________________
A येन स्वरूपेण यावान् यावांश्च कर्मप्रकृतेः परमाणूनां तद्ग्रहणस्वभावोऽपगच्छति तथा च ।
जीवस्य तद्ग्राहकस्वभावोऽपगच्छति तदा तथास्वरूपेण तावच्च निवृत्तप्रकृत्यधिकारित्वं . 3 भवति ।
अथ यदि कर्म-जीवादिपदार्थानां ग्राह्यग्राहकभावादिस्वभावो नाऽभ्युपगम्यते । तदाऽऽत्मना सह कर्मादीनां बन्धादिकं न युज्यते । बन्धादीनामभावे च मोक्षोऽपि सुतरां
न युज्येतैव । अतो यथा मृत्-तन्त्वादीनां घट-पटादिपरिणामस्वभावत्वाद् मृदो घटस्तन्तुभ्यश्च KO पट उत्पद्यते तथा कर्मपरमाणूनां ग्राह्यस्वभावत्वाद् जीवस्य च ग्राहकस्वभावत्वाद् बन्धादिकं
जायते । कर्मपरमाणूनां तथास्वभावभेदेनैव ज्ञानावरण-दर्शनावरणादिभिन्न-भिन्नस्वरूपेण
परिणमनमपि भवति । एतदेव च प्रकृतेरधिकारित्वमुच्यते । एतत्स्वभावापगमत एव च G) निवृत्तप्रकृत्यधिकारित्वं जायते इति ।
किञ्चएयं पुण निच्छयओ अइसयणाणी वियाणए णवरं । इयरो वि य लिंगेहिं उवउत्तो तेण भणिएहि ॥१२॥ [एतत्पुनर्निश्चयतोऽतिशयज्ञानी विजानाति नवरम् ।। L इतरोऽपि च लिङ्गैरुपयुक्तस्तेन भणितैः ॥१२॥ । निश्चयत एतदधिकारित्वं त्वतिशयज्ञानिभिः-केवलज्ञानिभिरेव ज्ञातुं शक्यम् ।
यद्येवं तर्हि सामान्यज्ञानवतां जनानां कृते तदभिज्ञानं कथं शक्यम् ? अत्रोच्यते( अतिशयज्ञानिभिस्तादृशानामपुनर्बन्धकादीनामुपलक्षणार्थं कानिचन लिङ्गानि निर्दिष्टानि सन्ति । ) 7 तत्र लिङ्गेषूपयुक्तः सन् सामान्यज्ञानवानपि जनः परस्मिन्नेतदधिकारित्वमस्ति नवेति ज्ञातुं पर शक्नोति ।
तत्र प्रथमं तावदपुनर्बन्धकजीवानां लिङ्गानि दर्शयतिपावं न तिव्वभावा कुणइ ण बहुमण्णई भवं घोरं । उचियट्ठिइं च सेवइ सव्वत्थ वि अपुणबंधो त्ति ॥१३॥ | पापं न तीव्रभावात् करोति न बहुमन्यते भवं घोरम् । 7 L उचितस्थितिं च सेवते सर्वत्राऽप्यपुनर्बन्धक इति ॥१३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org