________________
प्रवर्तेत न कदाप्यहङ्कारावेगादशक्यानुष्ठाने प्रवर्तेत । स्वशक्तेर्मर्यादामवगम्यैव किमप्यनुष्ठानमारभेतेति ।
एते चारित्रवन्तोऽपि जीवाः सामायिकशुद्धिभेदतः - समताशुद्धिभेदादनेकप्रकारा भवन्ति । एषा सामायिकशुद्धिर्वीतरागाणामाज्ञामनुसृत्य जायते । चारित्रमोहनीयकर्मक्षयोपशमवैचित्र्यादेषाऽऽज्ञाऽपि भिन्न-भिन्नजीवेषु भिन्नभिन्नरूपेण परिणमति । कश्चिद् देशविरतिचारित्रमङ्गीकुरुते । तत्राऽपि सामायिकादीनामेकादशानां प्रतिमानां मध्यादेकद्वित्र्यादिप्रतिमाप्रतिपद्यमानका जीवा भवन्ति । कश्चिच्च सर्वविरतिं प्रतिपद्यते । तत्राऽपि सामायिकचारित्र- छेदोपस्थाप्यचारित्रादिभेदेन चारित्रवतां भेदोऽस्ति । सर्वभेदानामन्ते क्षायिकवीतरागोऽस्ति ।
एसो सामाइयसुद्धिभेयओ गहा मुणेयव्वो । आणापरिणइभेया अंते जा वीयरागो त्ति ||१६||
एष सामायिकशुद्धिभेदतोऽनेकधा मन्तव्यः । . आज्ञापरिणतिभेदादन्ते यावद् वीतराग इति ||१६|| एतेषामपुनर्बन्धकानामनुष्ठानानां योगत्वं दर्शयति
Jain Education International
एएसि णियणियभूमियाए उचियं जमेत्थऽणुट्ठाणं । आणामयसंयुत्तं तं सव्वं चेव योगो त्ति ॥ २१ ॥
']
एतेषां निजनिजभूमिकाया उचितं यदत्राऽनुष्ठानम् - आज्ञामृतसंयुक्तं तत् सर्वमेव योग इति ॥ २१ ॥ आप्तसम्मतमेवाऽनुष्ठानं योगत्वमाप्नोति । अतश्चाऽपुनर्बन्धकादिजीवाः स्वस्वभूमिकानुरूपमाप्तस्य जिनेश्वरस्याऽऽज्ञामृतेन युक्तं यत्किमप्यनुष्ठानजातं कुर्वन्ति तत्सर्वमपि योग इत्युच्यते ।
यद्यपि मिथ्यात्वाख्यप्रथमगुणस्थानकस्थितानामपुनर्बन्धकजीवानां तीर्थकराद्यातपुरुषाणां परिचयाभावादाज्ञायोगो नास्ति तथापि तीव्रभावेन पापाकरणादिरूपा या परिणतिरस्ति सैवाऽऽज्ञामृतसंयोग उच्यते । यतो बाह्याज्ञायोगोऽप्येतादृश्या: परिणतेरेव कारणं भवति ।
४६
For Private & Personal Use Only
www.jainelibrary.org