________________
कथा
(दृष्टिदोषः)
मुनिधर्मकीर्तिविजयः
"वातायनस्य काचं स्वच्छं करोतु" इति स्वामिनाऽऽदिष्टः किङ्करः । किङ्करेणाऽपि तथैवं कृतम् ।
स्वामी प्राऽऽह- रे ! मालिन्यं तु पूर्ववदेवाऽस्ति । किमेतादृशः काचोऽपि निर्मलः कथ्यते ? गच्छतु, अधुनैव पुनर्जलार्द्रितवस्त्रेण मालिन्यं दूरं करोतु ।।
सेवकेन पुनर्जलातिवस्त्रेण काचः प्रोञ्छितः । तथाऽपि स्वामिना पूर्ववदाक्षिप्तः ।
किङ्करेण स्वसर्वशक्त्या पुनर्मालिन्यमपाकर्तुं प्रयत्नः कृतः । तदैव सः काचो । भग्नः ।
तन्निरीक्ष्य कोपाविष्टेन तेन स्वामिना सः किङ्करस्ताडितः । सेवकस्तु हसति । साश्चर्यं स्वामिना पृष्टम् - रे ! क्षतिं कृत्वाऽपि त्वं हससि ?
सेवक उवाच- "प्रभो ! अन्यत् किं कुर्याम् ? हास्यास्पद एवाऽयं वृत्तान्तः। ) वातायनस्य काचे न मालिन्यं, किन्तु भवत उपनेत्रस्योपरि मालिन्यमस्ति । अतो भवान् प्रथमं भवत उपनेत्रं स्वच्छं करोतु, काचस्तु स्वयमेव स्वच्छो भविष्यति" ।
तच्छ्रुत्वैव..... यद्यन्येषु दुर्गुणा दृश्येयु तात्मन्येव दुर्गुणाः स्युरिति ज्ञेयम् ।
९३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org