SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ र दृष्ट्वा जलस्य बोधो जायते किन्तु वस्तुतस्तत्र जलाभावात् तज्ज्ञानं बोधो वा मिथ्या HD भवति तथा । सत्यसत्यपि च ज्ञेये यदि ज्ञानं भवतीति मन्यते तर्हि किं सत् ? किं . 30 वाऽसत् ? इत्यस्य निश्चय एव न सम्भवेत् । अतो वस्त्ववलम्बनेन जायमानो यो K4 यथार्थबोध: स एव सम्यग्ज्ञानमिति । अथ सम्यग्दर्शनं तु तत्र-वस्तुनि रुचिः श्रद्धा वा । यस्य वस्तुनो यत्स्वरूपमस्ति तस्य तत्स्वरूपेणैव स्वीकारो नाम रुचिः श्रद्धा वा । तत्त्वार्थधिगमसूत्रे श्रीउमास्वास्तिवाचकवर्येणाऽप्युक्तम् - "तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्" - तत्त्वभूतानामर्थानां यथार्थरूपेण 7 श्रद्धानं सम्यग्दर्शनमिति । एतत्सम्यग्दर्शनं ज्ञानादन्यदेव, अर्थाद् ज्ञानं-दर्शनं चेत्युभे अपि भिन्नौ गुणौ । यतो ज्ञानं ज्ञानावरणीयकर्मणां क्षयोपशमेन प्राप्यते तथा दर्शनं तु दर्शनमोहनीयकर्मणां HO क्षयोपशमेन । अत एव च कदाचिद् ज्ञानस्य सद्भावेऽपि श्रद्धा-दर्शनं न दृश्यते । FO कदाचिच्च ज्ञानाभावेऽपि श्रद्धाऽनुभूयते । सम्यक्चारित्रं हि तत्र-वस्तुनि पदार्थे वा विधिप्रतिषेधावनुस्रियमाणं यदनुष्ठानं NCS र तत् सम्यक्चारित्रम् । अर्थादागमग्रन्थेषु यान् यान् पदार्थानाश्रित्य यत् कर्तव्यत्वेन निर्दिष्टं । 2 स्यात् तस्य करणम्, यच्च निषिध्यत्वेनोक्तं स्यात् तस्याऽकरणमिति । एतदेव च ॐ विधिप्रतिषेधानुगमागमानुसार्यनुष्ठानमस्ति । । अत्र तत्रशब्देन 'पदार्थे' इत्यर्थः प्रतीयते । सम्यक्चारित्रत्वेन निर्दिष्टं विधिS7 प्रति-षेधानुगमनुष्ठानं तु महाव्रतरूपमस्ति, विधिप्रतिषेधादिकं च बाह्यपदार्थावलम्ब्यै- र वोपदिश्यते। यथा संसारवर्तिनो जीवाजीवादिपदार्थान् विषयीकृत्य हिंसा न करणीया, न तद्विषयकं च मृषाभाषणं न कर्तव्यम्, तेषां चौर्यं परिहर्तव्यम्, तदुपरि विकृतमनोवृत्तिना न भाव्यम्, तेषां परिग्रहो न कार्यः इत्यादि । एवं च महाव्रतानां बाह्यविषयत्वमेव ) वर्तते । अतोऽत्र 'तत्र' इत्यनेन वस्तुनि-वस्तुविषयं यदनुष्ठानं तत् सच्चरणमित्युक्तमस्ति । अथ किं नाम व्यवहारतो योगः ? Jain Education International ३७ For Private Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy