________________
परिशुद्धचित्तरत्रः त्यजेद् देहं तदन्तकालेऽपि । • आसन्नमेनं ज्ञात्वाऽनशनविधिना विशुद्धेन ॥९६॥ अनशनशुद्धाविह यत्त्रोऽतिशयेन भवति कर्तव्यः । यल्लेश्यो म्रियते यतस्तल्लेश्येष्वेवोपपद्यते ॥९८॥ लेश्यायामप्याज्ञायोगत एवाऽऽराधक इह ज्ञेयः । इतरथाऽसकृदेषाऽपि हन्ताऽनादौ संसारे ॥ ९९ ॥ तत एवमाज्ञायोगे यतितव्यमयोगतार्थिना सम्यग् । एष एव भवविरहः सिद्धेः सदाऽविरहश्च ॥ १०० ॥ एवं चाऽऽजीवनमुचितवृत्याः सेवनेन येन स्वकीयं चित्तरत्नं परिशुद्धं विहितं तादृश आत्मा स्वज्ञानेनाऽऽगम-देवता - प्रतिभा - स्वप्नादिभिर्वा स्वीयं मरणकालं सनीपं ज्ञात्वा विशुद्धेनाऽनशनविधिना देहं त्यजेत् ।
अनशनस्य विशुद्धावप्यतिशयेन यत्नो विधेयः, यतो मृत्युकाले यादृशी लेश्याआत्मपरिणामविशेषो वर्तते तदनुरूपैव गतिः प्राप्यते । शास्त्रेऽप्युक्तमस्ति 'जल्लेसे मरइ तल्लेसे उव्वज्जइ' ( यल्लेश्यो म्रियते तल्लेश्य उपपद्यते ) इति ।
I
अन्यच्च, केवलं शुभलेश्या - केवलं शुभात्मपरिणाम एव नोपकुरुते, यतोऽनादावस्मिन् संसारे तादृशी शुभलेश्या त्वनेकशः प्राप्ता तद्द्द्वारा च शुभा गतिरपि प्राप्ता किन्तु कर्मणामभावरूपो मोक्षो न तन्मात्रेण प्राप्यते । यतस्तत्राऽऽज्ञायोगस्य सम्यग् - दर्शना-दिपरिणामस्याऽभाव आसीत् । अतोऽत्र शुभलेश्यया सह सम्यग्दर्शनादिपरिणामरूप आज्ञायोगोऽ प्यावश्यकोऽस्ति, तथैव चाऽऽत्माऽऽराधको भवतीष्टफलं च प्राप्नोति ।
अत एव च योऽयोग्यवस्थामभिलषति तेनाऽऽत्मना त्वाज्ञायोगे एव सततं सम्यक्तया च यत्नो विधेयः । यत एष आज्ञायोग एव भवविरहोऽस्ति सिद्धिगतेश्चाऽविरहोऽप्येष एवाऽस्ति । अर्थादेष आज्ञायोगो भवविरहस्य कारणमस्ति मोक्षप्राप्तेश्चाऽपि कारणमस्ति इति ।
Jain Education International
७०
For Private & Personal Use Only
www.jainelibrary.org