________________
संघर्षश्च, तत्राऽन्यत् किं प्रवर्तते ? हन्त ! अस्मिन् क्लेशमये सामाजिके वातावरणे सत्यपि पापभीरूणां श्रद्धालूनां जीवानां कृते धर्मस्थानमेकमेवोत्तमालम्बनमासीत् । किन्तु कियत्कालादेतेषु निर्मलेषु धर्मस्थानकेष्वपि वातावरणस्याऽस्य प्रभावो विशेषतोऽनुभूयते । अद्यैतेषु स्थानेष्वपि कियन्तः सज्जनवेशधारिणो दुष्टजनाः प्रविष्टाः सन्ति । ते निरन्तरं मिथ्याभिमानाहङ्कारेामहत्त्वाकाङ्क्षादिभिः पीडिताः सन्ति । ते मायाविनः स्वमहेच्छापूर्त्यर्थं धर्मस्य व्याजेन समाजे क्लेशं संघर्षं चोत्पाद्य जनानज्ञानरूपान्धकारे एव रमयन्ति । यतस्ते जानन्ति. यत्, यावज्जना अज्ञानिनः स्युस्तावन्निराबाधं वयं यां कामपि पापलीलां कर्तुं समर्थाः । सज्जनवेशधारिण एते दम्भिनो मायाप्रपञ्चद्वारेण मुग्धजनान् वञ्चयित्वा समाजे स्वमहत्तां स्थापयितुं निरन्तरं प्रयतमानाः सन्ति । अद्याऽत्राऽपि ये दम्भादिकमाधिक्येन विरचयितुं शक्ताः, तेषां समाजे विशेषतो माहात्म्यमनुभूयते ।
किञ्च- सङ्कचितबुद्धीनामस्माकं मानसं विचित्रमस्ति । अद्य यदि कश्चित् सामाजिकी विचित्रां नीति, स्वविकासे विघ्नरूपं बन्धनं, दुष्टरूढिं मान्यतां चाऽपाकृत्याऽऽत्मिक विकासस्य कृते शुद्धमार्गमनुसरेत्, वैशिष्ट्यं धारयेच्च तर्हि कैश्चिद् दुर्विदग्धजनैमूखैश्च "एष समाजद्रोही पलायनवादी चेति कथ्यते, किन्तु तन्नोचितम् । समाजे प्रवर्तमानां दुष्टप्रणालिकामपास्य सत्यस्य मार्गे यद् गमनं तन्न द्रोहो न च पलायनवादः । वस्तुतः स्वेच्छापूर्त्यर्थमशुभप्रणालिकायाः स्थापनम्, असत्यस्य मार्गस्याऽनुसरणं, सामान्यजनानामुन्मार्गे नयनमेव समाजद्रोहोऽस्ति । आश्चर्यं त्वेतदस्ति यत्, ह्यो यः समाजप्रेमी प्रामाणिकश्च कथ्यते स्म स क्षणमात्रेणैव समाजद्रोही दुष्टश्च भवति । यत एतेन स्वजीवने एकान्ते कृतानि नैकानि पापानि दुष्टाचरणानि च ज्ञातानि । ततः कदाचित् स तानि पापानि प्रकटिष्यन्तीति भीत्यैव सामान्यजनान् तिरस्कुर्वन्त्येते जनाः, तथा "द्रोही दुष्टः" इत्युक्त्वा समाजे तेषामवमाननं विधाय स्वकीयां पापलीलामाच्छादयितुं प्रयतन्ते । अत्र न सत्यस्याऽसत्यस्य वा प्रश्नोऽपि तु स्वप्रतिष्ठायाः प्रश्नोऽस्ति । अत एवैते दुष्टा एवं विपरीतं वर्तन्ते ।
एषा दुर्दशाऽस्माकं समाजस्याऽस्ति । एतादृश्यां स्थितौ सद्भावनाया रक्षणं
८८ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org