________________
नितरां कठिनमस्ति । तथापि पङ्कजवदस्मिन् मलिने वातावरणे दुष्टालम्बनमध्ये च स्थित्वैवाऽस्माभिः सन्मार्गे गन्तव्यं, लक्ष्यं प्रापणीयं च, तथा सद्गुणरूपसुगन्धमयं जीवनं करणीयमस्ति ।
अस्मिन् वातावरणे स्वचिन्तनमात्मकल्याणचिन्तनं चैव श्रेयस्करमस्ति, तदर्थमुचितविवेक आवश्यकः । विवेकमग्रे कृत्वैव सर्वमपि कार्यं करणीयम् । कस्मिन्नपि कार्यकरणे एतन्मे हितकरमुचितं चाऽस्ति न वेति विचिन्त्य सविवेकं व्यवहरणीयम् । प्रतिक्षणं जागृतेन भवितव्यम् । एवं त्वं निरीक्षणशक्तिं विचारधारां च दृढय । यदि, स्वजना मित्राणि च स्वार्थतया दुष्टाचरणं कुर्युः ततो मयाऽपि तदेव करणीयमिति नाऽवश्यकम् । किन्तु यत्र कुत्रचिदपि शुभकथनं सगुणांश्च पश्ये: तहि ते ग्रहणीयाः । तथा दृष्टिपथमायान्तो दुर्गुणा उपेक्षणीयाः । न कदाचिदपि केभ्यश्चिदपि तेषां तदुर्गुणाः कथनीयाः, तथा तान् जनान् प्रति नाऽरुचिट्टेषश्च करणीयः, किन्तु "कर्मणो गहना गतिरि"ति विचिन्त्यम् । अन्यथा परदोषदर्शनेन तेषां यत्किमपि स्यात्, किन्त्वस्माकं त्वात्मिकदृष्ट्या हानिर्भवत्येव । कर्मराजस्य सत्तायां हस्तक्षेपमकृत्वा केवलं साक्षिभावेनैव सर्वं दर्शनीयम् । अन्येषां दुर्गुणाः स्वचित्ते यदि चिन्त्यन्ते तर्हि मनसि कालुष्यमुद्भवति, किन्तु यदि नाम ते दुर्गुणा उपेक्ष्यन्ते तर्हि का चिन्ता ? कथं मनो मलिनं स्यात् ? अतो दुर्गुणेभ्यो दुर्गुणिजनेभ्यो दूरत एवाऽञ्जलिर्देया ।
किञ्च-अस्मिन् वातावरणे सज्जनानां संयोगो दुःशकोऽस्ति । ततस्त्वयैवैतादृशं वातावरणं विरचनीयं यद्, एतस्य मलिनवातावरणस्य दुष्टजनानां च प्रतिच्छायैव चित्तवृत्तौ न पतेत् । ततो नाऽऽवश्यकं न शक्यं च वातावरणस्यैतेषां दुष्टजनानां च परिवर्तनं किन्त्वावश्यकं शक्यं चैतदेव यत् - "स्वदृष्टेः परावर्तनम्" । अस्माकं मान्यताकदाग्रह-चातुर्यभान-कलाभिमानेत्यादिकमेव वस्तुतोऽस्माकं विकासे बन्धनरूपमस्ति । अतस्तत्सर्वं बन्धनं विच्छिद्योर्ध्वं गन्तुमेव प्रयतितव्यम् ।
पश्य, निरभ्रं गगनम् । तस्य न किमपि बन्धनमावरणं चाऽस्ति । तथैव त्वमपि बन्धनादिकं विहायाऽन्यानदृष्ट्वैव सात्त्विकतया प्रामाणिकतया च सत्यमार्गेण गच्छ । त्वं तव जीवनस्य स्वाम्यसि । अतो निष्ठया त्वं सत्यस्य मार्गे प्रयातुं स्वतन्त्रोऽसि ।
Jain Education International
८९ For Private Personal Use Only
www.jainelibrary.org