________________
वाचकानां प्रतिभावः
नन्दनवनकल्पतरोर्द्वादशी शाखाऽधिगता । सन्धि - सहितस्य साहित्यस्य प्रकाशनस्य निर्णयः सुयोग्य एव । सन्धिस्तु संस्कृतभाषाया विशेषताऽस्ति । अन्यथा संस्कृतात् विस्मृताऽपि स्यात् एतत् चिन्तनीयमेव । भवता चिन्तितं तन्नितरां धन्यवादार्हम् ।
पत्रविभागे प्रकृतिरक्षणविषयकं यत्किंचित् लिखितं तन्नितरां साम्प्रतकालोचितमासीत् । सर्वैर्मनुष्यैर्विचारणीयं यत्- " एषा पृथिवी न केवलं मनुष्याय, अपि तु भूचरखेचराचराणां कृतेऽपि निर्मिताऽस्तीश्वरेण । तेषां सर्वेषामपि प्रकृत्या उपरि समानाधिकारोऽस्त्येव यथा मनुष्याणाम् ।"
पूज्यमुनिवर्य श्रीविजयशीलचन्द्रसूरे !
सादरप्रणामाः ।
Jain Education International
रूपनारायणपाण्डेयः
एस् II / 330, राज्यशिक्षा संस्थान कॉलोनी, एलनगञ्जः, प्रयागः, उ.प्र., २११००२
मान्याः, सादरं प्रणामाः ।
‘नन्दनवनकल्पतरु:'(१२ उत्तरायणम्, वि.सं. २०६०) सम्प्राप्तः । अत्र सर्वा रचना, रम्या भव्याश्च । 'प्रास्ताविकम् ' तत्रभवतां संस्कृतनिष्ठां पुष्णाति संवर्धयति च । श्रीमुनिधर्मकीर्तिविजयस्य लेखः 'आर्यधर्मः अहिंसा' अहिंसायाः साम्प्रतिकीमपेक्षां प्रस्तौति । अहिंसा वैदिकधर्मस्य प्राणभूतं तत्त्वम् आसीद् अस्ति च, किन्तु पाश्चात्यसंस्कृतेः प्रभावाद् भोगलिप्सायाश्च संवर्धनाद् हिंसा राष्ट्रेऽस्मिन् अनुदिनं वर्धते । कृतेऽपि प्रयत्ने देशे गोवधनिषेधो न समग्रतया जात: । मानसिकी हिंसा नितरां चिन्तनीयतरा वर्तते । शिष्टे समाजे सद्भावनां सद्विचाराणां च यादृशी हत्या साम्प्रतं वर्तते, तादृशी पुराकाले न बभूव । सन्धिविरहिताया रचनायाः प्रकाशननीतिः तत्रभवद्भिः परित्यक्तेति शुभमेवानुभूयते ।
Xxxaaa
महेश्वरः रमानाथ: द्विवेदी जाम-वणी ।
-
For Private & Personal Use Only
www.jainelibrary.org