________________
अनिवृत्ते पुनस्तस्या एकान्तेनैव हन्ताऽधिकारे ।। तत्परतन्त्रो भवरागाद् दृढमनधिकारीति ॥१०॥
अत्र योगमार्गेऽधिकारिणोऽपुनर्बन्धकादयो जीवाः सन्ति । अत्र 'आदि'शब्दात् 5 Fol सम्यग्दृष्टिः, देशविरतः, सर्वविरतश्चेत्येते जीवा अप्यधिकारिणो ज्ञेयाः ।
यथा यथा प्रकृतेरधिकारो निवृत्तो भवति तथा तथा योगमार्गस्याऽधिकारित्वं । विशेषेण जीवाः प्राप्नुवन्ति । अत्र प्रकृतिशब्दात् कर्मप्रकृतिज्ञेया । यथा यथा जीवस्य FO मोह उपशान्तो भवति-क्षीणो वा भवति तथा तथा कर्मप्रकृतीनां ग्रहणस्य ताभिश्च सह द्र सम्बन्धस्य जीवगतयोग्यताऽपगच्छति । अर्थात् मोहप्राबल्यात् कर्मप्रकृतिषु विशिष्टं विचित्रं
वा फलं दातुं यत्सामर्थ्यमस्ति तन्मन्दं भवति । एतादृशश्च जीवो 'निवृत्तप्रकृत्याधिकार' M) इत्युच्यते । एते निवृत्तप्रकृत्यधिकारजीवा अनेकभेदा भवन्ति । यतः प्रकृतेरधिकारस्य सर निवृत्तिभिन्नभिन्नजीवानामपेक्षया भिन्ना भिन्ना भवति । अर्थादपुनर्बन्धकजीवेषु याऽधिकारस्य
व निवृत्तिर्वर्तते ततो विशिष्टा सम्यग्दृष्टिजीवेषु वर्तते, ततोऽपि विशिष्टा देशविरतजीवेषु म ततश्च सर्वविरतजीवेष्विति ।
यावन्नैष प्रकृतेरधिकारः सर्वथा निवृत्तो भवति तावज्जीवोऽत्र योगमार्गेऽनधिकार्येव C भवति । कर्मप्रकृतेः पारतन्त्र्याज्जीवेषु संसारं प्रति दृढोऽनुरागः प्रवर्तते । अतश्च स o सर्वथा योगमार्गस्याऽनधिकार्येवेति ।
निवृत्तप्रकृत्यधिकारित्वं विशदयतितप्पोग्गला तग्गहणसहावावगमओ य एयं ति । इय दट्ठव्वं इहरा तह बंधाई न जुज्जंति ॥११॥ तित्पुद्गलानां तद्ग्रहणस्वभावापगमतश्चैतदिति । 7 Lएवं द्रष्टव्यमितरथा तथा बन्धादये न युज्यन्ते ॥११॥
जगदवस्थितानां पदार्थानां भिन्नभिन्नः स्वकीयः कश्चित् स्वभावविशेषो भवति । स्वभावानुगुणमेव च कार्यमपि भवत्येव । अत्र यथा जीवस्य कश्चित् स्वभावोऽस्ति तथा
पुद्गलपरमाणूनामपि स्वभावोऽस्त्येव । कर्माऽपि च परमाणुरूपमेव विद्यते । तत्र तेषु | a परमाणुषु जीवग्रहणस्वभावो वर्तते तथा जीवे तु तद्ग्राहकस्वभावोऽस्ति । अथ यदा येन के
Jain Education International
४१ For Private Personal Use Only
www.jainelibrary.org