________________
नेहे विधर्मसाम्राज्यं रत्वं धर्मसंयुतम् ।। वरं मन्ये यतो नाशस्तस्य स्याद्धर्मसाधनात् ॥२२॥ जीव ! केशाः सिता जाता न जाता मतिशुक्लता । विषयेषु षायेष्वासक्तिस्तन्मोहजृम्भितम्
રણો त्यक्त्वा तान्विषयादीन्ये सिंहशूराः समाश्रिताः । सत्संयम बाल्यकाले वन्दे तत्पादपङ्कजम्
૨૪ संजातस्य ध्रुवं मृत्युः चारित्रोत्कर्षशालिनाम् । प्रशस्यं मरणं प्रोक्तं सर्वगोत्कर्षभूषितम् । વીરો पावनं शासनं जैनं पावनाशयशालिनः । समाराध्य समीहन्ते भावतस्तद्भवे भवे . રદ્દો आराधिता जिना देवा भावतो गुरवोऽपि यैः ।। साधितो जैनधर्मश्च तेषां मृत्योर्भयं कथम् ? ॥२७॥ पञ्चाऽपि विषयास्त्यक्ताः कषाया यैर्विरागिभिः । क्षामिताः सकला जीवा भाविता भावनाः शुभाः ॥२८॥ जिनागमाः समभ्यस्ता विधिना गुरुसंनिधौ । तत्प्रधानप्रयोगा ये तेषां मृत्योर्भयं कथम् ? રો सत्पात्रेभ्यो ददानानां दानं सद्ब्रह्मचारिणाम् । तपस्यासाम्ययोगानां तेषां मृत्योर्भयं कथम् ? રૂમો उद्दिश्याऽऽत्मानमाचारसाधनाऽध्यात्ममीरितम् ।। तत्र निश्चलचित्तानां तेषां मृत्योर्भयं कथम् ? રૂછો धर्मकर्ता गुरुद्यो धर्मज्ञो धर्मदेशकः । सदौषधं मोक्षमार्गसाधना ज्ञानपूर्विका
શોરૂરી पथ्यं सद्भावना योगात् त्रयाणां च प्रणश्यति । भावामयो, मिलन्तु मे त्रये एते भवे भवे ॥३३॥ (युग्मम्)
Jain Education International
For Private Eersonal Use Only
www.jainelibrary.org