SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ यथा स्वशक्त्या सम्यक्प्रकारेण च मार्गेण गच्छन् जन इष्टपुरपथिक इत्युच्यते। त - यतस्तथा प्रवर्तमानः स निश्चयेन स्वाभिलषितं स्थलं प्राप्नोत्येव । तथा हि गुरुविनयादिरूपे का व्यवहारयोगे यथाविधि प्रवर्तमानः पुरुषोऽप्यत्र-योगप्रक्रमे योगित्वेन निर्दिश्यते । यतः अब F) सोऽपि नियमेन निश्चययोगरूपं सज्ज्ञानादिकं प्राप्स्यत्येव इति ।। किं यः कोऽप्यत्र प्रवर्तमानो योगसिद्धिं लभत उत कश्चिद् विशिष्टो जनः ? | इत्यत्राऽऽह अहिगारिणो उवाएण, होइ सिद्धी समत्थवत्थुम्मि । फलपगरिसभावाओ, विसेसओ जोगमग्गम्मि ॥८॥ [ अधिकारिण उपायेन भवति सिद्धिः समस्तवस्तुनि ।। Lफलप्रकर्षभावाद् विशेषतो योगमार्गे ॥८॥ यत्किमपि कार्यं स्यात् तत्र प्रवर्तमानो जनोऽधिकारी-योग्यः स्यादिति व्यवहारेDi ऽप्यनिवार्यमस्ति । यो योग्यो भवति स एव तत्कार्यसाधकोपायान् सम्यगभिजानाति । N यथा हि घटनिर्माणकार्ये कुम्भकार एवाऽधिकारी न तन्तुवायः, पटनिर्मितौ तु तन्तुवाय 20 एव योग्यो न तु कुम्भकारः । एवं सर्वत्राऽपि कार्यजाते प्रवर्तमानो योग्य एव सिद्धि के 7 प्राप्नोति । अत्र योगमार्गे तु, तस्य मोक्षसाधकत्वाद् विशेषेणाऽधिकारित्वमपेक्ष्यते । योग्य 1 एव जीवो योगमार्गं सम्यगवबुध्यते श्रद्धया च तत्र प्रवर्तमानः सिद्धि चाऽपि प्राप्नोति AS ॐ इति । FD अथ के ते योगमार्गस्याऽधिकारिणो जनाः ? तथा किं च तत्राऽधिकारित्वेE ऽनधिकारित्वे च कारणम् ? इत्युपदर्शयति अहिगारी पुण एत्थं विण्णेओ अपुणबन्धगाइ त्ति । तह तह णियत्तपगई अहिगारो णेगभेओ त्ति ॥९॥ अणियत्ते पुण तीए एगंतेणेव हंदि अहिगारे । तप्परतंतो भवरागओ दढं अणहिगारी त्ति ॥१०॥ अधिकारी पुनरत्र विज्ञेयोऽपुनर्बन्धकादिरिति । तथा तथा निवृत्तप्रकृतेरधिकारोऽनेकभेद इति ॥९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy