SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ - 14 भवति यत् पापं विना संसारो न प्रचलति । सत्यमेतद् यत् पापं विना संसारो न । प्रचलति किन्तु जीवनम् ? तत्तु पापं विना प्रचलत्येव । अस्माकं कर्मणः प्रयोजनं न (0 केवलमाहारः किन्त्विच्छापूर्तिरस्ति । तदेव च निन्द्यकर्मणि प्रेरयति प्रवर्तयति च । अनिन्द्यकर्मेत्येतद् जीवनधर्मोऽस्ति । आत्मिकधर्मस्य तु वार्ताऽपि दूरेऽस्ति । तत्प्राप्तेः पूर्वं जीवनधर्मस्य सिद्धिरनिवार्याऽस्ति । जीवनस्य नैतिकमूल्यानि येन न ज्ञातानि नाऽप्यात्मसात्कृतानि स कथं नामाऽऽत्मिकधर्मं प्राप्तुं स्थिरीकर्तुं सिद्धं वा कर्तुं शक्नुयात् ? जीवनतत्त्वं प्रति यस्य चित्ते आदरः प्रवर्तते तदर्थमेतदनिन्द्यपदं साधनास्वरूपमस्ति । यस्य च मनसि भौतिकतैव विलसति तदर्थं त्वेतदुन्मत्तालापस्वरूपम् । अनिन्द्यकर्मेत्ये-- तदुन्नतेर्यात्रायाः प्रथमं चरणम् । तादृशकर्मणि च परमाध्यात्मस्थितेर्बीजं निहितमस्ति, तस्यैव चाऽपरनामाऽस्ति मानवता। अन्यायेन निन्द्यकर्मणा वा प्राप्तात् स्वादुभोजनात् न्यायेनाऽनिन्द्यकर्मणा वा प्राप्त साधुभोजनं वरम् । तदमृततुल्यं भवति, तस्योद्गारेऽपि माधुर्यमेवाऽनुभूयते । निन्द्यकर्मणा प्राप्तं भोजनं तु विषतुल्यम् । तस्योद्गारेऽतृप्ति-लोभ-कषाय-व्यसनादीनां दुर्गन्धोऽनुभूयते । विषयाणां लौल्यं यदा मन्दं भवति तदैवाऽनिन्द्यकर्मणि प्रवर्तनं शक्यं भवति । सन्तोष-मैत्री-स्वपरहितबुद्धयाद्यनेकगुणास्तत्र प्रवर्तनेऽनिवार्याः सन्ति । यत एतादृशो गुणवान् जनो जानात्येव यदाहारस्तु केवलं शरीरपुष्ट्यर्थं शरीरस्वास्थ्यार्थं वाऽस्ति न तु जिह्वालौल्यपोषणार्थं मनस्तुष्ट्यर्थं वा - स्यादाहारः प्राणसन्धारणार्थम् - आहारस्तु प्राणानामुपष्टम्भः - इति बोधो यदा स्पष्टो भवति तदैवाऽऽहारगतः स्थल-काल-भंक्ष्याभक्ष्यपेयापेयादिविवेको जागृतः स्यात् । प्रमाणभानमपि च तदैव शक्यम् । अन्यथा वर्तमानकालस्य वातावरणेन को नामाऽनभिज्ञोऽस्ति ? । जीवनार्थमाहारोऽस्त्युताऽऽहारार्थ जीवनमित्येतदेव न ज्ञायते । आत्मिकसत्त्वादपि वयं शारीरिकी शक्तिमधिकं महत्त्वपूर्णां गणयामः । एतद्दौर्बल्यमुपलक्ष्यैव पाश्चात्यैरस्माकं विचारधारा परिवर्तिता । ते यन्निर्दिशन्ति तदेव मान्यं गणयित्वा तादृशमेवाऽऽहारं वयं गृह्णीमः । किन्त्वेतामाहारपरिवर्तनस्य नीतिं पुरस्कृत्य तेऽस्माकं प्राणानां संकटं निर्मिमत एव, यतस्तेषां मनसि नाऽस्त्यस्माकं जीवनस्य किञ्चिदपि मूल्यं, किन्तु सार्द्धमेवाऽस्माकं विचारेषु स्थिताया अध्यात्मस्य पक्षपातरूपायाः ७२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy