________________
मूढः, सिद्धान्तमनुसरन् जनो जडः परम्परावादी वा, मर्यादास्थितो मूर्खः, सरलश्च धृष्टः कथ्यते ।
साम्प्रतं समाजे प्रामाणिकता सत्यनिष्ठा चाऽस्तङ्गतेत्याभाति । अधुना तु दम्भासत्यप्रपञ्च-क्लेश-राग-द्वेषाहङ्कारादिदुर्गुणानां तथा तेषां पोषकस्यैव समाजे स्थानं दृश्यते । अद्य जनैः स्वयोग्यतानुरूपं प्रतिष्ठितं पदं न लभ्यते किन्तु दुष्टकार्यकरणे निपुणः, दम्भप्रपञ्चद्वारेण स्वरचितमायाजालेऽन्येषां पातने कुशलः, पदे पदे रक्तनेत्रश्च तत्पदस्य योग्याधिकारी मन्यते । अर्थाद् यावद्येषु दुर्गुणानां प्रमाणमधिकं तावती समाजे प्रतिष्ठितपदस्य कृते तेषां योग्यताऽधिकेत्यनुभूयते । अस्माकं दुर्भाग्यं यत्, प्रामाणिकता सात्त्विकता सारल्यमौदार्यं चेति शब्दा एव यैर्न श्रूयन्ते ते एव देशे समाजे च श्रेष्ठस्थानेषु विराजमाना दृश्यन्ते । ते प्रतिष्ठितपदाधिकारिणो न समाजोत्कर्षकराणि कार्याणि कुर्वन्ति, कुर्वतां च परेषां विघ्न एवोत्पादयन्ति । तैरेकमेव सूत्रं रचितं "दुष्टं कार्यं कुर्वन्तु उत दुष्टकार्याणि कुर्वतोऽस्मान् साहाय्यं च कुर्वन्तु" इति । आश्चर्यं त्वेतद् यदेतेऽधिकारिणः सामान्यजनेभ्यः सकाशादस्य सूत्रस्याऽवश्यंतया पालनं कारयन्ति । यदि नाम ये केऽपि तस्य विरोधं कुर्युस्तहि ते तान् पीडयन्ति, कदाचित्तु मारयन्ति चाऽपि ।
अत्र वस्तुतः सामान्यजना न धृष्टा दुष्टाश्च सन्ति । किन्त्वस्माकं सामाजिक स्थितिरेतादृग्जनानां च मलिनं वर्तनमेव जनान् धृष्टान् करोति । यदैते प्रतिष्ठितपदाधिकारिणः स्वदृष्टिबिन्दुनैवाऽन्यान् पश्यन्ति, तथाऽवश्यंतया तदनुरूपमेव वर्तनं कारयन्ति तदैते सामान्यजना अनन्यगतिकतया परम्परया च धृष्टतामाचरन्ति । एवमेतन्नीतेशाद् विद्वांसः सज्जनाश्च निरन्तरं पीड्यन्ते तथैते निरक्षरा दुष्टाश्च प्रमोदन्ते। नैतत् काल्पनिकं किन्तु वास्तवं नग्नसत्यं चाऽस्ति । वयं सर्वे एतां स्थिति प्रतिदिनमनुभवाम एव ।।
पश्यतु, राजकीयक्षेत्रे किं प्रवर्तते ? येऽधिकारवशात् सामान्यजनान् पीडयन्ति, लुण्टन्ति, व्यभिचारं कुर्वन्ति तथा लोकहितस्य व्याजेन कोटिशो रूप्यकाणि स्वोदरे बिभ्रति ते एवाऽस्माननुशासति खलु । एषैव स्थितिर्विविधासु संस्थास्वप्यनुभूयते । यथा कार्यस्याऽकरणं, संचालनेऽराजकता, धनस्य चौर्यम्, पदस्य कृते पदाकर्षणम्, परस्परं
-
८७. For Private & Personal Use Only
Jain Education International
www.jainelibrary.org