________________
था
॥ सन्तोषान्न परं सौख्यम् ॥
मुनिरत्नकीर्तिविजयः
'हेन्रीफोई' इत्येष ख्यातः कारयानोद्योगस्य स्थापक आसीत् । प्रत्येकं शुक्रवासरे सन्ध्यासमये स्वकार्यालयात् प्रत्यागच्छन् स एकस्य पुष्पविक्रेतुरापणात् पत्न्यै उपायनीकर्तुं मनोहरं शोभनं पुष्पगुच्छं क्रीणाति स्म । एष तस्य क्रम आसीत् ।
सततं सर्वत्र च विकासमेव लक्ष्यीकृत्य विचारयन् हेन्रीफोमहाशय एकदा तदापणस्य वृद्धं स्वामिनं स्वविचारमुक्तवान् यत्- "आ बहोः कालादहं भवत आपणात् क्रममनुल्लध्य प्रत्येकं शुक्रवासरे सन्ध्यासमये पुष्पगुच्छं क्रीणामि । भवतः पुष्पाणि प्रत्यग्राणि सुवासितानि च भवन्ति । तथा भवनिर्मितः पुष्पगुच्छोऽप्याकर्षको मनआह्लादकश्च भवति । अतोऽहं विचारयामि यद् भवतोऽस्याऽऽपणस्य काचिदन्याऽपि शाखा स्याद् येनाऽधिको धनलाभः स्याद्" इति ।
एतच्छ्रुत्वाऽऽपणस्य स्वाम्यवदत् - 'सत्यमुक्तं भवता, किन्तु ततः परं किम् ?'
'अहो ! तदनु डेट्रोइट्राज्येऽपि प्रतिस्थानं भवता शाखाः स्थापनीयाः । तेन तु धनस्याऽऽयस्ततोऽपि वृद्धिं गमिष्यति' - स उवाच ।
'पश्चात् ?' - वृद्धोऽप्रश्नयत् ।।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org