________________
विज्ञान-धारणोहापोह - तत्त्वाभिनिवेशाः इत्येतेषां धर्मशास्त्रमधिकृत्याऽऽसेवनम् । एतेषामासेवनमपि विधिना - स्थान - शरीर-मनो- वसनादीनां शुद्धिपूर्वकं करणीयम् । यतो विधिनाऽऽसेवितो योग एव योगत्वेन निर्दिश्यते, नाऽन्यथा । अविधिना सेवितस्तु कदाचित् प्रत्यवायस्य कारणमपि स्यात् । अविधिना कृतादकृतमेव वरम् । यथा कोऽपि रुग्णो व्याध्यपनयनार्थं सच्चिकित्सामेवाऽऽदरति । तदभावेऽसच्चिकित्सां नाऽङ्गीकरोत्येवेति ।
(३) विधिप्रतिषेधयोर्यथाशक्त्यनुष्ठानम् - शास्त्रेषु ये ये भावा विधेयत्वेन निर्दिष्टाः सन्ति तेषु प्रवर्तनम्, ये च निषिद्ध्यत्वेनोपदिष्टास्तेभ्यो निवर्तनम् । एतदपि यथाशक्ति - शक्तिमनतिक्रम्य, अर्थात् शक्तितोऽधिकमपि न, शक्तितश्च न्यूनमपि न - एवंरूपेण करणीयम् ।
एतानि च व्यवहारनयेन योग इत्युच्यते ।
अथैतेषां गुरुविनयादीनां योगव्यपदेशकारणभूतां निश्चययोगाङ्गतां दर्शयति
तो च्चिय कालेणं णियमा सिद्धी पगिट्ठरूवाणं । सण्णाणाईण तहा जाय अणुबंधभावेण ||६||
मग्गेणं गच्छंतो सम्मं सत्तीए इट्ठपुरपहिओ । जह तह गुरुविणयाईसु पयट्टओ एत्थ जोगि त्ति ||७||
अत एव कालेन नियमात् सिद्धिः प्रकृष्टरूपाणाम् । - सज्ज्ञानादीनां तथा जायतेऽनुबन्धभावेन ||६||
Jain Education International
मार्गेण गच्छन् सम्यक् शक्त्येष्टपुरपथिकः । यथा तथा गुरुविनयादिषु प्रवृत्तोऽत्र योगीति ॥७॥
अत एव - गुरुविनयादेरेव, अर्थाद् गुरुविनयादीनामासेवनेन कालक्रमेण निश्चययोगरूपेण निर्दिष्टानां प्रकृष्टरूपाणां कर्मणां क्षयेण प्राप्यमाणानां सम्यग्ज्ञानादीनां नियमेनाऽनुबन्धभावेन च सिद्धिर्भवति । अर्थादौचित्यपूर्वकं भगवदाज्ञामनुसृत्य चाssसेवमानो योगः सततं वृद्धिं प्राप्नोति । एतस्माच्चाऽऽज्ञाविशुद्धाद् गुरुविनयादेरनुष्ठानादुत्तरोत्तरमन्यान्यभवेषु सत्संस्काराणामनुबन्धः प्रवर्तते । ततश्च नियमेन निश्चययोगस्य प्राप्तिर्भवति ।
३९
For Private & Personal Use Only
www.jainelibrary.org