________________
कथा
कार्पण्यम्
मुनिधर्मकीर्तिविजयः
SSSSS
कस्मिंश्चिद् ग्रामे एकः श्रेष्ठी वसति स्म । सोऽतीव कृपण आसीत् । तस्य देहस्य प्रत्यङ्ग कृपणत्वं प्रसृतमासीत् ।
एकदा ललाटे हस्तं संस्थाप्य स उदासतयोपविष्ट आसीत् ।।
पत्नी सहजतयाऽपृच्छत् - कथं भवानुदासो दृश्यते ? किं मार्गे . किमपि विस्मृतमुत किं कस्मैचिदजानता दत्तं भवता ?
कृपणो जगाद - नहि, नहि । नाऽहं कदाऽप्येतादृशमपराधं करोमि । किन्तु यदाऽहं मार्गे गच्छन्नासं तदा मया दानं ददन्नेकः श्रेष्ठी दृष्टः । ततस्तस्य धनस्य निरर्थकं व्ययं वीक्ष्य मे मनः खिन्नमभूत् ।
दैवखातं च वदनमात्मायत्तं च वाड्मयम् । > श्रोतारः सन्ति चोक्तस्य निर्लज्जः को न पण्डितः ? |
(श्रीसिद्धसेनदिवाकरसूरिः)
.
.
९४ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org