________________
62 आस्वादः चिन्तनधार
मुनिरत्नकीर्तिविजयः आहारार्थं कर्म कुर्यादनिन्द्यं, स्यादाहारः प्राणसन्धारणार्थम् । प्राणा धार्यास्तत्त्वजिज्ञासनाय, तत्त्वं ज्ञेयं येन भूयो न भूयात् ॥
प्रवृत्तिर्द्विधा भवति- (१) प्रयोजनमुद्दिश्य (२) इच्छामनुसृत्य च । द्वयोरपि मध्ये महदन्तरमस्ति । प्रयोजनं हि तदस्ति यत् सिद्ध्यति, सिद्धे च सति तृप्तिमप्यनुभूयेत, परमिच्छा तु सा या न पूर्णा भवति । भाग्ययोगेन पूर्णायां सत्यामप्यतृप्तिरेव जनयेदिति । प्रयोजनं नियतं भवति, इच्छा तु न तथा । इच्छा लघुस्वरूपेणोद्भूय वायुवच्छनैः शनैर्विस्तरति । प्रयोजनस्याऽन्तो विद्यते यश्च प्राप्तुमपि शक्यते किन्त्विच्छाया अन्तो दृश्यमानः सन्नपि ग्रहीतुं प्राप्तुं वा न शक्यते ।
किं मूलमस्त्यस्माकं प्रवृतेः प्रयोजनमुतेच्छा ? इति संशोध्यमस्माभिः । अविरतं वयं प्रवृत्तिनिरताः स्मः । कदाचिद् वयमेतदपि न जानीमो यदेतत्सर्वमपि वयं किमर्थं कुर्मः ? इच्छाया एकमन्तं गृहीत्वाऽपरान्तस्य प्रापणस्य मिथ्येहां वहमाना वयं सततं धावामः । अन्ततोगत्वा च मुखेऽतृप्तेविषाद एव लिप्तो दृश्यते । जीवनस्याऽन्तकालेऽपि तस्या अपरोऽन्तो न प्राप्यते । जीवश्चाऽनवाप्तबोध एवेहलोकं त्यक्त्वा प्रयाति । अतो यदि नाम वयमस्माकं प्रवृत्तेर्मूलं शोधयेम, इच्छायाः स्वरूपमुपलक्ष्य च प्रयोजनमेवोद्दिश्य ) प्रवर्तेमहि तर्खनेकेभ्यो विषादव्यथासन्तापादिभ्यो मुञ्चेम । - अत्र श्लोके प्रवृत्तेर्जीवनस्य चाऽपि वास्तविकानि मूलभूतानि प्रयोजनानि दर्शितानि सन्ति । तदनुसरणमेव सुखस्य मार्गः ।
तत्र-आहारार्थं कर्म कुर्यादनिन्द्यम् - न कर्म विना संसारः प्रवर्तते । अनिवार्यस्य । कर्मणोऽत्र यथा प्रयोजनं दर्शितमस्ति तथा मर्यादाऽपि निर्दिष्टाऽस्ति । आहारार्थं कर्म
कुर्यादिति प्रयोजनमस्ति, अनिन्द्यं कर्म कुर्यादिति च मर्यादा । एतद् द्वयं यत्र विद्यते 19 तत्र संसारे स्वर्गमेव भवति । अपेक्षा यद्यल्पाः स्युस्तहि पापं नाऽनिवार्यं भवति । । अस्माकमपेक्षा आहारमाजीविकां वाऽतिक्रम्य प्रवर्तन्ते, अत एव चाऽस्माभिः कथनीयं ।
७१ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org