SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ववहारओ उ एसो, विनेओ एयकारणाणं पि । जो संबंधो सो वि य, कारण कज्जोवयाराओ ॥४॥ व्यवहारतस्त्वेष विज्ञेय एतत्कारणानामपि । Lय: सम्बन्धः सोऽपि च, कारणे कार्योपचारात् ॥४॥ सज्ज्ञानादित्रयाणां कारणभूता वक्ष्यमाणस्वरूपा ये गुरुविनयादयस्तेषां यः सम्बन्धः सोऽपि कारणे कार्योपचारात् व्यवहारतश्च - फलं प्रति सामान्येन योग्यतामाश्रित्य च - म योगो विज्ञेयः । कारणे कार्योपचारो द्विधा भवति । तद्यथा-अनन्तरकारणे कार्योपचारः, परम्परकारणे पर हा कार्योपचारश्चेति । तत्राऽनन्तरकारणे कार्योपचारो यथा 'आयुर्घतम्' इति प्रयोगो व्यवहारे व श्रूयते । तत्र वस्तुतो घृतं नाऽऽयुः किन्तु घृतासेवनेनाऽऽयुर्बलादिकं वर्धतेऽत आयुष्कारणNG त्वाद् घृतमेवाऽऽयुरिति । परम्परकारणे कार्योपचारो यथा 'तन्दुलान् वर्षति पर्जन्यः' / इति । अत्र तन्दुलानां परम्परकारणमस्ति पर्जन्यः । यतस्तन्दुलस्याऽनन्तरकारणमस्ति वर्षा की 5 तस्याश्च कारणं पर्जन्य इति । अत्र च यो गुरुविनयादिरूपकारणे योगरूपकार्योपचारो ? निर्दिष्टः स परम्परकारणे कार्योपचाररूपोऽस्ति । यतो मोक्षस्याऽनन्तरकारणमस्ति । FC सज्ज्ञानादित्रयाणां सम्बन्धस्तत्कारणभूतोऽस्ति गुरुविनयादीनां सम्बन्ध इति । कानि पुनस्तानि गुरुविनयादीनि ? गुरुविणओ सुस्सूसाइया य, विहिणा उ धम्मसत्थेसु । तह चेवाणुट्ठाणं, विहिपडिसेहेसु जहासति ॥५॥ | गुरुविनयः शुश्रूषादयश्च विधिना तु धर्मशास्त्रेषु ।। L तथा चैवाऽनुष्ठानं विधिप्रतिषेधयोर्यथाशक्ति ॥५॥ (१) गुरुविनयः - गुरुजनादिषु बहुमानः, तेषां पादधावनादिरूपेण सेवा, No 5 आहारौषधादिदानेन परिचर्या, तेषां कार्येषु सहायः इत्यादि । अर्थात् गुरुजनानां शारीरिकं । मानसिकं वा स्वास्थ्यं यथा स्यात्तथा सदा प्रयत्नकरणं नाम गुरुविनयः । (२) धर्मशास्त्रेषु विधिना शुश्रषादयः - शुश्रषादयो नाम शुश्रूषा-श्रवण - ३८ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy