योगः, सज्ज्ञानादीनां त्रयाणां सम्बन्धः । • मोक्षेण योजनाद्, निर्दिष्टो योगिनाथैः ||२||
सज्ज्ञानं वस्तुगतो, बोधः सद्दर्शनं तु तत्र रुचि: सच्चरणमनुष्ठानं, विधिप्रतिषेधानुगं तत्र ॥३॥
']
सज्ज्ञानादीनां - सम्यग्ज्ञानस्य सम्यग्दर्शनस्य सम्यक्चारित्रस्य चेत्येतेषां त्रयाणां यः सम्बन्धः-एकात्मन्यवस्थानं स निश्चयेन - आनन्तर्येणाऽक्षेपेण च मोक्षेण योजकत्वाद् निश्चयतो योग इति योगिनाथैः-तीर्थकृद्भिर्निर्दिष्टमस्ति ।
तत्र सज्ज्ञानादित्रयाणां मध्ये सम्यग्ज्ञानं नाम वस्तुगतो बोधः । अर्थाद् ज्ञेयं वस्त्वधिकृत्य यज्ज्ञानं प्रवर्तते तत् सम्यग्ज्ञानम् । ज्ञेयस्याऽवलम्बनं विना ज्ञानं न भवत्येव । यदि, सम्भवतीत्युच्यते तर्हि तन्मिथ्यैव न सम्यग् । यथा कस्यचिद् मृगतृष्णां
३६
For Private & Personal Use Only
www.jainelibrary.org