SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ - - - अपुनर्बन्धकजीवानामभिज्ञाने त्रीणि लिङ्गानि सन्ति । तत्र (१) तीव्रभावेन पापाकरणम् - प्रायः संसारवर्तिनो जीवा: सावद्यारम्भप्रवृत्ता - एव भवन्ति । तत्राऽसदनुष्ठानान्यपि कदाचित् कर्तव्यानि भवन्ति-कदाचिदिच्छया - १५) कदाचिच्चाऽनिच्छया । प्रायशो जनाः स्वाभिलषितं साधयितुमनुष्ठानेषु प्रवर्तने सदसद्विचारणं 51 न कुर्वन्ति । किन्तु कतिचिदात्मानः स्वभावत एव निर्मला भवन्ति । ते च सतत- G मसदनुष्ठानेभ्यः स्वं रक्षितुं प्रयत्नरता भवन्ति । यदा कदाचिच्च तत्र प्रवर्तनीयं स्यात् र FA तथाऽपि न ते तीव्रभावेन प्रवर्तन्ते किन्तु खेदमेव तत्राऽनुभवन्ति यथा - 'मम कर्मणां ) दोषेणैव मयाऽत्र प्रवर्तनीयं भवत्यद्य' इति ।। (२) संसारं न बहमन्यते - संसारं प्रति हृदये प्रीतिं स नाऽऽवहति । समग्राऽपि संसारस्थितिः कर्मपरिणामवशवर्तिन्यस्ति, अतो न कुत्राऽपि स रागेण वा C द्वेषेण वा वर्तते । संसारबहुमानकारणान्येवैते रागद्वेषादयः परिणामाः । आत्महानिकरमेतद) र रागद्वेषादिकं ज्ञात्वा संसारं प्रत्यौदासीन्येनैव स वर्तेत न बहुमानेनेति । (३) उचितस्थितिसेवनम् - उचिते एव सर्वत्र प्रवर्तेत, नाऽनुचिते । स्वकुलस्य, स्वमातापित्रोः, स्वधर्मस्य, स्वगुरुजनानां वा कुत्राऽपि निन्दनं न स्यात् तथैव सर्वत्र - व्यवहरेत् । लोकविरुद्धं धर्मविरुद्धं चाऽपि स त्यजेत् । इत्येतैर्लक्षणैर्युक्तो यो भवति सोऽपुनर्बन्धक इत्युच्यते । अथ सम्यग्दृष्टीनां लिङ्गानि निदर्शयतिसुस्सूस धम्मराओ गुरुदेवाणं जहासमाहीए । वेयावच्चे णियमो सम्मद्दिट्ठिस्स लिंगाइं ॥१४॥ - शुश्रूषा धर्मरागो गुरुदेवानां यथासमाधिना । 1 L वैयावृत्ये नियमः सम्यग्दृष्टेलिङ्गानि ॥१४॥ । (१) शुश्रूषा-श्रोतुमिच्छा शुश्रूषा । धर्मशास्त्राणां श्रवणमत्राऽभिप्रेतमस्ति । म 5 शास्त्रश्रवणेनैव सदसद्विवेको जागर्ति । स एव च सम्यग्दर्शनं खलु ! शास्त्रश्रवणे तस्य 57 शुश्रूषा कीदृशी प्रबला भवति तदर्थं ग्रन्थेषुक्तिरस्ति यत् ४३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy