SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 'पश्चादन्येष्वपि राज्येषु शाखाप्रतिशाखानां स्थापनां कृत्वा पुष्पविक्रयणोद्योगं वर्धापयतु नाम । सम्पूर्णेऽप्यमेरिकादेशे उद्योगान् स्थापयतु । तेन च भवतो धनराशिरपि पर्वतोपमाना भविष्यति' - इति सोऽवक् । पुनरपि वृद्धस्तमेव प्रश्नमुपास्थापयत् - 'क्षाम्यन्तु महाभागाः ! किन्तु तदनु किम्?' हेन्रीफोर्ड्स उवाच - न किञ्चित् ! तावदेव । एवं कृत्वा पश्चात् भवान् विश्रान्तिसुखमनुभविष्यति । सत्यं खलु ? ।'. __एतदाकर्ण्य स वृद्धः प्रत्युदतरत् - 'महोदय ! तत्त्वहमधुनाऽप्यनुभवाम्येव । तदर्थं चेयत्करणीयस्याऽऽवश्यकतामेव न पश्यामि । यदप्यस्ति तत्तु पर्याप्तमेव, तेन च सुख्येवाऽहम्'। एतेन च प्रत्युत्तरेण हेन्रीफोमहोदयो लज्जामनुभूतवान् । ये विजितात्मनो नयनिष्ठाः जाग्रति लोकं रक्षितुकामाः । स्याग्लियतं तेषां वसुधेयं रुक्मवती मृन्मय्यपरेषाम् ॥ (छन्दोनुशासने श्रीहेमचन्द्राचार्यः) >>>>MIL ९२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy