SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ क्षमानम्रत्वहेतुभ्यां द्वेषनाशो भवेद् ध्रुवम् । रागद्वेषविहीनात्मा नमस्याह: फलप्रदः ज्ञानदर्शनचारित्रैर्युतोऽहं शाश्वतः सदा । द्रव्यार्थिकेन चाऽनित्यः पर्यायस्थितिभावतः ઉશ देहे वर्णादयो धर्मा नैते वर्तन्त आत्मनि । तस्मान्नैक्यं द्वयोरेवमुच्चरन्ति मनीषिणः કરો मया संयोगजन्याऽऽप्ता दुःखश्रेणिर्भवे भवे । तेन संयोगसंसर्ग व्युत्सृजामि त्रिधा मुदा संसारे ममताहेतुः संयोगः, परिहारतः । तस्य सौख्यं भवेत्सत्यं प्रशमादिसमन्वितम् ૧૪ कदाऽहं समतालीन: सर्वोपाधिविवर्जितः । तीर्थकृद्ध्यानसंपन्नो भविष्यामि प्रमोदभाक् ॥१५॥ कोऽहं किं मे कथं वर्तेऽधुना मे कीदृशी स्थितिः । कः कालः कीदृशं क्षेत्रमित्यालोचयति प्रधीः ॥१६॥ मानसे मेऽधुना कीदृग् भाव आत्महितं कियत् । कृतं मयाऽवशिष्टं च किमेतदवधारयेत् ॥१७॥ अनन्तशक्ति संपन्नोऽप्ययमात्मा विमोहतः । भजते विविधं भावं संसाराखेटके निशम् ૩૮ जीव ! जानीहि स्वल्पस्मादधमान्मोहपाशतः । नैकाङ्गिनो नारकत्वं प्राप्तास्तत्त्यागतः सुखम् महापुण्योदयेनाऽऽप्तो नृभवो देवदुर्लभः । गतक्षणार्पणे नैव कोऽपि शक्तो धरैपि आसन्नसिद्धिकास्तत्र लभन्ते धर्ममार्हतम् । यत्प्रभावेण सिद्ध्यन्ति सिद्धाः सेत्स्यन्ति भाविनः ॥२१॥ ॥२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy