________________
एवं च सततं योगवृद्धेरभ्यासाद् यद्यस्मिन्नेव जन्मनि योगसमाप्तिः स्यात् तर्ह्यात्माऽयोग्यवस्थां-शैलेश्यवस्थामर्थाद् यत्र मनोवाक्काययोगानां प्रवृत्तिर्नास्ति तादृशीं निष्प्रकम्पां शैलतुल्यां स्थिरामवस्थां प्राप्नोति । तदवस्थाप्राप्त्या च जन्म-जरामरणादिदोषरहिता, सती-यत: पुनरागमनं नास्ति तादृशी, एकान्तविशुद्धा च सिद्धिगतिः प्राप्यते ।
यदि च कदाचित्तस्मिन्नेव भवे योगसमाप्तिर्न स्याद् योगश्चाऽपूर्णो यद्यवतिष्ठेत तर्ह्यपि योगरूपे मोक्षमार्गे आजन्म कृतेन पुरुषार्थेनाऽऽत्मा देवगतौ विशिष्टजातिकुलादियुक्तायां वा मनुष्यगतौ जन्म प्राप्नोति, यत्र च योगमार्गेऽग्रेसरीभवितुमनुकूला सामग्री प्राप्यते । गतभवे च कृतेन योगस्य दृढाभ्यासेन - अर्थात् प्रणिधानपूर्वकं कृतया योगप्रवृत्त्या तस्य विघ्नानां नाशो भवति, अस्मिंश्च भवे शीघ्रमेव योगसिद्धिर्जायते ।
यथा कश्चिद् दिवसाभ्यस्तं विषयं तद्दृढाभ्यासवशाद् रात्रौ स्वप्नेऽप्यनुभवति तथैवाऽस्मिन् भवे यदि योगस्य दृढोऽभ्यासः कृतः स्यात् तर्हि भवान्तरेऽपि योगप्राप्तिर्भवति ।
अत एव च प्रत्येकमात्मभिः शुद्धयोगमार्गोचितानि यानि स्थानानि - अर्थादा. गमनिर्दिष्टानि निरवद्यानि योगमार्गानुकूलानि समत्वादिसंयमस्थानानि - तत्र सततं वर्तितव्यम् । इह-परलोकविषये जीवित - मरणादिविषये च सदा समदृष्टिना भाव्यम्, यत एतादृश्यवस्थैव मुक्तावस्थाया बीजमस्ति ।
अथोपसंहरन्नाह
Jain Education International
परिशुद्धचित्तरयणो चएज्ज देहं तदंतकाले वि । आसण्णमिणं णाउं अणसणविहिणा विसुद्धेणं ॥ ९६ ॥ अणसणसुद्धीए इहं जत्तोऽतिसएण होइ कायव्वो । जल्लेसे मरइ जओ तल्लेसेसुं तु अववाओ ॥ ९८॥ लेसाण वि आणाजोगओ उ आराहगो इहं नेओ । इहरा असतिं एसा वि हंतऽणाइम्मि संसारे ॥ ९९ ॥ ता इय आणाजोगो जइयव्वमजोग - अत्थिणा सम्मं । एसो चिय भवविरहो सिद्धीए सया अविरहो य ॥१००॥
६९
For Private & Personal Use Only
www.jainelibrary.org