SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ पत्रम् नमो नमः श्रीगुरुनेमिसूरये ॥ आत्मीयबन्धो ! चेतन ! धर्मलाभोऽस्तु । तव कुशलं कामये । दक्षिणप्रदेशस्य विविधानुभवान्वितां दीर्घं विहारयात्रां समाप्य गूर्जरदेशे आगतवन्तो वयं सर्वेऽपि । तस्यां विहारयात्रायां मयैकदा लघुः कासारो दृष्टः । तत्र पङ्कस्थितमपि स्फटिकवदुज्ज्वलं रमणीयं च पङ्कजं मयाऽदर्शि । तस्य सौन्दर्यं निरीक्ष्य चित्ते प्रसत्तिः सञ्जाता । दशक्षणान् तत्रैव स्थितवानहम् । पङ्कजस्य वैचित्र्यं वीक्ष्योत्पत्तिः कुतः ! स्थानं कुत्र ! एवं सत्यपि तस्य स्वरूपं जीवनं च कीदृशं सुन्दरं खलु ? इति मनस्यूहापोहो जातः । Jain Education International मुनिधर्मकीर्तिविजयः बन्ध ! अस्माकं जीवने प्रकृतिर्न केवलं सहयोगिनी, अपि तु सा बोधदायिनी चित्ताह्लादकारिणी चाऽप्यस्ति । चन्द्रस्तारकं वृक्षो मेघः पुष्पं फलं विद्युच्चेत्यादीनि सर्वाण्यपि प्रकृतेरङ्गानि सन्ति । अस्माकं परमसौभाग्यं यद्, जगति सर्वतस्तान्यङ्गानि विराजन्ते । प्रतिक्षणं तान्यस्मभ्यमानन्दं बोधं च ददन्ति, यदि विकसिता गुणग्राहिणी च दृष्टिः स्यात् । नगरवासिनां त्वादृशानां जनानां कृते कदाचित् कारुण्यमुत्पद्यते यतो भवन्तो धनैकलक्ष्याः सुखप्राप्तिमात्रप्रयत्नाश्च प्रकृतेः सौन्दर्याद् विमुखीभवन्ति । प्रकृतेदर्शनमपि केभ्यश्चिदेव रोचते तथा येभ्यो रोचते, तेषां जीवनमपि प्रकृतेः सौन्दर्यवद् विविधरङ्गयुतं रमणीयं दर्शनीयं शान्तियुतं च भवति । अहमपि तत् पङ्कजं दृष्ट्वा शान्तिमानन्दं चाऽनुभवन् स्वस्थानं गतवान् । तदा मार्गे येऽनेके विकल्पाः सञ्जाताः, तान् वर्णयामि । ८५ For Private & Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy