SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ किं त्वया पङ्कस्थितं पङ्कजं दृष्टं खलु ? पङ्काज्जायते इति पङ्कजमिति तस्य शब्दस्य व्युत्पत्तिरस्ति । तस्मिन् पङ्कजविषये परामर्शे कृते सति सकौतुकमाश्चर्यं भवति यत्, पङ्के जन्म, तत्रैव स्थानम्, निरन्तरं दुर्गन्धिजल- कर्दम- क्षुद्रजन्तुभिस्सहैव सङ्गतिश्च । एवं सत्यपि तत् पङ्कजं जनेषूत्तमसुरभि प्रसारयति, जनानां चित्तं प्रसादयति, तथा सर्वपुष्पजातिषु सर्वोपरितया प्रवर्तते । आ निर्धनेभ्यः चक्रवर्तिपर्यन्तं सर्वैरप्युपासमानाया लक्ष्मीदेव्यास्तदासनतया राजते । अहो ! पङ्के जनित्वाऽपि तेन पङ्कजेन कीदृशं माहात्म्यं प्राप्तम् ! यदि पङ्कजमेवं चिन्तयेद् यत्, "पङ्के मम जन्म, तत्रैव वासः, तथा कर्दमक्षुद्रजन्त्वादिभिः सहवर्त्तिभिर्यत् क्रियते आचर्यते च तदेव मयाऽपि करणीयमाचरणीयं च, यद्यहं तन्न कुर्यां तर्हि ते सहवर्त्तिनो मां निन्देयुरिति । तर्हि किं तत्पङ्कजमेतादृशीं महत्तामेतावच्च सन्मानं प्राप्तुं शक्नुयात् खलु ? अशक्यम् । किमप्येतादृशमचिन्तयित्वा तेन पङ्कजेन केवलमूर्ध्वं गन्तुमेव विशेषः प्रयत्नः कृतः । स्वकीयेन पुरुषार्थेन समीप स्थितं मलिनं वातावरणमावरणं बन्धनं दुष्टजन्तूनां संगतिं च विच्छिद्य जीवने नावीन्यं प्रकटीकृतं तेन । तथा जीवनेऽन्धकारमपास्य प्रदीप्तप्रकाशस्य प्रादुर्भावः कृतः । एवं च वातावरणे एतादृशः सुगन्धः प्रसारितो यतो दूरं वसन्तो भ्रमरा अपि तद्गन्धादाकृष्टाः पङ्कजस्य सामीप्येऽटाट्यन्ते । पङ्के स्थितौ सत्यामपि निर्लेपतया यद्वसनं तत्त्वाश्चर्यमेवास्ति । एव शास्त्रेषु महामुनेरुपमानरूपेण तस्यैव निर्लेपता वर्ण्यते । वाचकः पूज्यश्रीउमास्वातिमहाराज आह- "यद्वत् पङ्काधारमपि पङ्कजं नोपलिप्यते तेन" । (प्रशमरतिप्रकरणम् - १४०) बन्धो ! अस्मान् परितो वर्तमाना स्थितिरपि पङ्कजजन्मस्थलसदृश्येवाऽस्ति । इदानीं वयमपि दुष्टवातावरणे एव वसामः । वर्तमानं सामाजिकं वातावरणं नितरां प्रदूषितं क्लेशमयं सङ्घर्षमयं चाऽस्ति । वातावरणेऽस्मिन् धर्मश्रद्धायाः सद्गुणानां च रक्षणं दुःशकमस्ति । प्रमाणिकता - सत्यनिष्ठा - सारल्यौदार्यपूर्वकं जीवने सन्मार्गे गमनं लोहचणकचर्वणवदतीव कठिनमस्ति । पूर्वं समाजे धर्मनिष्ठस्य मर्यादास्थितस्य च माहात्म्यं वर्तते स्म । तेषां वचनमादेशरूपमिव भाव्यते स्म । अद्य स्थितिर्विपरीता विद्यते, अतो धर्मनिष्ठावान् Jain Education International ८६ For Private & Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy