SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ 'स्वच्छन्दता' इति न स्वतन्त्रस्याऽर्थः करणीयः । यतोऽद्य स्वतन्त्रस्य व्याजेन केचिज्जनाः स्वच्छन्दतया कुलीनतां पदोचितमर्यादां चोल्लङ्घ्य निन्दनीयमशोभनीयं वा सर्वमपि कुर्वन्ति । अद्य समाजे दुराचारस्य मलिनतायाश्च यत् ताण्डवं प्रवर्तते तत् स्वच्छन्दिनामेतादृशानां जनानां पापमस्ति, इत्यपि चिन्तनीयम् । अतः स्वच्छन्दतामपाकृत्याऽस्माकं स्वभावः सरल उदारश्च करणीयः, सर्वैः सह मैत्रीपूर्णतया व्यवहरणीयम् । तव स्वभावो व्यवहारश्चैवैतादृशः स्याद् येन यथा पङ्कजं प्रति भ्रमरास्तथैव जनास्त्वां प्रत्याकर्षणमनुभवेयुः। तथा तव सांनिध्यमवाप्य ते जनाः स्वजीवने शान्ति समाधि च प्राप्नुयुः, एतदेव जीवनस्य सार्थक्यमस्ति । अन्ते, त्वमपि पङ्कजवज्जगति सद्गुणानां सुगन्धं प्रसार्य निर्मलो भवेत्याशा । लेखकेषु निवेदनम् १. सर्वेऽपि लेखका: संस्कृत-प्राकृतमयं सर्वविधं गद्यं पद्यं वा साहित्यं प्रेषयितुमर्हन्ति । २. अङ्गीकृतं साहित्यं यथावसरं प्रकाशयिष्यते । ३. साहित्यं पृष्ठस्यैकस्मिन्नेव पार्श्वे सुवाच्यैरक्षरैलिखितं स्यात् । Computer prints अपि स्वीक्रियन्ते । ४. कृपया Xerox प्रतिर्न प्रेषणीया । ४२ ( NWAR EIN २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy